________________
२१८
बृहत्कल्प-छेदसूत्रम् - १-१/१
कल्पते 'नो समर्थीभवति, न युज्यते इत्यर्थः । एवं सर्वत्र प्रकृति-प्रत्ययविभागः शब्दशास्त्रानुसारेण स्वधिया योजनीयः । तथा ग्रन्थः परिग्रहः, स च बाह्याऽऽभ्यन्तरभेदाद् द्विधा, बाह्यः क्षेत्र - वास्त्वादि, आभ्यन्तरः क्रोधादि, ततो निर्गता ग्रन्थादिति निर्ग्रन्थाः साधवस्तेषाम् । एवं 'निर्ग्रन्थीनां' साध्वीनाम् । वाशब्दावुभयस्यापि वर्गस्य प्रलम्बकल्प्यताप्रतिषेधमधिकृत्य तुल्यकक्षतासूचकौ । 'आमम्' अपक्वम् । तलः- वृक्षविशेषस्तत्र भवं तालं-तालफलम्, प्रकर्षेण लम्बते इति प्रलम्बंमूलम्, तालं च प्रलम्बं च तालप्रलम्बं समाहारद्वन्द्वः । 'अभिन्नं' द्रव्यतो अविदारितं भावतोऽव्यपगतजीवम् । किम् ? इत्याह- 'प्रतिग्रहीतुम्' आदातुमिति पदार्थ ३ ।
पदविग्रहस्तु यानि सभासभाजि पदानि तेषु पदार्थमध्य एव वर्णित इति ४। चालनाप्रत्यवस्थाने तु भाष्यगाथाभिरेव सविस्तरं भावयिष्येते इति सूत्रसमासार्थ ।। भाष्यकारः प्रतिपदमेव सूत्रं व्याचिख्यासुः प्रथमतो नोकारपदं निर्ग्रन्थपदं च व्याख्यानयति
[भा.८०६ ] अकार - नकार-मकारा, पडिसेहा होंति एवमाईया । सहिरन्नगो सगंथो, अहिरन्न- सुवन्नगा समणा ।
वृ- अकार- नकार-मकारा एवमादयः शब्दाः, अत्राऽऽदिग्रहणाद् नोकारो गृह्यते, एते प्रतिषेधवाचकाद्रष्टव्याः, 'अकरणीयंन करोषि मा कार्षी, नोकुरुषे' इत्यादिष्वमीषां प्रतिषेधवाधिनां प्रयोगदर्शनात् । तथा सहिरण्यकः सग्रन्थ उच्यते, अत्र हिरण्यग्रहणं बाह्या ऽऽभ्यन्तरपरिग्रहोपलक्षणम्, ततो यः सपरिग्रहः स सग्रन्थः । श्रमणाः पुनरहिरण्य - सुवर्णका अतो निर्ग्रन्थाः । हिरण्यं रूप्यं सुवर्णं- कनकम् । अत्र च “कल्पते" इति पदं सुगमत्वाद् भाष्यकृता न व्याख्यातम्, निर्ग्रन्थीशब्दव्युत्पत्तिरपि निर्ग्रन्यशब्दवद् द्रष्टव्या, लिङ्गमात्रकृतभेदत्वादनयोरिति ॥ अथ नोकारशब्दस्यैव भावनां करोति
[भा.८०७] नोकारो खलु देतं, पडिसेहयई कयाइ कप्पिञ्जा ।
आमं च अणन्नत्ते, तलो य खलु उस्सए होइ ॥
वृ-नोशब्द: प्रायो देशप्रतिषेधे वर्त्तते, यथा "नोघटः" इत्युक्ते घटैकदेशः कपालादिकः प्रतीयते, एवमत्रापि नोकारो देशं प्रतिषेधयति । ततश्चेदमुक्तं भवति-कदाचित् कल्पेत तालप्रलम्बम्, उत्सर्गपदरूपे देशे तावन्न कल्पते आत्यन्तिके पुनरपवादपदे कल्पतेऽपीति भावः । 'आमं च' आमशब्दश्च ‘अनन्यत्वे' अनन्यभावे वर्त्तते । किमुक्तं भवति ? - पूर्वकालभाविनीमपक्वावस्थामपेक्ष्य तदुत्तरकालभाविनी पक्वावस्था अन्या - अपराऽभिधीयते, तदभावरूपेऽनन्यत्वे अपक्वावस्थायामामशब्दो वर्त्तते । तलशब्दश्वोच्छ्रये भवति, द्राधीयः स्कन्धरूपेणोच्छ्रयेणोच्छ्रितो यो वृक्षविशेषः सतलः- तालवृक्ष इति भावः तत्र भवं तालं तालवृक्षफलम् ॥ अथ प्रलम्बादिपदानि व्याचष्टे[भा. ८०८] पडिलंबना पलंब, अविदारिय मो वयंति उ अभिन्नं ।
अहवा वि दव्व भावे, तंपइगहणं निवारेइ ॥
वृ- 'प्रतिलम्बनात्' प्रति-प्रकर्षेण लम्बत इति 'प्रलम्बम्' तस्यैव तलवृक्षस्य मूलम् । तथा यद् अविदारितं 'मो' इति पादपूरणे तद् वदन्ति श्रुतवेदिनो अभिन्नम् । अथवा अभिन्नं द्विधाद्रव्यतो भावतश्च । तत्र द्रव्यतो यद् अविदारितम्, भावतः पुनरव्यपगतजीवम् । 'तव्यतिग्रहणं' तस्य- आमतालप्रलम्बस्याभिन्नस्यादानं निवारयति नोकार इति एष सूत्रपदार्थः । अथ चालना
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International