________________
पीठिका - [भा. ८०२]
[भा.८०२] निष्फाव- कोहवाईणि बेमि रुक्खाणि न हरिए रुक्खे ।
अंबिल विद्धत्थाणि अ, भणामि न विरोहणसमत्थे ।
२१५
वृ-निष्पावाः- वल्लाः कोद्रवाः प्रतीतास्तदादीनि यानि “रुक्खाणि "त्ति रूक्षाणि द्रव्याणि तान्येवाहं ब्रवीमि न तु 'हरितान्ट सचित्तान् वृक्षान् । तथा बीजान्यपि यानि अम्लभावितानि 'विध्वस्तानि वा' व्यवच्छिन्नयोनिकानि तान्यह भणामि, 'न विरोहणसमर्थानि न पुनरङ्कुरोद्भवनशक्तिकानीति । एष आम्रादिदृष्टान्तः । कथना चाऽऽचार्येणामीभि स्थानैः “सुत्तंबिल” इत्यादिभिः प्रकारैः कृता । एवं परीक्ष्य यः परिणामकस्तस्य दातव्यम् ॥
कथं पुनस्तेन श्रोतव्यम् ? इत्याह
[भा.८०३ ] निद्दा विगहापरिवज्जिएण, गुत्तिंदिएण पंजलिणा । भत्ती बहुमाणेण य, उवउत्तेणं सुणेयव्वं ॥
कृ-निद्रायमाणः सन् न किञ्चिदप्यवधारयति विकथायां क्रियमाणायां व्याघातो भवतीत्यतो निद्रा-विकथापरिवर्जितेन श्रोतव्यम् । गुप्तानि स्वस्वविषयप्रवृत्तिनिरोधेन संवृतानीन्द्रियाणि येनासी गुप्तेन्द्रियस्तेन । तथा 'प्राञ्जलिना' योजितकरयुगलेन । भक्त्या बहुमानेन च श्रोतव्यम्, भक्तिर्नाम गुरुणामितिकर्तव्यतायां निषद्यारचनादिका या बाह्या प्रवृत्ति, बहुमानस्तु गुरूणामुपरि आन्तरः प्रतिबन्धः । अत्र चतुर्भङ्गी - भक्तिनमैिकस्य न बहुमानः, बहुमानो नामैकस्य न भक्ति, एकस्य भक्तिरपि बहुमानोऽपि, एकस्य न भक्तिर्न वा बहुमान इति । अत्र च भक्ति- बहुमानयोर्विशेषज्ञापकं शिवाख्यवमन्तरभक्तयोर्मरुक पुलिन्दयोरुदाहरणम्, तच्च सुप्रसिद्धमिति कृत्वा न लिख्यते । यदि भक्ति बहुमानं वा न करोति तदा चतुर्लघु तथा 'उपयुक्तेन' अनन्यमनसा श्रोतव्यम् ।। [भा.८०४] अभिकखंतेण सुभासियाइँ वयणाइँ अत्यमहुराई । विम्हियमुहेण हरिसागएण हरिसं जणंतेण ॥
वृ- "अभिकंखंतेण" इत्यादि । 'वचनानि' श्रुतव्याख्यानरूपाणि 'सुभाषितानि शोभनभणितिभिर्भणितानि 'अर्धमधुराणि भावार्थसुखादूनि 'अभिकाङता' आभिमुख्येन वाञ्छता । तथा 'विस्मितमुखेन' अपूर्वापूर्वार्धश्रवणसमुद्भूतविस्मयस्मेरवदनेन । 'हर्षागतेन' 'अहो ! अभीभगवन्तः स्वगल-तालुशोषमवगणय्यास्मन्निमित्तमेवंविधं सूत्रार्थव्याख्यानं कुर्वन्ति, नानृणीभवेयममीषां परमोपकारिणामहम्' इत्येवंविधं हर्षमागतः प्राप्तो हर्षागतस्तेन । तथा गुरूणामपि स्ववदनप्रसन्नतया उत्फुल्ललोचनतयाच 'हर्षम्' 'अहो ! कथमयं संवेगरङ्गतरङ्गितमानसः परमागमव्याख्यानं शृणोति ?' इति लक्षणं प्रमोदं जनयता श्रोतव्यमिति ॥
अथ परिणामकद्वारमुपसंहरन्नाह
[भा. ८०५ ] आधारिय सुत्तत्यो, सविसेसो दिजए परिनयस्स । सुपरिच्छित्ता य सुनिच्छियस्स इच्छागए पच्छा ।।
वृ- यः कल्प व्यवहारादेः सूत्रार्थ 'सविशेषः' सापवादः स्वगुरुसकाशाद् 'आधारितः ' आगृहीतः स सर्वोऽपि दीयते 'परिणतस्य' परिणामकस्य शिष्यस्य 'सुपरीक्ष्य' पूर्वोक्ताम्रादिदृष्टान्तैः सुष्ठु अविसंवादेन परीक्षां कृत्वा 'सुनिश्चितस्य' प्रारब्धसूत्रार्थे ग्रहीतव्ये कृतनिश्चयस्य, यद्वा 'ज्ञान-दर्शन- चारित्राणां यावज्जीवं मया विराधना न कर्त्तव्या' इत्येवं सुष्ठु निश्चितः - निश्चयवान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org