________________
२२४
सम्बद्धं तद् भवेत् 'उभयं' खातोच्छ्रितम् ॥
बृहत्कल्प - छेदसूत्रम् - १- १/१
[भा. ८२८ ] घडिएयरं खलु धणं, सणसत्तरसा बिया भवे धन्नं । तण-कटु-तेल्ल-घय-मधु- वत्थाई संचओ बहुहा ।।
वृ- यद् घटितम् 'इतरद् वा' अघटितं सुवर्णादिकं तद् धनमुच्यते । तथा शणं सप्तदर्श येषां तानि शणसप्तदशानि बीजानि धान्यं भवेदिति । तानि चाभूनि
व्रीहियवो मसूरी, गोधूमो मुद्ग- माष-तिल चणकाः । अवः प्रियङ्गुकोद्रवमकुष्ठकाः शालिराढक्यः ॥ किञ्चकलाय - कुलत्थी, शणसप्तदशानि बीजानि । इति ।
तथा तृण-काल-घृत-मधु- वस्त्रादीनाम् आदिशब्दाद् बुस -पलालादीनां सङ्गहरूपः सञ्चयो बहुधा द्रष्टव्य इति ॥
[भा. ८२९]
सहजायगाइ मित्ता, नाई माया - पिईहि संबद्धा । ससुरकुलं संजोगो, तिन्नि वि मित्तादयो छट्टो ||
वृ- सहजातकादयः सुहृदो मित्राणि, आदिग्रहणात् सहवर्द्धितकाः सहपांसुक्रीडितकाः सहदारदर्शिनश्चेति । ज्ञातयो मातृपितृसम्बद्धा, मातृकुलसम्बद्धाः पितृकुलसम्बद्धाश्चेत्यर्थः । तत्र मातृकुलसम्बद्धाः मातुल-मातामहादयः, पितृकुलसम्बद्धाः पितृव्य- पितामहादयः । श्वसुरकुलं संयोगोऽभिधीयते, किमुक्तं भवति ? - श्वसुरकुलपाक्षिका ये केचित् श्वसुर श्वसुर - श्वश्रूशालकादयस्तेषां सम्बन्धः संयोग उच्यते । एते मित्रादयस्त्रयोऽपि पक्षाः षष्ठो ग्रन्थः ॥ [भा. ८३०] जाणं तु आसमाई, पल्लंकग-पीढिगाइ अट्ठमओ ।
दासाइ नवम दसमी, लोहाइउवक्खरो कुप्पं ॥
Jain Education International
वृ- यानमिति जातावेकवचनम्, ततोऽयमर्थ यानानि पुनरश्चादीनि, आदिशब्दाद् गजवृषभ-रथ- शिबिकादीनि । तथा पल्यङ्कादीनि शयनानि पीठिकादीनि च आसनानि, एष शयना - SS सनरूपोऽष्टमो ग्रन्थः । दासादिकः सर्वोऽप्यनुजीविवर्गो नवमो ग्रन्थः । तथा लोहादिक उपस्करः कुप्यमुच्यते । तत्र लोहोपस्करो लोहमयकवल्ली-कुद्दालिका- कुठारादिकः । आदिशब्दाद् मार्त्तिकोपस्करो घटादिकः, कांस्योपस्करः स्थाल-कञ्च्चोलकादिक इत्यादिकः सर्वोऽपि परिगृह्यते । एष दशमो ग्रन्थः । प्ररूपितो दशविधोऽपि बाह्यग्रन्थः, सम्प्रति चतुर्दशविधमभ्यन्तरं ग्रन्थमाह[भा.८३१] कोहो १ माणो २ माया ३, लोभो ४ पेज्जं ५ तहेव दोसो अ ६ । मिच्छत्त ७ वेद ८ अरइ ९, रइ १० हास ११ सोगो १२ भय १३ दुर्गुछा १४ ।
वृ- क्रोधो मानो माया लोभश्चेति चत्वारोऽपि प्रतीताः ४ । प्रमेशब्देनाभिष्वङ्गलक्षणो रागोऽभिधीयते ५ । दोषशब्देन त्वप्रीतिकलक्षणो द्वेषः ६ । 'मिथ्यात्वम्' अर्हाणीततत्वविपरीतावबोधरूपम् । तच्च द्विविधं वा त्रिषष्टयधिकशतत्रयभेदं वा अपरिमितभेदं वा । तत्रानाभिग्रहिकमाभिग्रहिकं चेति द्विविधम् । अनाभिग्रहिकं पृथिव्यादीनाम् । अभिग्रहिकं तु षड्विधम्नत्थन निचो न कुणइ, कयं न वेएइ नत्थि निव्वाणं । नत्थि य मोक्खोवाओ, छव्विह मिच्छत्तऽभिग्गहियं ॥ - त्रिषष्टयधिकशतत्यविधं पुनरिदम्
For Private & Personal Use Only
www.jainelibrary.org