________________
पीठिका - [भा. ५४]
१९
इति । एवं शेषेन्द्रियेष्वपिभावनीयम्। संज्ञिनांपुनः 'अर्थ एवाक्षरं' अर्थोपलम्भकाल एवाक्षरलाभः, यथा शङ्खशब्दश्रवणकाल एव 'शङ्कशब्दः' इति । 'निश्चये पुनः भजना' 'शङ्खशब्द एवायम्, शार्ङ्गशब्द एवायम्' इति वा निश्चयगमनं स्याद्वा न वा एवं शेषेन्द्रिययेष्वपि भावनीयम् ।।
गतं लब्ध्यक्षरम्, अधुना व्यञ्जनाक्षरमाह[भा.५५] अस्थाभिवंजगं वंजणखरं इच्छितेतरं वदतो।
रूवं व पगासेणं, वंजति अत्थो जओ तेणं॥ कृ-इह यद् विवक्षितं तदेव यदि वदति, यथा अश्वंभणिष्यामि' इतितदेव ब्रूते, तदातद् ईप्सितम् । अन्यद् विवक्षित्वाऽन्यच्चेदुचरति तदा तद् ‘इतरद्' अनीप्सितम् । ईप्सितमितरता वदतो यद् अर्थाभिव्यअकमभिधानं तद् व्यअनाक्षरम् । अथ कस्मादम व्यञ्जनाक्षरमुच्यते ? नाऽभिधानाक्षरम् ? अत आह-रूपमिव घटादिकमिव 'प्रकाशेन' दीपादिना तमसि वर्तमानम् 'अर्थ' घटादि 'यतः' यस्माद् ‘व्यज्यते' प्रकटीक्रियते 'तेन' कारणेन व्यञ्जनाक्षरमिव्युच्यते ।। [भा.५६] तंपुन जहत्थनियतं, अजहत्यं वा वि वंजणं दुविहं ।
एगमनेगपरिययं, एमेव य अक्खरेसुं पि ।। कृ'तत्पुनः' व्यञ्जनंद्विविधम्-यथार्थनियमयथार्थवा । यथार्थनियतं नाम अन्वर्थयुक्तम्, यथा-क्षपयतीति क्षपणः, तपतीतितपन इत्यादि। अयथार्थ यथा-नेन्द्रंगोपयति तथापीन्द्रगोपकः, न पलमश्राति तथापि पलाश इत्यादि । अथवा तद् व्यजनं द्विधा-एकपर्यायमनेकपर्यायं च । एकः पर्यायः-अभिधेयो यस्य तदेकपर्यायम्, यथा-अलोकः स्थण्डिलमित्यादि, अलोकशब्देन ह्यलोकत्वलक्ष एकएवपर्यायोऽभिधीयते, कण्डिलशब्देन स्थण्डिलत्वेमेकमित। अनेके पर्यायाःअभिधेया यस्य तदनेकपर्यायम्, यथा-जीव इति, जीवशब्देन हि जीवोऽप्युच्यते सत्त्वोऽपि प्राण्यपि भूतोऽपिच, जीवादयश्च प्रतिनियतविशेषाः । तथा चोक्तम्
प्राणा द्वि-त्रि-चतुः प्रोक्ताः, भूताश्च तरवः स्मृताः।
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः। ततो भति सामान्येन जीवशब्दस्यानेकपर्यायाभिधायकत्वमिति । एवमेव' एकाऽनेकभेदेनाक्षरेष्वपि द्रष्टव्यम् । तद्यथा-द्विविधं व्यञ्जनम्, एकाक्षरमनेकाक्षरं च । एकाक्षरं धीः श्रीरित्यादि, अनेकाक्षरं वीणा लता माला इत्यादि ।। [भा.५७] सक्य-पाययभासाविनियुत्तं देसतो अनेगविहं ।
अभिहाणं अभिधेयातो होइ भिन्नं अभिन्नं च ॥ वृ.अथवा द्विप्रकराम्-संस्कृतभाषाविनियुक्तम्, यथा-वक्षइति, प्राकृतभाषाविनिर्युक्तं च यथा-रोक्खोइति । 'देशतः' नानादेशानाश्रित्यानेकविधम्, यथा-मगधानाम् ओदनः, लाटानां कूरः, द्रमिलानां चौरः, अन्ध्राणाम् दडाकुरिति । तथा तद् 'अभिधानं' व्यञ्जनाक्षरम् अभिधेयाद् भित्रमभिन्नं च । तत्र भिन्न प्रतीतम्, तादात्म्याभावात् ।। तमेव तादास्याभावमाहभा ९५८] खुर-अग्गि-मोयगोच्चारणम्मि जम्हा उ वयण-सवणाणं।
नवि छेदो न वि दाहो, न विपूरण तेन भिन्नं तु ॥ वृ-यस्मात्क्षुरशब्दोच्चारणेऽग्निशब्दोचारणे मोदकशब्दोच्चारणेच यथाक्रमंवदतो वदनस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org