________________
पीठिका - [ भा. ४४]
वृ- लब्धिः ‘पञ्चविकल्पा' पञ्चभेदा । अत्र 'लब्धि' इति पदैकदेशे पदसमुदायोपचाराद् 'लब्ध्यक्षरम्' इति प्रतिपत्तव्यम् । ततोऽयमर्थः पञ्चविधं लब्ध्यक्षरम्, तद्यथा-श्रोत्रेन्द्रियलब्ध्यक्षरं जिह्वेन्द्रियलब्ध्यक्षरं चक्षुरिन्द्रियलब्ध्यक्षरं भ्राणेन्द्रियलब्ध्यक्षरं स्पर्शनेन्द्रियलब्ध्यक्षरं च । उपलक्षणमेतत्, तेन षष्ठं नोइन्द्रियलब्ध्यक्षरमप्यवगन्तव्यम् । अथ कीद्दशं षट्प्रकारमपि लब्ध्यक्षरम् ? अत आह-'यस्य' श्रोत्रादेः श्रोत्र-चक्षु-ण- जिह्वा स्पर्शनेन्द्रियाणां मनसश्च य उपलभ्यः 'अर्थ' शब्दादिस्तमुपलभ्य याऽक्षराणां लब्धिरुपजायते तत् श्रोत्रेन्द्रियादिलब्ध्यक्षरम् । किमुक्तं भवति ? –श्रोत्रेण शङ्खशब्दमुपलभ्य तदनन्तरं 'शङ्ख' इत्येवंरूपयोर्द्वयोरक्षरयोर्या लब्धिस्तत् श्रोत्रेन्द्रियलब्ध्यक्षरम् ॥ प्रकारान्तरेण लब्ध्यक्षरभेदानाह
[भा. ४५] सामन्त्र विसेसेण य, दुविहुवलद्धी उ पढमिय अमेया । तिविहाय अनुवलद्धी, उवलद्धी पंचहा बिइया ॥
वृ-अथवा ‘उपलब्धि' उपलब्ध्यक्षरं 'द्विविधं' द्विप्रकारम्, तद्यथा- 'सामान्येन विशेषेण च' सामान्यलब्ध्यक्षरं विशेषलब्ध्यक्षरं चेति भावः । तत्र 'प्रथमिका' सामान्योपलब्धिसामान्पोयपलब्ध्यक्षरं अभेदम्, सामान्ये भेदाभावात् । इहोपलब्धिरनुपलब्ध्यपेक्षा, ततस्तस्या अपि प्ररूपणा कर्त्तव्येत्यत आह-'त्रिविधा' त्रिप्रकाराऽनुपलब्धि । या पुनः 'द्वितीया' विशेषोपलब्धिविशेषोपलब्ध्यक्षरं सा पञ्चप्रकारा । तानेव त्रीन् पञ्च च भेदानाह
[भा. ४६]
अचंता सामन्ना, य विरसुती होइ अनुवलद्धीओ । सारिक्ख विवक्खोभय, उवमाऽऽगमतो य उवलद्धी ॥
वृ- अनुपलब्धिरेवं त्रिधा भवति । तद्यथा- 'अत्यन्ताद्' एकान्तेनानुपलब्धि सामान्याद् विस्मृतेश्च । उपलब्धिरपि पञ्चप्रकारैवम् साध्क्षतो विपक्षतः 'उभयतः ' उभयधर्मदर्शनत औपम्यत आगमतश्च ॥ तत्र प्रथमतोऽत्यन्तानुपलब्धिमाह
१७
[भा. ४७] अत्थस्स दरिसणम्मि वि, लद्धी एगंततो न संभवइ । दडुं पिन यागंते, बोहिय पंडा फणस सत्तू ॥
वृ- अर्थस्य दर्शनेऽपि कस्यचित्तदर्थविषया 'लब्धि' अक्षराणां लब्धिरेकान्ततो न सम्भवति । तथा च 'बोधिकाः' पश्चिमदिग्वर्तितनो म्लेच्छाः पनसं दृष्टाऽपि 'पनसः' इत्येवं न जानते तेषां पनसस्याऽत्यन्तपरोक्षत्वात्, न हि तद्देशे पनसः सम्भवति । तथा 'पाण्डाः' पाण्डुमधुरावासिनः सक्तून् दृष्टाऽपि 'सक्तवोऽमी' इति न जानते, तेषां हि सक्तवोऽत्यन्तपरोक्षाः, ततो न तद्दर्शनेऽपि तदक्षरलाभः ॥ सम्प्रति सामान्यादनुपलब्धिमाह
[भा. ४८]
अत्थस्स उग्गहम्मि वि, लद्धी एगंततो न संभवति । सामन्ना बहुमज्झे, मासं पडियं जहा दहुं ॥
वृ- अर्थस्यावग्रहेऽपि तदन्येनार्थेन 'सामान्यात्' साद्दश्यादेकान्ततः 'लब्धि' अक्षरलब्धिर्न सम्भवति । यथा बहुमध्ये पतितं माषं द्दष्टाऽपि तदन्येन सामान्यान्न तदक्षरे लभते ॥
विस्मृतेरनुपलब्धिमाह
[ भा. ४९] अत्थस्स वि उवलंभे, अक्खरलद्धी न होइ सव्वस्स ।
18 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org