________________
पीठिका-[भा.७७५]
२०७
[भा.७७५] पीईसुन्नण पिसुनो, गुरुगाइ चउण्ह जाव लहुओ उ ।
अहव असंतासंते, लहुगा लहुगो गिही गुरुगा ।। वृ-“पीईसुन्नण"त्तिअलीकानीतराणि वापरदूषणानि भाषमाणःप्रीतिशून्यांकरोतीति पिशुनः, नैरुक्ती शब्दनिष्पत्ति । स च यद्याचार्यस्य पैशून्यं करोति तदा चतुर्गुरु, उपाध्यायस्य करोति चतुर्लघु, भिक्षोः करोति मासगुरु, क्षुल्लकस्य करोति मासलघु इति चूर्ण्यभिप्रायः । निशीथचूर्ण्यभिप्रायेणतु-यद्याचार्य पैशून्यंकरोति तदा चत्वारो गुरवः, उपाध्यायः करोति चत्वारो लघवः, भिक्षु करोति मासगुरु, क्षुल्लकः करोति मासलधु । अमुमेवार्थं सञ्जिघृक्षुराह-"गुरुगा" इत्यादि । चतुर्णाम्' आचार्यो-पाध्याय-भिक्षु-क्षुल्लकरूपाणांपैशून्यकरणेविषयभूतानां कर्तृभूतानां वा यथाक्रमं गुरुकादयो यावद् लघुको मासः प्रायश्चित्तम् । 'अथवा' इति प्रकारान्तरोपन्यासे, सामान्यतः संयतः संयतेषुपैशून्यंकरोति तत्रासद्दूषणविषये पैशून्ये चत्वारो लघवः, सद्दूषणविषये लघुको मासः । एते एव प्रायश्चित्ते गृहिषु गुरुके अवसातव्ये । तद्यथा-गृहस्थेषु असभिर्दोषैः पैशून्यं करोति चत्वारो गुरवः, सद्भिः करोति गुरुमासः ।। अथादिमादृष्टभावद्वारं विवृणोति[भा.७७६] आवासगमाईया, सूयगडा जाव आइमा भावा।
ते उन दिट्ठा जेणं, अदिट्ठभावो हवइ एसो ।। वृ-आवश्यकादयः सूत्रकृताङ्गंयावद्द्ये आगमग्रन्थास्तेषुये पदार्था अभिधेयास्ते आदिमा भावा उच्यन्ते । तेतु' ते पुनर्भावा येन न द्दष्टाः-नावगताः स एषोऽदृष्टभाव इति, उपलक्षणत्वाद आदिमादृष्टभावो भवतीति ॥अथाकृतसामाचारीकद्वारं विभावयिषुः सामाचारीस्वरूपंतावदाह[भा.७७७] दुविहा सामायारी, उवसंपद मंडलीए बोधव्वा ।
अनालोइयम्मि गुरुगा, मंडलिमेरं अतो वोच्छं॥ वृ-सामाचारी द्विविधा-उपसम्पदिमण्डल्यांचबोद्धव्या।तत्रोपसम्पत् त्रिविधा-ज्ञानोपसम्पद् दर्शनोपसम्पत् चारित्रोपसम्पत् । आसां च सामान्यत इयं सामाचारी-गच्छान्तरा दुपसम्पदः प्रतिपत्यर्थःमायातः साधुः पर्यनुयोक्तव्यः-'वत्स ! कस्त्वम् ? कुतो वा गच्छादागतोऽसि ? किंनिमित्तमिहायातः ?' इत्येवं यद्यपर्यनुयुज्य तस्योपसम्पदं प्रतीच्छति तदा 'अनालोचिते' अपर्यनुयुक्ते सति चत्वारो गुरुकाः। यद्वा अनालोचिते' आलोचनामदापयित्वा यदि तंपरिभुङ्क्ते वाचयति वा तदा चत्वारोगुरुकाः । अत्रच ज्ञानोपसम्पदाऽधिकारः । “मंडलिमेरं अतो वोच्छं" ति मण्डली-सूत्रार्थमण्डलीरूपा तस्याः सम्बन्धिनी मर्यादां-सामाचारी अत ऊर्द्धं वक्ष्ये ।। प्रतिज्ञातमेवाह[भा.७७८) सुत्तम्मि होइ भयणा, पमाणतो यावि होइ भयणा उ ।
अत्यम्मि उ जावइया, सुणिति थेवेसु अन्ने वि।। वृ-'सूत्रे' सूत्रमण्डल्यांनिषद्यायां भजना कार्या-यदि तरुणो निरुपहतशरीरश्वाऽऽचार्यो नचनिषद्याप्रियस्ततोन क्रियते निषद्या, अथ स्थविर आमयावी वा तरुणोवा निषद्याप्रियः ततः क्रियते।प्रमाणतोऽपिसूत्रमण्डल्यां निषद्याविषये भजना। किमुक्तंभवति?-कदाचिद्एकस्मिन कल्पेकदाचिद्वयोस्त्रिषुयावन्मात्रेषुवा कल्पेषूपविष्टः सुखेनैववाचनांददातितावद्भिकल्पैर्निषद्या क्रियते। अर्थे' अर्थमण्डल्यां पुनर्यावन्तः साधवोऽर्थं शृण्वन्ति तावन्तः सर्वेऽप्यवश्यन्तया स्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org