SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २२० बृहत्कल्प-छेदसूत्रम् -१-१/१ पञ्चविधभावकल्पसम्बन्धायातस्य पञ्चकल्पस्यादौ । वंदामि भद्दबाहुं, पाईणं चरिमसयलसुयनाणिं । सुत्तस्स कारगमिसिं, दसाण कप्पे य ववहारे ।। इत्यधिकृतसूत्रकारनमस्काररूपं यद् मङ्गलमुक्तम्, यद्वा 'नवमे पूर्वे' प्रत्याख्याननामके प्रथमप्रारम्भे यद् मङ्गलाभिधानं कृतं तेनैवास्य सूत्रस्य माङ्गलिकत्वं मन्तव्यमिति ।। अथेत्थमपि स्थापितं सूत्रस्य माङ्गलिकत्वं स्वाग्रहाभिनिवेशादप्रतिपद्यमानं परमुपलभ्य सूरिरिदमाह[भा.८१२] अद्दागसमो साहू, एवं सुत्तं पि जो जहा वयइ। तह होइ मंगलममंगलं व कल्लाणदेसिस्स ।। वृ-"अद्दाग'त्तिआदर्श-दर्पणस्तत्समः-तत्सद्दशः साधुः । किमुक्तं भवति? -यथा दर्पणे स्वरूपतो निर्मलेऽपि तत्तदुपाधिवशतः सुन्दरा-ऽसुन्दररूपाणि प्रतिरूपाणि विलोक्यन्ते तथा साधुमपि परममङ्गलभूतं हटवामङ्गलबुद्धिं कुर्वतः प्रशस्तचेतोवृत्ते व्यस्यमङ्गलं भवति, तदितरस्य संक्लिष्टकर्मणो दूरभव्यादेरमङ्गलबुद्धिं कुर्वाणस्यामङ्गलं भवति । एवम्' आदर्श-साधुदृष्टान्तेन सूत्रमपि स्वरूपतः परममङ्गलभूतंयो यथा वदति तस्यतथैव मङ्गलममङ्गलं वा भवति' मङ्गलबुध्या परिगृह्यमाणं मङ्गलम् अमङ्गलबुध्या तुपरिगृह्यमाणममङ्गलं भवतीत्यर्थः । एवं च माङ्गलिकेऽपि सूत्रे यदि त्वममङ्गलुद्धिं करोषि भवतु तर्हि कल्याणद्वेषिणो भवतोऽमङ्गलम् ।। किञ्चान्यत्[भा.८१३] जइ वा स्वनिसेहो, हवेज तो कप्पणा मवे एसा । नंदी य भावमंगल, कुत्तं तत्तो अणन्नमिदं॥ वृ- वाशब्दः प्रत्यवस्थानस्य प्रकारान्तरोपदर्शनार्थ । यद्यद्र सूत्रे 'सर्वनिषेधः' सर्वथैव प्रतिषेधः स्यात् ततो भवेत् तावकीना प्रतिषेधकत्वादमङ्गलमित्येषा कल्पना । यस्मात् पुनरत्र नोशब्दो देशप्रतिषेध एव वर्तते अतः परिफल्गुरियं भवदीया कल्पनेति । यद्वा 'नन्दी च' पञ्चप्रकारज्ञानरूपा भावमङ्गलमुच्यते, तच “नंदी य मंगलट्ठा" इत्यादिना ग्रन्थेन पीठिकायां प्रोक्तमेव । यदि नाम प्रोक्तं ततः किमायातम् ? इत्याह-'तस्माच नन्दीरूपाद् भावमङ्गलात् 'अनन्यत्' अपृथग्भूतमिदं सूत्रम्, अस्यापि श्रुतत्वात् श्रुतस्यच ज्ञानपञ्चकान्तर्गतत्वादिति भाव इतिः अतोऽपि माङ्गलिकमिदम् ।। तदेवं स्थापितमनेकधा भाष्यकृता सूत्रस्य माङ्गलिकत्वम् । सम्प्रति नियुक्तिकृद् नोशब्दाभिधेयस्य प्रतिषेधस्य निक्षेपमनन्तरोक्तमर्थं च सूचयन्नाह[भा.८१४] पडिसेहम्मि उ छक्कं, अमंगलं सो त्ति ते भवे बुद्धी। पावाणंजदकरणं, तदेव खलु मंगलं परमं ।। 'प्रतिषेधे' प्रतिषेधविषयं षट्कं नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावलक्षणं निक्षेपणीयम् । तत्र नाम्नः प्रतिषेधः 'न वक्त मुकं नाम' इतिलक्षणः, यथा अजए पज्जए वा वि, वप्पो चुल्लपिउत्तिय। माउलो भायणिज्जत्ति, पुता नत्तुणिय त्ति य॥ हे हो हले त्ति अन्ने त्ति, भट्टा सामिय गोमिय। होल गोल वसुल त्ति, पुरिसं नेवमालवे ।। इत्यादि । स्थापना आकारो मूर्तिरिति पर्यायाः, तस्याः प्रतिषेधो यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy