SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-१, [भा. ८०५] २१७ अपप्रायः सूत्रगतपदार्थादिगोचरा इति तत्त्वतो नयलक्षणं चतुर्थमनुयोगद्वारमपि सूत्रस्पर्शिकनियुक्त्यन्तः पाति प्रतिपत्तव्यम् । तथा चाह श्रीजिनभद्रगणिक्षमाश्रमणपूज्यः होइ कयत्थो वोत्तुं, सपयच्छेयं सुयं सुयानुगमो । सुत्तालावगनासो, नामाइन्नासविनिओगं ।। सुत्तप्फासियनिजृत्तिनिओगो सेसओ पयत्थाई। पायं सो चिय नेगमनयादिमयगोअरो होइ ।। एते च सूत्रानुगमादयः सूत्रेण समकमेव व्रजन्ति । यत उक्तम् सुत्तं सुत्तानुगम, सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ती, नया य वच्चंति समगंतु ।। तत्रप्रथमंसूत्रानुगमे सूत्रामुच्चारणीयम्, तच्चाहीनाक्षरादि गुणोपेतम् । तद्यथा-अहीनाक्षरम् अनत्यक्षरम् अव्याविद्धाक्षरं अस्खलितम् अमिलितम् अव्यत्यानेडितं प्रतिपूर्ण प्रतिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं गुरुवाचनोपगतम्।एवंचसूत्रे समुच्चारिते सति केषाञ्चिद्भगवतामुद्धटितज्ञानां केचिदर्थाधिकाराअधिगता भवन्ति, केचित्पुनरनधिगताः, ततोऽनधिगतार्थाधिगमनाय व्याख्या प्रवर्तते । अत्रान्तरे “निक्खेवे" इत्यादि मूलगाथासूचितं सूत्रार्थद्वारं समापतितम्। तच्चेदं सूत्रम् मू (१) नो कप्पइ निग्गंथाण वा निग्गंधीण वा आमे तालपलंबे अभिने पडिगाहित्तए। वृ-अस्य च व्याख्या षोढा । तद्यथा संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ।। तत्र संहिता-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनांवा आमंतालप्रलम्बमभिन्न प्रतिग्रहीतुम् १॥अथ पदमिति पदविच्छेदः कर्त्तव्यः । स चायम्-नो इति पदं कल्पते इति पदं निर्ग्रन्थानामिति पदं वा इति पदं निर्ग्रन्थीनामिति पदं वा इदि पदम् आममिति पदं ताल इति पदं प्रलम्बमिति पदं अभिन्नमिति पदं प्रतिग्रहीतुमिति पदमिति गतः पदविच्छेदः२।। अथ पदार्थ उच्यते-स च चतुर्द्धा, तद्यथा-कारकविषयः समासविषयः तद्धितविषयो निरुक्तविषयश्च। तत्र कारकविषयः पचतीति पाचकः, पठतीति पाठकः, भुज्यत इति भोजनम्, स्नाति जनोऽनेनेति स्नानीयं चूर्णम्, दीयतेऽस्मै इति दानीयोऽतिथि, बिभेति जनोऽस्मादिति भीमः,शेरतेऽस्मामितिशय्या इत्यादि । समासविषयो यथा-आरूढीवानरो यं वृक्षंसआरूढवानरो वृक्ष इति बहुव्रीहिः १, गङ्गायाः समीपमुपगङ्गमित्यव्ययीभावः २, राज्ञः पुरुषो राजपुरष इति तत्पुरुषः ३, नीलं च तदुत्पलंच नीलोत्पलमिति कर्मधारयः ४, चतुर्णा मासानां समाहारश्चतुर्मासी इति द्विगुः ५, धवश्चखदिरश्च पलाशश्चधव-खदिर-पलाशा इति द्वन्द्वः ६इत्यादि । तद्धितविषयःनाभरपत्यं नाभेयः, जिनो देवताऽस्येति जैनः, भद्रबाहुणा प्रोक्तं शास्त्रं भाद्रबाहवमित्यादि । निरुक्तविषयः-भ्रमति च रौति चेतिभ्रमरः, मह्यां शेते महिषः, जीवनस्य-जलस्य मूतः-पुटबन्धो जीमूत इत्यादि, कृतंविस्तरेण । एष चतुर्विधोऽपिपदार्थसमस्तो व्यस्तो वा यो यत्र सूत्रे सम्भवति स तत्र योजनीय इति ।सम्प्रति प्रकृतसूत्रस्य पदार्थ उच्यते-नोशब्दः प्रतिषेधे, “कृपौङ् सामर्थे" इत्यस्य धातोर्वर्तमानविभक्तरात्मनेपदीयान्यदर्थैकवचनान्तस्य कल्पते इति रूपम्, ततश्च ‘नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy