________________
उद्देशक : १, मूलं-१, [भा. ८२२]
२२३ सचित्ता-ऽचित्त-मिश्रभेदात्। तत्र सचित्तश्चम्पकमालेत्यादि, अचित्त एकावलिहारादिकः, मिश्रः शुष्कपत्रमिश्रिता प्रसूनमाला । भावग्रन्थस्तु स उच्यते येन क्षेत्र-वास्त्वादिना क्रोधादिना वा अमी जन्तवः कर्मणा सहाऽऽत्मानं ग्रन्थयन्ति ।तं च भाष्यकार एव सविस्तरं व्याख्यानयति[भा.८२३] सो वि य गंथो दुविहो, बज्झो अभितरो अबोधव्वो।
अंतो अ चोद्दसविहो, दसहा पुन बाहिरो गंथो॥ वृ. सोऽपि च भावग्रन्थो द्विविधः, तद्यथा-बाह्योऽभ्यन्तरश्च बोद्धव्यः । तत्राभ्यन्तरो ग्रन्थश्चतुर्दशविधो वक्ष्यमाणः । बाह्यः पुनर्ग्रन्थो दशधा' दशप्रकारो वक्ष्यमाण एव ।।
यदि नामैवं द्विविधो ग्रन्थस्ततो निर्ग्रन्थ इति किमुक्तं भवति? इत्याह[भा.८२४] सहिरनगो सगंथो, नस्थि से गंथोत्ति तेण निग्गंथो ।
अहवा निराऽवकरिसे, अवचियगंथो व निग्गंथो । वृ-सहिरण्यक इति “एकग्रहणे तज्जातीयग्रहणम्" इतिन्यायाहिरण्य-सुवर्णादिबाह्यग्रन्थसहित उपलक्षणत्वाद् आन्तरग्रन्थयुक्तश्च सग्रन्थ उच्यते । 'नास्ति' न विद्यते "से" तस्य तथाविधो द्विविधोऽपि ग्रन्थः स निर्ग्रन्थः । अथवा निर्ग्रन्थ इत्यत्र यो निरशब्दः सः 'अपकर्षे अपचये वर्तते, ततश्चापचितः-प्रतनूकृतो ग्रन्थो बाह्य आभ्यन्तरश्च येन स निर्ग्रन्थ उच्यते॥
अथ यदुक्तं "बाह्यो ग्रन्थो दशधा" इति वद् विवरीषुराह[भा.८२५] खेत्तं १ वत्थु २ धण ३ धन्न ४ संचओ ५ मित्त-नाइ-संजोगो ६।
जाण ७ सयणा-ऽऽसणाणिय ८, दासी-दासंच ९ कुवियं च १०॥ वृ- 'क्षेत्रं' धान्यनिष्पत्तिस्थानम् १, 'वास्तु' भूमिगृहादि २, धनं' सुवर्णादि ३, धान्यं' बीजजाति ४, 'सञ्चयः' तृण-काष्ठादिसङ्गहः ५, मित्रामि-सुहृदो ज्ञातयः-स्वजनाः संयोगःश्वसुरकुलसम्बन्ध इति त्रिभिरप्येक एव ग्रन्थः ६, 'योनानि वाहनानि ७, 'शयना-ऽऽसनानि च' पलयङ्क-पीठकादीनि ८, दास्यश्च दासाश्च दासी-दासम् ९, 'कुप्यं च उपस्कररूपम् १० इति। एष दशविधो ग्रन्थः । अथैनमेव प्रतिभेदं यथाक्रमं व्याचष्टे[भा.८२६] खेत्तं सेउं केउं, सेयऽरहट्टाइ केउ वरिसेणं ।
भूमिघर वत्थु सेउं, केउं पासाय-गिहमाई। वृ-क्षेत्रंद्विधा-सेतु केतुच। तत्र “सेयऽरहट्टाइ''त्तिअरहट्टादिना सिच्यमानंयनिप्पद्यते तत् सेतु, अत्राऽऽदिशब्दात् तडागादिपरिग्रहः । यत् पुनः 'वर्षेण' मेघवृष्टया निष्पद्यते तत्केतु। वास्त्विपि सेतु-केतुभेदाद् द्विधा । भूमिगृहं सेतु, प्रासाद-गृहादिकं केतु । तत्र नरेन्द्राध्यासितः सप्तभूमादिरावासविशेषः प्रासादः, गृहं शेषजनाधिष्ठितमेकभूमादिकम्, आदिग्रहणात् कुटीमण्डपा-ऽपवरकादिकं परिगृह्यते॥ ___ [भा.८२७] तिविहं च भवे वत्थु, खायं तह ऊसियं च उभयं च ।
भूमिघरं पासाओ, संबद्धघरं भवे उभयं ॥ वृ-अथवा वास्तु त्रिविधं भवेत्, तद्यथा-खातं तथा उच्छ्रितंच 'उभयंच" खातोच्छ्रितमित्यर्थः । त्रिविधमपि क्रमेणोदाहरति-"भूमिघर"मित्यादि । खातं भूमिगृहम् । उच्छ्रितंप्रासादः, उपलक्षणत्वादन्यदप्येकभूम-द्विभूमादिकं गृहमुच्छ्रितम् । यत् पुनः प्रासाद-गृहादिकं भूमिगृहेण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org