________________
२२८ .
बृहत्कल्प-छेदसूत्रम् -१-१/१
विश्राममादत्ते एवमयमपिदुस्तरंमोहसागरंती. सातपरिश्रमो विश्राम्यतीति। ततश्छद्मस्थवीतरागत्वसम्बन्धिनिसमयद्वयेऽवशिष्यमाणेप्रथमे समये निद्रां १ प्रचलांर देवगतिं ३देवानुपूर्वी ४ वैक्रियशरीरनामकर्म ५वज्रर्षभनाराचसहननं मुक्त्वा शेषाणि संहननानि १०षन्नां संस्थानानां मध्येयस्मिन् व्यवस्थितस्तदेकंमुक्त्वा शेषाणिसंस्थानानि १५आहारकशरीरनाम १६यद्यतीर्थकरः प्रतिपत्ता ततस्तीर्थकरनामकर्मापि १७ इत्येवं सप्तदश प्रकृतीः क्षपयति । ततो द्वितीये समये पञ्चप्रकारं ज्ञानावरणं चतुर्विधं दर्शनावरणं पञ्चविधमन्तरायं च क्षपयित्वा विमलकेवलश्रियमवाप्नोतीति।
एनां च क्षपक श्रेणिमध्यासीनेन येन यदनन्तानुबन्ध्यादिकं क्षपितं स तेन मुक्त इत्यवसातव्यम् । येऽपि श्रेणिद्वयमद्यापि न प्रतिपद्यन्ते किन्तु सामायिक-च्छेदोपस्थापनीयपरिहारविशुद्धिकानामन्यतमस्मिन्संयमेवर्तन्तेतेऽपि सञ्जवलनचतुष्टयवर्जेदशभिकषायैर्मुक्ता इत्यवगन्तव्यम् । यत उक्तम्
बारसविहे कसाए, खविए उवसामिए व जोगेहिं ।
लब्मइ चरित्तलंभो, तस्स विसेसा इमे पंच ।। ततश्च- जे वि अन सव्वगंथेहि निग्गया होंति केइ निग्गंथा।
तेवियनिग्गहपरमा, हवंति तेसिं खउजुत्ता। वृ-येऽपि च सरागसंयमवर्तिनः सर्वेभ्य आन्तरग्रन्थेभ्यो न निर्गताः तेऽपि तेषां' सञ्जवलनकषायादीनां क्षयोधुक्ताः' उदयनिरोधोदयप्राप्तविफलीकरणाभ्यांक्षयकरणायोद्यताः सन्तः 'निग्रहपरमाः' आन्तरग्रन्थनिग्रहप्रधाना भवन्ति इत्यतो निर्ग्रन्था उच्यन्ते । अपि च[भा.८३७] कलुसफलेण न जुञ्जइ, किं चित्तं तत्थ जं विगयरागो।
संते विजो कसाए, निगिण्हई सो वि तत्तुल्लो॥ वृ-कलुषयन्ति-सहजनिर्मलं जीवं कर्मरजसा मलिनयन्तीति “अच्" इति अच्प्रत्यये कलुषा-कषायास्तेषां यत् फलं-परुषभाषण-नयनमुखविकार-रौद्रध्यानानुबन्धादिकं तेन सह यद् 'न युज्यते' न सम्बन्धमुपयाति विगतरागः' विशेषेण-अपुनविन गतो रागो यस्मात् स विगतरागः, क्षीणमोह इत्यर्थः । तत्र 'किं चित्रम् ?' किमाश्चर्यम् ? कषायलक्षणकारणाभावाद् न किञ्चिदित्यर्थः । यस्तु “सतोऽपि विद्यमानानपि कषायान् ‘निगृह्णाति उदीयमानानेव प्रथमतो निरुणद्धि कथञ्चिदुदयप्राप्तान् वा विफलीकरोति सोऽपि तत्तुल्यः' वीतराग इव निष्कषायो मन्तव्यः, सतामपि कषायाणामसत्कल्पताकरणात्।अतः सरागसंयतोऽपि निर्ग्रन्थोऽभिधीयते इति॥अथ परः प्रश्नयति [भा.८३८] जइ अमितरमुक्का, बाहिरगंथेण मुक्कया किहनु ।
गिण्हता उवगरणं, जम्हा अममत्तया तेसु॥ वृ-यद्यनन्तरोक्तप्रकारेणाऽभ्यन्तरग्रन्थमुक्तास्ततो वस्त्र-पात्रादिकमुपकरणं गृह्णन्तः कथं 'नुः' इति वितर्केबाह्यग्रन्थेन मुक्ता उच्येरन्?, वस्त्रादेरपि ग्रन्थरूपत्वादित्यभिप्रायः । सूरिराहयस्मात् 'तेषु वस्त्र-पात्रादिषु न विद्यते ममत्वं-मूर्छा येषां ते 'अममत्वकाः' “शेषाद्वा” इति कच्प्रत्ययः मूर्छारहितास्तेन बाह्यग्रन्थमुक्ता अप्यभिधीयन्ते। इयमत्र भावना-मूर्छा परिग्रहो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org