________________
२२५
उद्देशकः १, मूलं-१, [भा. ८३१]
असियसयं करियाणं, अकिरियवाईण होइ चुलसीई। अन्नाणी सत्तट्ठी, वेणइयाणं च बत्तीसा ।।
- अपरिमितभेदंतुजावइया नयवाया, तावइया चेव होंति परसमया।
जावइया परसमया, तावइया चेव मिच्छत्ता॥ एवमनेकविकल्पमपि सामान्यतो मिथ्यात्वशब्देन गृह्यतेइतिसप्तमो भेदः७।वेदस्त्रिविधः स्त्री-पु-नपुंसकभेदात् । तत्र यत् स्त्रियाः पित्तोदये मधुराभिलाष इव पुंस्यभिलाषो जायते स स्त्रिवेदः, यत् पुनः पुंसः श्लेष्मोदयादम्लाभिलाषवत् स्त्रियामभिलाषो भवति स पुंवेदः, यत्तु पण्डकस्य पित्त-श्लेष्मोदये मज्जिकाभिलाषवदुभयोरपिस्त्रि-पुंसयोरभिलाषः समुदेतिसनपुंसकवेद इति त्रयोऽप्येक एव भेदः ८।तथा यदमनोज्ञेषु शब्दादिविषयेषुसंयमेवा जीवस्यचित्तोद्वेगःसा अरति ९।यत् पुनस्तेष्वेव मनोज्ञेषु असंयमे वा रमणं सा रति १०। यत्तु सनिमित्तमनिमित्तं वा हसति तद् हास्यम् ११॥प्रियविप्रयोदिविह्वलचेतोवृत्तिराक्रन्दनादिकं यत् करोति सशोकः१२। सनिमित्तमनिमित्तं वा य बिभेति तद्भयम् १३ । यत् पुनरस्नाना-ऽदन्तपवन-मण्डलीभोजना -दिकमपरं वा मृतकलेवर-विष्टादिकंजुगुप्सतेसा जुगुप्सा १४॥ एषचतुर्दशविधोऽप्याभ्यन्तरग्रन्थ उच्यते ।। प्रस्तुतयोजनामाह[भा.८३२] सावजेण विमुक्का, सभितर-बाहिरेण गंथेण ।
निग्गहपरमा य विदू, तेनेव य होति निग्गंथा ।। वृ-सावद्यः-सपापः कर्मोपादाननिबन्धनत्वायो ग्रन्थस्तेन साभ्यन्तर-बाह्येन ये मुक्तास्ते निर्ग्रन्था उच्यन्ते, येऽपि चाऽऽन्तरग्रन्थेन न सर्वथा मुक्तास्तेऽपि; येन विद्वांसः क्रोधादिदोषवेदिनस्तथा 'निग्रहपरमाः' तन्निर्जयप्रधानाः, तेनैव कारणेन ते निर्ग्रन्था भवन्ति ।
अथाऽऽन्तरग्रन्धमधिकृत्य ये मुक्ता ये चामुक्तास्तदेतदभिधित्सुराह[भा.८३३] केई सव्वविमुक्का, कोहाईएहि केइ भइयव्वा ।
सेढिदुगं विरएत्ता, जाणसु जो निग्गओ जत्तो।। वृ-'क्रोधादिभिः' आन्तरग्रन्थैः केचित् सर्वविमुक्ताः' सर्वैरपि विप्रमुक्ताः, केचित् पुनः 'भक्तव्याः' विकल्पनीयाः, कैश्चिद् मुक्ताः कैश्चिदपिन मुक्ता इत्यभिप्रायः । अत्र शिष्यः प्राहकथं नु नामेदं ज्ञास्यते 'अमी सर्वथा मुक्ता अमी च न मुक्ताः' ? इति, उच्यते- 'श्रेणिद्विकम्' उपशमश्रेणि-क्षपकश्रेणिलक्षणं 'विरचय्य' यथोक्तपरिपाट्या स्थापयित्वा ततो जानीहि यः 'यतः क्रोधादेर्निर्गतो अनिर्गतो वेति । अथ केयमुपशमश्रेणि? का वा क्षपकश्रेणि? इत्याशङ्कपनोदाय प्रथमत उपशमश्रेणिमाह. [भा.८३४] अण दंस नपुंसि-स्थीवेय च्छक्कं च पुरिसवेयं च ।
दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥ वृ-इहोपशमश्रेणेः प्रारम्भकोऽप्रमत्तसंयतः, समाप्तौ पुनः प्रमत्तसंयतोऽविरतसम्यग्दृष्टिा भवेत् । यत उक्तम्[18|15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org