SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२१ बृहत्कल्प-छेदसूत्रम् -१-१/१ उवसामगसेढीए, पट्ठवओ अप्पमत्तविरओ उ । पज्जवसाणे सो वा, होइपमत्तो अविरओ वा॥ अविरत-देशविरत-प्रमत्ता-ऽप्रमत्तसंयतानामन्यतमः प्रतिपद्यते इत्येके । प्रतिपत्तिक्रमश्चायम्- “अण"त्ति प्रथमतो युगपदन्तर्मुहूर्तेनानन्तानुबन्धिनः क्रोध-मान-माया-लोभानुपशमयति। ततः 'दर्शन' मिथ्यात्व-सम्यग्मिथ्यात्व-सम्यग्दर्शनभेदात् त्रिविधमपियुगपदुपशमयति। सर्वत्र युगपदुपशमनकालोऽन्तर्मुहूर्तप्रमाणो द्रष्टव्यः । ततो यदि पुरुषः प्रारम्भकस्ततः प्रथम नपुंसकवेदम्, पश्चात स्त्रीवेदम्, ततो हास्य-रत्य-ऽरति-शोक-भय-जुगुप्साषट्कम्, ततः पुरुषवेदम्। अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदम्, पश्चात् पुरुषवेदम्, ततो हास्यादिषट्कम्, ततः स्त्रीवेदम्; अथ नपुंसक एव प्रारम्भकस्ततः प्रथमं स्त्रीवेदम्, पश्चात् पुरुषवेदम्, ततः षट्कम्, ततो नपुंसकवेदम् । तथा 'द्वौ द्वी' अप्रत्याख्यान-प्रत्यख्यानरूपी क्रोधादिकी 'एकान्तरितौ' सअवलनक्रोधाधन्तरितौ 'सध्शौ' तुल्यावुपशमय्य सहशमेवोपशमयति । इयमत्र भावनाअप्रत्याख्यान-प्रत्याख्यानोक्रोधी क्रोधत्वेन परस्परंसदशौयुगपदुपशमयति, ततः सञ्जवलनक्रोधमेकाकिनमेव; ततोऽप्रत्याख्यान-प्रत्याख्यानौ मानौ, ततः सञ्जवलनमानम्, ततोऽप्रत्याख्यानप्रत्याख्याने माये, ततः सञ्जवलनमायाम्। ततोऽप्यप्रत्याख्यान-प्रयाख्यानौ लोभौ, ततः सञ्जवलनलोभम् ।तंचोपशमयस्त्रिधा करोति, आद्यौ द्वौ भागौ युगपदुपशमयति, तृतीयं भागं सङ्ख्येयानिखण्डानि करोति, तान्यपिपृथक्पृथक्कालभेदेनोपशमयति, पुनः सङ्ख्येयखण्डानां चरमखण्डमसङ्खयेयानिखण्डानिकरोति, ततः समयसमये एकेक मुपशमयति । इह चदर्शनसप्तके उपशान्ते सति निवृत्तिवादरः, ततऊर्ध्वमनिवृत्तिबादरो यावद् लोभस्य द्विचरमसङ्ख्येयखण्डम्, चरमसङ्घयेयखण्डस्य पुनरसङ्घयेयखण्डान्युपशमयत् सूक्ष्मसम्पराय उच्यते । एवं समापितोपशमश्रेणीक उपशान्तमोहवीतरागगुणस्थानकमनुभवन्यथाख्यातचारित्री भवति ।सच यदिबद्धायुः प्रतिपद्यतेतदवस्थश्चम्रियतेततो नियमादनुत्तरविमानवासिषूपपद्यते, श्रेणिप्रच्युतस्यपुनरनियमः अथाबद्धायुस्ततो जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूर्तमुपशमकनिर्ग्रन्थो भूत्वा नियमतः कापि वस्तुनि लुब्धः पुनरप्युदितकषायः श्रेणिप्रतिलोममावर्त्तय देशप्रतिपातेन सर्वप्रतिपातेनवाप्रतिपतति, यतोनासौ जघन्यतोऽपितद्भवएव निश्रेयसपदमश्नुते, उत्कर्षतः पुनर्देशोनापार्द्धपुद्गलपरावर्थ संसारं संसरति । यत उक्तम् तम्मि भवे निव्वाणं, न लहइ उक्कोसओ वि संसारं। पोग्गलपरियट्टद्धं, देसूर्ण कोइ हिंडेजा ।। अस्यांचोपशमश्रेण्यांप्रविष्टेनयेन यद्अनन्तानुबन्ध्यादिकमुपशमितंसउपशमनांप्रतीत्य तेन विप्रमुक्त उच्यते ।। प्ररूपिता उपशमश्रेणि । क्षपकश्रेणिमाह[भा.८३५] अण ४ मिच्छ ५ मीस ६ सम्म ७, अट्ठ १५ नपुंसि १६ स्थिवेय १७ छक्कं च २३ । पुमवेयं च २४ खवेई, कोहईए असंजलणे २८।। वृ-इह क्षपकश्रेणिमविरत-देशविरत-प्रमत्ता-ऽप्रमत्तसंयतानामन्यतम उत्तमसंहननः प्रशस्तध्यानोपगतमानसः प्रतिपद्यते । तदुक्तं क्षपकश्रेणिप्रक्रमे पडिवत्तीए अविरय-देस-पमत्ता-ऽपमत्तविरयाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy