________________
२१४
बृहत्कल्प-छेदसूत्रम् -१खण्डीकृतानि? किंवासकलानि? "कित्तिया वा वि"त्ति कियन्तिवा गणनया द्विव्यादिसङ्ख्याकान्यानयामि? अपिशब्दात किं बद्धास्थिकानि? अबद्धास्थिकानि वा? तरुणानि? जरठानि वा? इत्याद्यपिद्रष्टव्यम्। इत्थं शिष्येणाभिहितेआचार्येण वक्तव्यम्-सौम्य! लब्धानि सन्त्यग्रेऽपि मम पुनः पुरा विस्मृतान्यासन्इदानीं स्मृतिपथमवतीर्णानीति; यद्वा पर्याप्ततावदिदानीम्, प्रयोजने समापतितेपुनर्मभवन्तं वक्ष्यामि' मणिष्यामि; अथवा वत्स! किंममाऽऽप्रैः कार्यम् ? 'विमर्थि 'किमयं विनीतः ?नवा?, परिणामको वा? न वा?' इति विन्यासनार्थमुक्तोऽसीति ।।
यः पुनरपरिणामकः स ब्रूयात्[भा.७९९] किं ते पित्तपलावो, मा बीयं एरिसाई जंपाहि।
मा णं परो वि सोच्छिहि, कहं पिनेच्छामो एयस्स। वृ-भो आचार्य! किंते पित्तप्लावःसमजनि यदेवमुन्मत्तवदसम्बद्धं प्रलपसि?,यधेकवारं ममाग्रे जल्पितं तर्हि जल्पितं नाम, मा पुनर्द्वितीयं वारं ईदशानि सावधानि वचनानि जल्पेति; यतः मा “णं" इति एतत् त्वदीयं वचनं 'परोऽपि' अन्योऽपि श्रोष्यति, वयं पुनः कथामपि नेच्छामः ‘एतस्य' अर्थस्य आम्रानयनलक्षणस्य किं पुनः कर्त्तव्यतामित्यपिशब्दार्थः ।।
यः पुनरतिपरिणामकः स एवमभिदध्यात्[भा.८००] कालो सिं अइवत्तइ, अम्ह वि इच्छा न भाणिउंतरिमो।
किं एच्चिरस्स वुत्तं, अन्नाणि वि किं व आणेमि ।। -क्षमाश्रमणाः! यदि युष्माकमानैःप्रयोजनंततइदानीमप्यानयामि, यतः "सिं" इति एषामाम्राणां कालः 'अतिवर्तते' अतिक्रामति, अद्य तावत् तानि तरुणानि वर्तन्ते अत ऊर्द्ध जरठभविष्यन्तीत्यर्थः । यद्वाऽस्माकमप्याम्राणां ग्रहणे महती इच्छा, परं किं कुर्म ? न वयं यौष्पाकीणभयभीता भणितुंकिमपि “तरामु"त्ति शक्नुमः ।अथवा यद्याम्राण्यपि ग्रहीतुंकल्पन्ते ततः किमियतश्चिरात् कालादुक्तम् ?, वञ्चिताः स्मो वयमियन्तं कालमिति भावः । किंवा अन्यान्यपिमातुलिङ्गादीन्यानयामीति॥अनयोरपरिणामका-ऽतिपरणामकयोरेवंजल्पतोराचार्येणेदमुत्तरं दातव्यम्[भा.८०१] नाभिप्पायं गिण्हसि, असमत्ते चेव भाससी वयणे।
सुत्तंबिल-लोणकए, भिन्ने अहवा वि दोच्चंगे। वृ-भोमुग्ध! त्वंमदीयमभिप्रायं न गृह्णासि, किन्तूत्सुकतया मदीये वचनेऽसमाप्त एवेद्दशं समयविरुद्धं निष्ठुरं वचनं भाषसे; मया पुनरनेनाभिप्रायेणाभिहितम्-“सुत्तंबिल" इत्यादि, शुक्लंकालिकं तदेवात्यम्लं शुक्लाम्लं तेन लवणेन वा कृतानि-भावितानि शुक्लाम्ल-लवणकृतानि भिन्नानि च । किमुक्तं भवति ? -न मया भवतः पार्वादपरिणतान्याम्राण्यानायितानि, किन्तु चतुर्थरसिकभावितानि वा लवणभावितानि वा; यद्वा द्रव्यतो भावतश्च भिन्नानि, परिणतानीति भावः । अथवा "दोच्चंगे"त्ति सामयिकी संज्ञा, ओदनादिमूलाङ्गापेक्षया भोजनस्य द्वितीयाङ्गानिराद्धशाकरूपाणि तानि मयाआनायितानीति प्रक्रमः ।। “अंबाई" इत्यत्राऽऽदिशब्दसूचितौवृक्ष -बीजष्टान्ताविमौ-आचार्याभणन्ति-अजो! रुक्खेहिं बीएहि वा पओअणं ति। अत्रापि परिणामकादिजल्पस्तथैवावसातव्यः । नवरमपरिणामका-ऽतिपरिणामको प्रति सूरिणा प्रतिवक्तव्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org