________________
२१२
वृहत्कल्प-छेदसूत्रम् -१. वृ-अत्रानुज्ञाता-ऽननुज्ञातपदाभ्यांचतुर्भही कार्या, तद्यथा-अनुज्ञातमनुज्ञातो वाचयतीति प्रथमः, अस्य भावना-कश्चित् प्रातीच्छिको गच्छान्तरादागम्य सूत्राध्ययनार्थमुपसम्पन्नः, स चाऽऽचार्यैरनुज्ञातः-आर्य! उपाध्यायस्य सकाशेऽधीष्वेति; ततः स उपाध्यायस्य समीपे गत्वा ब्रूते-भगवन् ! गुरुभिरहमादिष्टो भवतां पादमूले पठनार्थमिति; तत उपाध्यायेनागत्याचार्या प्रच्छनीयाः, यथा-क्षमाश्रमणाः! पाठयाम्यहममुकं साधुम् ? इति; ततो गुरुभि 'बाढम्' इत्युक्ते स उपाध्यायेन पाठनीयः; एवंकुर्वन् अनुज्ञातमनुज्ञातो वाचयतीति अभिधीयते, एष प्रथमो भङ्गः शुद्धः । अनुज्ञातमननुज्ञात इति द्वितीयः, तद्भावना-स साधुराचाणितःपठोपाध्यायान्तिके, सचैवमादिष्टः पठितुमुपस्थितउपाध्यायसन्निधौ, सउपाध्यायोयद्याचार्यानपृष्टा तंपाठयतितत उपाध्यायस्यमासलघु अननुज्ञातमनुज्ञात इतितृतीयः, अत्राचार्यैरुपाध्यायस्तस्य साधोः शृण्वतः सन्दिष्टः-आर्य! पाठयेरमुंसाधुमिति, न पुनरितरः सन्दिष्टः, ततः स उपस्थितः सन्नुपाध्यायेन प्रश्ननीयः-सौम्य! क्षमाश्रमणैः सन्दिष्टस्त्वम् ? न वा? इति; स प्रतिब्रूयात्-'मया युष्माकमादेशो दीयमानः श्रुतो न पुनरहं सन्दिष्टः' इत्युक्ते यधुपाध्यायः पाठयति तदा द्वयोरप्यध्यापका-ऽध्यायकयोसिलघु; अथ न पाठयति तत उपाध्यायः शुद्धः । अननु. ज्ञातमननुज्ञातो वाचयतीति चतुर्थो भङ्गः, अत्र चोपाध्यायोऽप्यननुज्ञातः शिष्योऽप्यननुज्ञात इति कृत्वा द्वयोरपि मासलघु । अत एवाह- 'शेषेषु' प्रथमभङ्गव्यतिरिक्तेषु भङ्गेषु भासलघु । गाथायां प्राकृतत्वात् सप्तम्यर्थे षष्ठी । अविनयादयश्च दोषा भवन्ति, आदिशब्दाद् अनवस्थाअन्येषामपि यद्दच्छयाऽध्ययना-ऽध्यापनलक्षणा इत्यादयो दोषाः परिगृह्यन्ते ।।
गतमनुज्ञातद्वारम् । अथ भावतः परिणामक इति द्वारं व्याख्यायते-अत्र च भावग्रहणाद् द्रव्य-क्षेत्र-काला अपि गृहीता द्रष्टव्याः, परिणामकप्रकमाचाऽपरिणामका-ऽतिपरिणामकावपि व्याख्येयाविति चेतसि व्यवस्थाप्य सूरिरिमा नियुक्तिगाथामाह[भा.७९२] परिणाम अपरिणामे, अइपरिणाम पडिसेह चरिमदुए।
अंबाईदिटुंतो, कहणा य इमेहि ठाणेहिं ।। वृ- परिणामका-ऽपरिणामका-ऽतिपरिणामकानां प्ररूपणा कर्तव्या । प्रतिषेधः 'चरमद्विकस्य' अपरिणामका-ऽतिपरिणामकयुगलस्य कर्तव्यः, अनयोश्छेदश्रुतंन दातव्यमिति भावः । एषांच त्रयाणामपि परीक्षार्थमाघ्रादिद्दष्टान्तो वक्तव्यः, आदिशब्दाद् वृक्षमाणैः स्थानैः' प्रकारैराचार्येण कर्तव्येति ।। अथैनामेव गाथां विवृणोति[भा.७९३] जो दव्व-खेत्तकय-काल-भावओ जं जहा जिनक्खायं ।
तंतह सद्दहमाणं, जाणसुपरिणामयं साधु ॥ कृ-अत्र “तुलादण्डमध्यग्रहण"च्यायेन कृतशब्दोमध्येऽभिहितोऽपिसर्वत्रापिसम्बध्यते। यः कश्चिद् द्रव्यकृतं क्षेत्रकृतं कालकृतं भावकृतम्, द्रव्यादिभिर्भेदैः सूत्रे विहितमित्यर्थः, यद् वस्तु यथा' येनोत्सर्गा-ऽपवादरूपेण प्रकारेण जिनैराख्यातंतत्तथा श्रद्दधाति, तमेवं श्रद्दधानं' रोचयन्तं जानीहि परिणामकं साधुम् । इयमत्रभावना-द्रव्यतः सचित्ता-ऽचित्तमिश्राणि द्रव्याणि यादृशे कार्ये कल्पन्तेन वा, क्षेत्रतोऽध्वनि वा जनपदे वा यद् यथाऽध्वकल्पादिकमाचारणीयम्, याग विधिः । तदेवं सर्वमपि श्रद्दधानो यथावसरं प्रयुआनश्च परिणामको ज्ञातव्यः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org