________________
उद्देशक : १, मूलं-१, [भा. ८०८]
२१९ प्रत्यवस्थाने अभिधीयते। तत्रसूत्रगोचरमर्थगोचरंवा दूषणंचाल्यते-आक्षिप्यते ययावचनपद्धत्या सा चालना। तथा प्रति इति-परोक्तदूषणप्रातिकूल्येनावस्थीयते अन्तर्भूतण्यर्थत्वादवस्थाप्यतेयुक्तिपुरस्सरं निर्दोषमेतदितिशिष्यबुद्धावारोप्यते येन तत्प्रत्यवस्थानं-प्रतिवचनम् । अत्र तावदियं चालना-ननुच सर्वाण्यपिशास्त्राणि माङ्गलिकाभिधानपुरस्सराणिप्रवर्तन्ते, इदं तु सूत्रं भवद्भिः प्रतिषेधकत्वात् प्रथमत एवामाङ्गलिकमारब्धम् । तथा चात्र प्रयोगः- अमाङ्गलिकमेतत् सूत्रम्, प्रतिषेधरूपत्वात्, इह यद् यत् प्रतिषेधरूपं तत्तद् अमाङ्गलिकम्, यथागन्तुंप्रस्थितस्य कस्यापि पुरुषस्य 'मायासीः' इत्यादिवचनम्, प्रतिषेधरूपंचेदं सूत्रम्, तस्मादमाङ्गलिकम्; एवंपरेणोक्ते सति सूरि प्रत्यवस्थानमाह[भा.८०९] जंगालयते पावं, मंलाइ व कहममंगलं तं ते!
जाय अणुन्ना सव्वा, कहमिच्छसि मंगलं तं तु ।। वृ-इह मङ्गलशब्दस्य निरुक्तंपूर्वसूरिभिरित्थमभिधीयते-मां लाति' दुर्गती पतन्तं गृह्णाति पापंच गालयतीति मङ्गलम् । एतच्च निरुक्तमत्रापिघटते, यत आह-यदिदं “नो कप्पइ" इत्यादि सूत्रं तत् पापं सचित्तवनस्पतिग्रहणरूपं गालयति, तथा मामिति-आत्मद्रव्यं नरकादी पतन्तं लाति-धारयति तद् एवंविधमपि कथं नाम 'ते' तवामङ्गलंभणितुमुचितम्? नकथञ्चिदित्यर्थः। किञ्च-यदि प्रतिषेधमात्रमेवामङ्गलंभवत इष्टम्ततोया काचिदनुज्ञा पापस्य धर्मस्य वा सासर्वाऽपि भवतो मङ्गलं प्राप्नोति । यदि नामैवं ततः किम् ? इत्याह-'कथं' केन प्रकारेण 'ता' सर्वमप्यनुज्ञां मङ्गलमिच्छसि ? । किमुक्तं भवति-यदि पापानुज्ञाऽपि प्रतिषेधविषयविद्वेषमात्रादेव भवता मङ्गलमभ्युपगम्यते तर्हि धर्म-पापानुज्ञयोः सङ्करदोषः प्रसज्येत, उभयोरपि मङ्गलरूपत्वात्। ततश्चाधर्मस्यापि मङ्गलरूपतयाकरणीयतापत्तिस्यात्; न चैतद्दष्टमिष्टंवा, ततोन सर्वाऽप्यनुज्ञा मङ्गलम् न वा प्रतिषेधः सर्वोऽप्यमङ्गलम्, किन्तु या धर्मस्यानुज्ञा यश्च पापस्य प्रतिषेध एतौ द्वावपि मङ्गलम्, तदितरावनुज्ञा-प्रतिषेधावमङ्गलमिति । अमुमेवार्थं द्रढयत्राह[भा.८१०] पावाणं समणुन्ना, न चेव सव्वम्मि अस्थि समयम्मि।
तंजइ अमंगलं ते, कयरं नु हु मंगलं तुझं ॥ कृपापानां प्राणिवधादीनांसमनुज्ञा नैवास्ति सर्वस्मन्नपि समये सिद्धान्ते, न केवलमत्रैव सूत्रे इत्यपिशब्दार्थ, किन्तुसर्वत्रापिप्रतिषेध एव; ततोयदिते तत् तथाविधमपि पापप्रतिषेधकंसूत्रममङ्गलम् ततः कतरद् 'नुः' इति वितर्के''निश्चयेतव मङ्गलं भविष्यति?, न किमपीत्यर्थः ।।किञ्च[भा.८११] पावं अमंगलं ति य, तप्पडिसेहो हुमंगलं नियमा।
निक्लेवे वा वुत्तं, जंवा नवमम्मि पुवम्मि॥ वृ-पापं नियमादमङ्गलम्, तत्प्रतिषेधः पुनर्नियमाद् मङ्गलम्, यत एवंततो माङ्गलिकमेतत् सूत्रमिति । तथा चात्र प्रयोगः-माङ्गलिकं “नो कप्पइ निग्गंथाण वा निग्गंधीण वा” इत्यादि सूत्रम्, पापप्रतिषेधकत्वात्, इह यद् यत् पापप्रतिषेधकं तत् तद् माङ्गलिकम्, यथा “सव्वे जीवा न हंतव्वा" इत्यादि वचनम्, पापप्रतिषेधकं चेदं सूत्रम्, तस्माद् माङ्गलिकम् । अथवा 'निक्षेपे' नामनिष्पन्नलक्षणे "छव्विह १ सत्तविहे या २, दसविह ३ वीसइविहे य ४ बायाला ५।" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org