________________
२०८
बृहत्कल्प-छेदसूत्रम् -१स्वं कल्पं निषद्याकारकस्य प्रयच्छन्ति, सच तैः कल्पैर्निषद्यां रचयति। अथ स्तोका एवानुयोगं प्रगीतारस्ततः स्तोकेषु सत्सु 'अन्येऽपि अनुयोगमश्रोतारोऽपि यावद्भिर्निषद्या भवति तावतः कल्पानर्पयन्ति ।। अथार्थमण्डल्या एव विधिमाह[भा.७७९] मञ्जण निसिज्ज अक्खा, किइकम्मुस्सग्ग वंदनग जेट्टे ।
परियाग जाइ सुअसुणण समत्ते भासई जो उ॥ कृ'मार्जनम्' अनुयोगमण्डल्याः प्रमार्जनंतप्रथमतःकर्त्तव्यम्।ततोनिषद्याद्वयंरचनीयम्एका गुरूणामपरा पुनरक्षाणाम्।ततोऽक्षाःप्रमाय॑निषद्याया उपरि स्थापनीयाः। ततः 'कृतिकर्म' वन्दनकं गुरूणां दातव्यम् । ततोऽनुयोगप्रस्थापनार्थम् 'उत्सर्गः' कायोत्सर्गः, तत्र चाटावुच्छ्वासाश्चिन्तनीयाः । ततः पञ्चमङ्गलमुच्चार्य च्छोमवन्दनकंदत्त्वा "नाणंपंचविहं पन्नत्तं" इत्यादिनानन्धाकर्षणे कृते ज्येष्ठस्य वन्दन-प्रणामः कर्तव्य इति । अत्रपरः प्राह-किं यः पर्यायेण ज्यायान् सज्येष्ठः ? किं वा यो जात्या उपलक्षणत्वात् कुलेन वा? यद्वा येन श्रुतं बह्वधीतम् ? अथ येन बहुभि परिपाटीभिरर्थस्य श्रवणं कृतम् ? एतेषां मध्ये क इह ज्येष्ठोऽधिक्रियते? । अत्राचार्य प्रत्युत्तरयति-एतेषां मध्यादेकोऽपि नात्राधिक्रियते किन्तु समाप्ते' समर्थिते व्याख्याने उस्थितानां यो व्याख्यानलब्धिमान् ‘अनुभाषते' अग्रणीभूय चिन्तनिकां कारयति स इह ज्येष्ठो भण्यते, तस्य जिनवचनव्याख्यानलक्षणगुणाधिकतयाऽवमरालिकस्यापि वन्दनं विधेयम् । तथा गुरूणां हेतोः खेल-कायिकीमात्रके प्रथममेव तत्र स्थापयितव्ये, मा भूदनुयोगं शृण्वतां तदानयने श्रवणव्याघातः । एतच्च गाथायामनुक्तमपि प्रक्रमादत्र ज्ञातव्यम्, अन्यत्राऽऽवश्यकादावुक्तत्वात् ॥अथात्रैव वैपरीत्यकरणे प्रायश्चित्तमाह[भा.७८०] अवितहकरणे सुद्धो, वितह करेंतस्स मासियं लहुगं।
अक्ख निसिज्जा लहुगा, सेसेसु विमासियं लहुगं॥ वृ-प्रमार्जनादिषु पदेषु अवितथकरणे 'शुद्धः' न प्रायश्चित्तभाग । एतेष्वेव सामाचारी वितथांकुर्वाणस्य लघुमासिकम्, इदंचसामान्यत उक्तम् ।अत इदमेव सविशेषंविषयविभागेनाह“अक्ख" इत्यादि । अक्षाणामप्रमार्जनेऽस्थापने वा निषधामन्तरेण वा स्थापनेऽनुयोगं ददतः शृण्वतां वा चत्वारो लघुकाः । गुरूणां निषद्याया अकरणे श्रोतृणां चत्वारो लघवः । शेषेष्वपि सर्वेषुमासिकंलघुकंप्रायश्चित्तम्। तद्यथा-अनुयोगमण्डलीस्थानं न प्रमार्जयन्ति, वन्दनकं गुरूणां न ददति, अनुयोगप्रारम्भनिमित्तं कायोत्सर्गंन कुर्वन्ति, खेलमात्रकादिकंन ढोकयन्ति, ज्येष्ठस्य प्रणामं न कुर्वन्ति, सर्वत्रापि प्रत्येकं मासलघु । एवंविधामुपसम्पन्मण्डलीविषयां द्विविधामपि सामाचारी यो न करोति स्म सोऽकृतसामाचारीक उच्यते ॥गतमकृतसामाचारीकद्वारम् ।
सम्प्रति तरुणधर्मद्वारमाह[भा.७८१] तिण्हाऽऽरेण समाणं, होइ पकप्पम्मि तरुणधम्मो उ ।
पंचण्ह दसाकप्पे, जस्स वजो जत्तिओ कालो ।। वृ-व्रतपर्यायमधिकृत्य तिसृणां समानां' वर्षाणां 'आरेण' अर्वाग् वर्तमानः 'प्रकल्पे' निशीथाध्ययने 'तरुणधर्मा' अविपक्कपर्यायो भवति । तुशब्दो विशेषणे । किं विशिनष्टि? इह यः स्वल्वसञ्जातपञ्चकुर्चीकः स त्रिवर्षपर्यायेऽपि वर्तमानो निशीथाध्ययनस्यायोग्यो मन्तव्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org