________________
उद्देशक : १, मूलं- 9, [भा. ८३६ ]
२२७
अन्नयरो पडिवज्जइ, सुद्धज्झाणोवगयचित्तो ॥
तत्रपूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, शेषास्तु धर्मध्यानोपगता एवेति । प्रतिपत्तिक्रमश्चायम्-प्रथममन्तर्मुहूर्त्तेनानन्तानुबन्धिनः क्रोधादींश्चत्वारोऽपि युगपत् क्षपयति । तदनन्तभागं तु मिथ्यात्वेप्रक्षिप्य तेन सह मिथ्यात्वं क्षपयति । तस्याप्यनन्तभागं सम्यग्मिथ्यात्वे प्रक्षिप्य तदपि सावशेषं क्षपयति । आह किं पुनः कारणं सावशेषं क्षपयति ? इति उच्यते यथा खल्वतिसम्भृतो दावानलो दरदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि दहति एवमसावपि क्षपकस्तीव्रशुभपरिणामत्वात् प्राक्तने कर्मण्यनि-शेषित एवापरं क्षपयितुमारभते । एवं सम्यग्मिथ्यात्वस्यावशेषं सम्यकत्वे प्रक्षिप्य तेन सह सम्यक्त्वं निरवशेषमेव क्षपयति । यदाह चूर्णिकृत् - जं तं सेसं तं सम्मत्ते छुभित्ता निरवसेसं खवेइत्ति ।" एतच्च बद्धायुष्कापेक्षं सम्भाव्यते, आवश्यकादी तमेवाधिकृत्य सम्यक्त्वनिरवशेषक्षपणस्योक्तत्वात् । इह च यदि बद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमते ततो मिथ्यादर्शनोदयतस्तान् पुनरप्यनुचिनोति, मिथ्यात्वे तद्वीजसम्भवात्; क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात् तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषूपपद्यते । क्षीणदर्शनसप्तकोऽप्यप्रतिपतितपरिणामो म्रियमाणः सुरगतावेवोपपद्यते । प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग् भवति । तथा चोक्तम्
बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छत्तोदयओ, चिणिज भुञ्जो न खीणम्मि ।। तम्पिओ जाइ दिवं, तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण, पच्छा नाणामइ-गईओ ।।
सच यदि बद्धायुः प्रतिपद्यते ततो नियमाद् दर्शनसप्तके क्षीणे सत्युपरमते । अबद्धायुष्कः पुनरनुपरत एव समस्तां श्रेणि समापयति । स च स्वल्पसम्यग्दर्शनावशेष एवाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं क्षपयितुं युगपदारभते । एतेषां च सङ्कयेयतमं भागं क्षपयन् एताः षोडश प्रकृतीः क्षपयति । तद्यथा-नैरयिकगतिनाम तिर्यग्गतिनाम एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम नरकानुपूर्वीनाम तिर्यगानुपूर्वीनाम अप्रशस्तविहायोगतिनाम स्थावरनाम सूक्ष्नमनाम अपर्याप्तनाम साधारणनाम निद्रानिद्रां प्रचलाप्रचलां सत्यानगृद्धिमिति । ततोऽष्टानां कषायाणामवशेषं क्षपयति । ततो नपुंसकवेदम् । ततः स्त्रवेदम् । ततो हास्यादि षट्कम् । ततः पुरुषवेदं त्रिधा कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयं तु खण्ड सञ्जवलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः । स्त्री-नपुंसकयोः प्तिपत्रोरुपशमश्रेणिन्यायो वक्तव्यः । क्रोधादींश्च सञ्जवलनान् प्रत्येकमन्तर्मुहूर्तेनानेनैव खण्डवयरचनान्यायेन क्षपयति । श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्त्तप्रमाण एव द्रष्टव्यः । केवलं बृहत्तरमत्रान्तर्मुहूर्तम्, अन्तर्मुहूर्त्तानामसङ्ख्त्येयभेदत्वात् । लोभचरमखण्डं तु सङ्घयेयानि खण्डानि कृत्वा पृथक् पृथक् क्षपयति । इह च क्षीणदर्शनसप्तको निवृत्तिबादरसम्पराय उच्यते, तत ऊर्ध्वं मनिवृत्तिबादरसम्परायो यावत् सञ्जवलनलोभस्य द्विचरमसङ्घयेयखण्डम्, चरमसङ्ख्येयखण्डस्य पुनरसङ्ख्येयानि खण्डानि क्षपयन् सूक्ष्मसम्पराय उच्यते, तत ऊर्द्ध क्षीणमोहच्छद्मस्थवीतरागो यथाख्ताचारित्री भवति । ततो यथा कश्चिद् महापुरुथो बाहुभ्यानपारगम्भीरां महानदीं तीर्त्वा स्ताधमासाद्य क्षणमेकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org