________________
२२
बृहत्कल्प-छेदसूत्रम् -१. बादरत्वपरिणामपरिणतेष्वनन्तप्रादेशिकेषु स्कन्धेषु, 'नान्येषु' सूक्ष्मपरिणामपरिणतेषु । तत्र गुरु द्वयं यथा-अयस्पिण्डः, लघु यथा-अर्कतूलम्, गुरुलधुयथा-वायुः, अगुरुलघु परमाण्वादि । निश्चयतः पुनरेवंद्विविधद्रव्यभावना-परमाण्वादेरारभ्य सङ्ग्यातप्रदेशात्मकोऽसङ्ख्यातप्रदेशात्मको यश्चानन्तप्रदेशात्मकः सूक्ष्मस्कन्धः कार्मणप्रभृतिक एते अगिरुलघवः, बादराः स्कन्धा औदारिकवैक्रिया-ऽऽहारक-तैजसरूपागुरुलघवः ।सम्प्रतिगुरुलघुद्रव्याणामगुरुलघुद्रव्याणांचाऽल्पबहुत्वेन वर्गणाश्चिन्त्यन्ते-तत्र बादरस्कन्धेषुजघन्य-मध्यमोत्कृष्टभेदभिन्नेष्येकोत्तरवृध्धाप्रवर्धमाना वर्गणा अनन्ता भवन्ति, ताश्च तावद् द्रष्टव्या यावत् सर्वोत्कृष्टो बादरस्कन्धः ।। [भा.६६] तत्तो य वग्गणाओ, सुहुमाण भवंतऽनंतगुणियातो।
परमाणूण य एक्का, संखे संखेयरेऽसंखा ।। वृ. 'ताभ्यः' समस्तबादरस्कन्धगताभ्यो वर्गणाभ्यः 'सूक्ष्माणाम्' सूक्ष्मानन्तप्रदेशककन्धानामनन्तगुणिता वर्गणाः । तथा परमाणूनां समस्तानामेका वर्गणा । 'संखेसंखेति सङ्घयेयप्रदेशेषु धादिप्रभृति उत्कृष्टं सङ्ख्यातं यावत्सङ्ख्याताः, सङ्ख्यातस्य सङ्ख्यातभेदभावात् । इतरस्मिन्' असङ्ख्येयप्रदेशेऽसङ्खयेया वर्गणाः, असङ्ख्यातस्याऽसङ्ख्यातभेदभिन्नत्वात् ॥ [भा.६७] इय पोग्गलकायम्मी, सव्वत्थोवा उगुरुलहू दव्वा ।
उभयपडेसेहिया पुण, अनंतकप्पा बहुवियप्पा॥ वृ-'इति' एवमुपदर्शितनप्रकारेण 'पुद्गलकाये पुद्गलास्तिकायेगुरुलघुद्रव्याणिसर्वस्तोकानि । 'उभयप्रतिषेधितानि' सातगुरुलघुप्रतिषेधितानिअगुरुलघूनीत्यर्थः पुनर्द्रव्याणि 'अनन्तकल्पानि' अनन्तभेदानि । तत्रानन्तभेदत्वं गुरुलघुद्रव्येष्वप्यस्ति, तत आह-'बहुविकल्पानि' विकल्पातिशयेन बहुभेदानि।सम्प्रति पर्यायपरिमाणमल्पबहुत्वेन चिन्त्यते-इह पञ्च राशयः क्रमेण स्थाप्यन्ते, तद्यथा-परमाणुराशिः सङ्ख्यातप्रदेशकस्कन्धराशिः असङ्ख्यातप्रदेशकस्कन्धराशिः सूक्ष्मानन्तप्रदेशकस्कन्धराशिः बादरानन्तप्रदेशकस्कन्धराशिश्च तत्रबादरानन्तप्रदेशस्कन्धराशौ योऽन्तिमः सर्वोत्कृष्टो बादरस्कन्धस्तत्र बहवो गुरुलघुपर्यायाः सर्वस्तोका अगुरुलघुपर्यायाः । इह बादरस्कन्धेष्वप्यगुरुलघवः पर्यायाः सन्ति, परमुत्कलिता गुरुलघुपर्याया इति त एव तत्र शेषकालं गण्यन्ते । सम्प्रति तु वस्तुस्थितिश्चिन्त्यते इत्यल्पबहुत्व चिन्तायां ते चिन्तिताः । तस्मात्सर्वोत्कृष्टाबादरस्कन्धाद्येऽधस्तनाबादरस्कन्धास्तेषुगुरुलघुपर्यायाः क्रमेणानन्तगुणहान्या द्रष्टव्याः, अगुरुलघुपर्यायाः पुनरनन्तगुणवृध्या ।एवंचतावज्ज्ञातव्यंयावत्सर्वजघन्यो बादरस्कन्धः।
उक्तश्च
परमाणु संखऽसंखा, सुहमानंताण बायराणं च ।
एएसिं रासीतो, कमेण सव्वे ठवेऊणं ।। तेसिं जो अंतिमओ, सव्वुक्कोसो य बायरो खंधो। तस्स बहू गुरुलहुया, अगुरुलहू पजवा थोवा ।। तत्तो हिट्ठाहुत्ता, अनंतहानीए गुरुलहू नेया। अगुरुलहू वुद्धीए, एवं ता जाव उ जहन्नो॥ ते गुरुलहुपजाया, पन्नाछेदेण वोकसित्ताणं ।
[भा.६८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org