________________
१८
-
बृहत्कल्प-छेदसूत्रम् -१पुव्वोवलद्धमत्थे, जस्स उ नामं न संभरति ।। वृ-अर्थस्यपूर्व पश्चाच्चोफ्लम्भेऽपि सर्वस्य अक्षरलब्धि' तद्विषयाऽक्षरलब्धिर्न सम्भवति। कस्य न भवति? इत्यत आह-यस्याऽर्थे विवक्षितार्थविषयं पूर्वोपलब्धं नाम न संस्मरति ।।
तदेवमुक्ता त्रिविधाऽप्यनुपलब्धि । अधुना साक्षतो विपक्षतचोपलब्धिमाह[भा.५०] सारिक्ख-विवक्खेहि य, लमति परोक्खे विअक्खरं कोइ ।
सबलेर-बाहुलेरा, जह अहि-नउला य अनुमाणे॥ वृ-कश्चित् परोक्षेऽप्यर्थे दृश्यमानार्थसाध्श्यादक्षरं लभते, यथा 'शाबलेय-बाहुलेयाः' शाबलेयबाहुलेयाक्षराणि । तथाहि-कश्चित् शाबलेयं दृष्ट्वा तत्साध्श्यात् परोक्षेऽपि बाहुलेये तदक्षराणि लभते 'ईशो बाहुलेयः' इति । तथा कश्चिद्वैपक्ष्येण परोक्षेऽर्थे तदक्षरं लभते, यथाअहिदर्शनानकुलानुमाने नुकलदर्शनाद्वा सर्पानुमाने ।।
सम्प्रत्युबयधर्मदर्शनत उभयाक्षरलब्धिमाह[भा.५१] एगत्थे उवलद्धे, कम्मि उभयस्थ पञ्चओ होइ ।
अस्सतरि खर-ऽस्साणं, गुल-दहियाणं सिहरिणीए। वृ-'कस्मिंश्चिद्' उभयधर्मयोगिनिउभयावयवयोगिनि वा एकस्मिन्नर्थे उपलब्धे उभयत्र परोक्षे 'प्रत्ययः' तदक्षरलाभो भवति । यथा 'अश्वतरे' वेगसरे द्दष्टे खरस्याऽश्वस्य च प्रत्ययःतदक्षरलाभः । यथा वा शिखरिण्यामुपलब्धायां गुड-दनोः प्रत्ययः-गुड-दध्यक्षरलाभः ।।
औपम्यत उपलब्धिमाह[भा.५२] पुव्वं पि अनुवलद्धो, घिप्पइ अत्यो उ कोइ ओवम्मा ।
जह गोरेवं गवयो, किंचिविसेसेण परिहीनो ।। वृ-पूर्वमनुपलब्धोऽपिकोऽप्यर्थ औपम्याद् गृह्यते, यथा गौरेवंगवयः, नवरं किञ्चिद्विशेषेण परिहीनः, कम्बलकविरहत इत्यर्थः । अत्रेयंभावना-'यथा गौस्तथा गवयः' इति श्रुत्वा कालान्तरेणाटव्यां पर्यटन् गवयं दृष्ट्वा 'गवयोऽयम्' इति यदक्षरजातं लभते एषा औपम्योपलब्धिः।। इदानीमागमत उपलब्धिमाह[भा.५३] अत्तगमाप्पमानेन अक्खरं किंचि अविसयत्थे वि।
भवियाऽभविया कुरवो, नारग दियलोय मोक्खोय।। दृ-आप्ताः-सर्वज्ञाः तत्प्रणीत आगम आप्तागमः, स एव प्रमाणमाप्तागमप्रमाणम्, तेन अविषयेऽप्यर्थे किञ्चिदक्षरं लभते । यथा-भव्योऽभव्यो देवकुरव उत्तरकुरवो नारका देवलोको मोक्षः, चशब्दादन्ये च भावाः । इयमत्र भावना-आप्तागमप्रामाण्यवशात् तस्मिंस्तस्मिन् वस्तुनि योऽक्षरलामः, यथा-भव्य इति अभव्य इति देवकुरव इत्यादि, सा आगमोपलब्धिः । एषा सर्वाऽप्युपलब्धिसंज्ञिनां भवति, असंज्ञिनां तु का वार्ता ? इत्यत आह{मा.५४] ओसत्रेण असन्नीण अत्यलंभे वि अक्खरं नस्थि ।
अथोच्चिय सन्त्रीणं, त अक्खर निच्छए भयणा।। वृ- असंज्ञिनाम् 'अर्थलाभेऽपि' अर्थदर्शनेऽपि 'उत्सत्रेन' एकान्तेन ‘नास्त्यक्षरं' नैवाक्षरलामः तथाहि-शङ्कशब्दं श्रुत्वाऽपिन तेषामेषा लब्धिरुपजायते, यथा 'अयं शङ्खशब्दः'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org