________________
पीठिका- [भा.७८७]
२११
मिथ्यादृष्टयस्तत्वा-ऽतत्वव्यतिकरविवेकविकला ऐहिकफलार्थमर्थशास्त्र-धनुर्वेदादि यस्य सकाशे शिक्षितवन्तस्तं यावज्जीवं गुरुंप्रतिपद्यमानाः सर्वस्यापि लोकस्य पुरतः श्लाघन्ते, न पुनः कदापि कस्यापि पुरतोनिहुवते;सपुनः सर्वज्ञशासनप्रतिपन्नोऽप्यचिन्त्यचिन्तामणिकल्पश्रुतदायकानपि परमगुरून् निकुते इत्यतोऽसौ तेभ्योऽप्यधमत्वादुपहतमति-विज्ञानोऽभिधीयते । एवंविधेशिष्ये नकथयितव्यं श्रुतं वा' सूत्रम् 'अर्थो वा' तदभिधेयः ।अमुमेवार्थप्रतिवस्तूपमया द्रढयति-"न मणी" इत्यादि । “कोत्यु"त्ति आर्षस्वात् कौस्तुभो नाम मणि 'शतसहस्र' लक्षमूल्यः ‘भासस्य' शकुन्तोख्यस्य पक्षिणो गलके नाऽऽविध्यते,अयोग्यत्वात; एवमस्यापि गुरुनिलोतुरत्यन्तापात्रभूतस्य श्रुतरलप्रदानमनुचितमिति न विधेयम्॥गतंनिह्नवद्वारम् । अत्रच तिन्तिणिक-चलचित्तगाणङ्गणिक-दुर्बलचारित्रा-ऽऽचार्यपरिभाषि-वामावर्त्त-पिशुना-ऽकृतसामाचारीक-गर्वित-प्रकीर्णनिहविनः एकादशाऽपात्रभूताः शिष्याः, आदिमाष्टभावोऽप्राप्तः, तरुणधर्मा पुनरव्यक्तः । अथैषां सूत्रार्थप्रदाने प्रायश्चित्तमाह[भा.७८८] अव्वत्ते अ अपत्ते, लहुगा लहुगा य होति अप्पत्ते ।
लहुगा य दव्वतितिणि, रसतितिणि होति चतुगुरुगा। वृ-अव्यक्तः-तरुणधर्मा तस्य तथा “अपत्ते "त्तिअपात्राणामेकादशसङ्ख्याकानां सूत्रार्थी यदि ददाति तदा चत्वारो लघुकाः । "लहुगा य होति अप्पत्ते" ति अप्राप्त-आद्यद्दष्टभावस्तस्य ददातिचत्वारो लघवः। रसतिन्तिणिकस्य' आहारतिन्तिणिकस्य ददाति चत्वारो गुरवः । उपधिशय्यातिन्तिणिकयोर्ददानस्य चत्वारोलघव इत्यनुक्तमप्यत्रावसातव्यम्, निशीथचूर्णावुक्तत्वात्।। [भा.७८९]अंतो बहिं च गुरुगा, आयरिय-गिलाण-बाल दिइअपयं ।
आयरियपारिभासिस्स होति.चउरो अनुग्घाया। वृ-आहारोपधि-शय्याविषयामन्तर्बहिर्वा संयोजनांकुर्वतश्चत्वारो गुरवः।आचार्य-ग्लानबालादीनामर्थाय द्वितीयपदं भवति, एतदर्थं संयोजनामपि कुर्वन् शुद्धइत्यर्थः ।आचार्यपरिभाषिणः पुनश्चत्वारोऽनुद्धाताः प्रायश्चित्तम् ।। अथोपसंहरन्नाह[भा.७९०] तम्हा न कहेयव्वं, आयरिएणं तुपवयणरहस्सं ।
खेत्तं कालं पुरिसं, नाऊण पगासए गुझं । वृ-यस्मादेवं प्रायश्चित्तमभिहितं तस्मात् तिन्तिणिकादीनामाचार्येण 'प्रवचनरहस्यम् अपवादपदं 'न कथयितव्यम्' न प्ररूपणीयमिति । कथं पुनः कथयितव्यम् ? इत्याह-'क्षेत्रम्' अध्वादिकं प्रवेष्टव्यं ज्ञात्वा प्रथमतोऽध्वकल्पादिकं प्रवचनरहस्यभूतमपरिणतानामपि कथयितव्यम्, अन्यथा तेषां मार्गे गच्छतां संयमा-ऽऽत्मविराधना स्यात् । एवं 'कालमपि दुर्भिक्षादिकमागमिष्यन्तमागतंवा ज्ञात्वा यथायोगमपरिणतानामपि राहसिकश्रुतार्थं प्रकाशयेत्। 'पुरुषं वा' परिणामकलक्षणम् उपलक्षणत्वाद् भावं वा-ग्लान-बाल-वृद्धा-ऽसहिष्णुप्रभृतीनामुपग्रहकरणादिलक्षणं ज्ञात्वा प्रकाशयेद् 'गुह्यं' छेदश्रुतरहस्यभूतमपवादपदमिति ॥
व्याख्यातं “पत्ते अ"त्ति द्वारम् । अथानुज्ञातद्वारमाह[भा.७९१] चउभंगो अणुन्नाए, अननुनाए अ पढमतो सुद्धो । __ सेसाणं मासलहू, अविनयमाई भवे दोसा॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org