________________
उद्देशक : १, मूलं-१, [भा. ८१४]
२२१
वितह पि तहामुत्तिं, जो तहा भासए नरो।
सो वि ता पुट्ठो पावेमं, किं पुणं जो मुसं वए ।। द्रव्यप्रतिषेधो ज्ञशरीरे-भव्यशरीरव्यतिरिक्तः पुनरयम्-नो कप्पइनिग्गंधाण वा निग्गंथीणवा आमे तालपलंबे अभिन्ने पडिगाहित्तएत्ति। क्षेत्रप्रतिषेधो यथा-नोकप्पइनिग्गंथाणवा निग्गंथीण वा रातो वा वियाले वा अद्धाणगमणं एत्तए कालप्रतिषेधो यथा
अत्थंगयम्मि आइन्चे, पुरत्या य अनुग्गए।
आहारइयं सव्वं, मणसा विन पत्थए। -- भावप्रतिषेध औदयिकभावनिवारणरूपो यथा --
कोहं मानं च मायंच, लोभं च पाववडणं ।
वमे चत्तारि दोसे उ, इच्छंतो हियमप्पणो॥ इत्यादि। अत्र च सूत्रे द्रव्यप्रतिषेधेनाधिकारः । तथा ‘स इति' प्रतिषेधोऽमङ्गलमिति 'ते' तव बुद्धिर्भवेत् सा चायुक्ता, यतः पापानां यदकरणं तदेव खलु परमं मङ्गलं ज्ञातव्यमिति पूर्वमेव भावितम्।। तदेवमुक्तः सङ्खपतःसूत्रार्थः । सम्प्रतिविस्तरार्थसूत्रस्पर्शिकनियुक्त्या प्रतिपादयितुमाह[भा.८१५] आइनकारे गंथे, आमे ताले तहा पलंबेय।
भिन्नस्स वि निक्खेवो, चउक्कओ होइ एक्कक्के । -आदी नकार आदिनकारः स विचारणीयः । तथा ग्रन्थपदस्य आमपदस्य तालपदस्य प्रलम्बपदस्य भिन्नपदस्यापि च निक्षेपः 'चतुष्कः' नाम-स्थापना-द्रव्य-भावरूपः कर्तव्यो भवति 'एकैकस्मिन् एकैकपदविषयः । तत्राऽऽदिनकारपदं विव्रियते । शिष्यः प्रश्नयति-योऽयमादौ प्रतिषेधः स नकारेण भवत मा नोकारेण, तद्यथा- "न कप्पइ निग्गंथाण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए" । एवं च क्रियमाणे सूत्रं लघु भवति, "मात्रयाऽपि च सूत्रस्य लाघवं महानुत्सवः" इति विद्वत्प्रवादः, नोशब्देन पुनः प्रतिषेधे विधीयमाने सूत्रगौरवं भवति। अत्राचार्य प्रतिवक्ति-भद्र ! कारणमत्रास्ति यतो नोकारेण प्रतिषेधः क्रियते।आह-किं पुनस्तत् कारणम् ? उच्यते[भा.८१६] पडिसेहो उ अकारो, माकारो नो अतह नकारो अ।
तब्भाव दुविहकाले, देसे संजोगमाईसु ।। कृप्रतिषिध्यतेऽनेनेति प्रतिषेधः' प्रतिषेधकोवर्ण, सचतुर्धा-अकारोमाकारोनोकारस्तथा नकारश्च । तत्राऽकारस्तद्भावप्रतिषेधं करोति । माकारः पुनर्द्विविधकालविषयं प्रतिषेधम्, तद्यथा-प्रत्युत्पन्नविषयम् अनागतविषयं च । नोकारो देशप्रतिषेधम् । नकारःपुनः संयोगादिषु' संयोग-समवाय-सामान्य-विशेषचतुष्टयप्रतिषेधं करोति ॥ तत्राकार-माकार-नोकाराणामुदाहरणान्याह[भा.८१७]निदरिसणं अघडोऽयं, मा य घडं भिंद मा य भिदिहिसि ।
नो उघडोघडदेसो, तविवरीयं च जं दव्वं ॥ वृ-निर्दर्शन मिति जातावेकवचनम्, ततोऽमीषांप्रतिषेधकवर्णानांयथाक्रमं निदर्शनानि। अकारस्य तद्भावप्रतिषेधे निदर्शनंयथा-अघटोऽयमिति, नघटोअघटः, घटव्यतिरिक्तः पटादिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org