________________
पीठिका - [भा. ७९३]
२१३
अपरिणामकमाह[भा.७९४] जो दव्व-खेत्तकय-काल-भावओ जं जहा जिणक्खायं ।
तंतह असद्दहतं, जाण अपरिणामयं साहुं॥ वृ-यो द्रव्य-क्षेत्र-काल-भावकृतं यद् यथा जिनैराख्यातंतन श्रद्दधाति,तंतथा अश्रद्दधन्तं जानीहि अपरिणामकं सादुम् ।। अतिपरिणामकमाह[भा.७९५] जो दव्व-खेत्तकय-काल-भावओजं जहिं जया काले ।
तल्लेसुस्सुत्तमई, अइपरिणाम वियाणाहि ।। वृ-यो द्रव्य-क्षेत्र-काल-भावकृतं 'यद्' वस्तु 'यस्मिन्' विकृष्टाध्वादौ 'यदा काले' आत्यन्तिकदुर्भिक्षादौ भणितम्, "तल्लेसु"त्ति तस्मिन्-द्रव्यादिकृते आपवादिकवस्तुनि लेश्या यस्य स तल्लेश्यः, 'पश्यामि तावदत्र किमपि निश्रापदं ततस्तदेवालम्बयिष्यामि' इत्यपवादपदैकमतिरित्यर्थः। तथा सूत्राद्-अपवादश्रुताद् उत्-प्राबल्येन मतिरस्येत्युत्सूत्रमति, श्रुतोक्तापवादादभ्यधिकापवादबुद्धिरिति भावः । तमेवंविधं साधुमतिपरिणामकं विजानीहीति॥
अथामीषामेव व्युत्पत्तिनिमित्तं लक्षणमाह[भा.७९६] परिणमइ जहत्थेणं, मई उ परिणामगस्स कजेसु ।
बिइए न उ परिणमई, अहिगं मइ परिणमे तइओ॥ वृ-परिणामकस्य मति कार्येषु 'यथाथ्येन' यथार्थग्राहकतया परिणमते, अत एवासौ परिणामक उच्यते । 'द्वितीये' द्वितीयस्यापरिणामकस्य मति 'न तु' नैव परिणमते, अत एवासावपरिणामक उच्यते। तृतीयः पुनरधिकांमतिं परिणमयतीत्यतिपरिणामकोऽभिधीयते।। एतदेव स्पष्टयति[भा.७९७] दोसु वि परिणमइ मई, उस्सग्गऽववायओ उ पढमस्स ।
बिइतस्स उ उस्सग्गे, अइअववाए यतइयस्स ।। वृ-'प्रथमस्य' परिणामकस्य मतिरुत्सर्गा-ऽपवादयोर्द्वयोरपि परिणमति(ते] । किमुक्तं भवति?-यः परिणामको भवति तस्योत्सर्गे प्राप्ते उत्सर्गएवमति परिणमते, अपवादे प्राप्तेऽपवादे एव मति परिणमते; यत्रोत्सर्गो बलीयान् तत्रोत्सगं समाचरति, यत्रापवादो बलवान् तत्रापवादं गृह्णाति । 'द्वितीयस्य' अपरिणामकस्य पुनरुत्सर्ग एवमति परिणमते, न पुनरपवादे । तृतीयस्य तु अति-अत्यर्थम् अपवादे मति परिणमते; स च द्रव्यादिकारणेषु प्रतिसेवनामनुज्ञातां ज्ञात्वा न किञ्चित् परिहरति, कारणमन्तरेणापिप्रतिसेवते॥अथ यदुक्तमासीत् “अंबाईदिटुंतो" त्ति तद् इदानीं भाव्यते-एतेषां परिणामकादीनां त्रयाणामपि जिज्ञासया केचिदाचार्या स्वशिष्यानित्यमभिदध्यु-'आर्या ! आढरस्माकं प्रयोजनमस्ति' इत्युक्ते यः परिणामकः शिष्यः स ब्रूयात्[भा.७९८] चेयणचेयण भाविय, केद्दह छिन्ने अकित्तिया वा वि ।
लद्धा पुणो व वोच्छं, वीमंसत्थं व वुत्तो सि॥ वृ-भगवन् ! यैरानैः प्रयोजनं तानि किं चेतनानि ? उताचेतनानि ? किं 'भावितानि' लवणादिभिर्वासितानि? उताभावितानि? "केहह" त्त किंप्रमाणानि? किंम महान्ति ? किंवा लघूनि? “छिन्न"ति किं पूर्वच्छिन्नानि? वा इदानीं छित्वा ? अथवा “छिन्न" त्ति किं छिन्नानि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org