________________
२०६
बृहत्कल्प-छेदसूत्रम् .. सुखशीलवियत्नाः सुखशीलव्यात्मानोवा तेषाम्, उभयत्रापि पार्श्वस्थादीनामित्यर्थः । प्रवचनरहस्य' छेदग्रन्थार्थतत्वं कथयति॥
कथं पुनस्तेन पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातो भवति? इति उच्यते[मा.७७१] निस्साणपदं पीहइ, अनिस्साणविहारयं न रोएइ ।
तंजाण मंदधम्मं, इहलोगगवेसगंसमणं ॥ वृ- निश्रीयते-मन्दश्रद्धाकैरासेव्यत इति निश्राणं तच्च तत् पदं निश्राणपदम्अपवादपदमित्यर्थः, तदेवयः ‘स्पृहयति' रुचिपदमवतारयति, अनिश्राणविहारितांतुन रोचयति, तमेवंविधं श्रमणं जानीहि मन्दधर्माणं 'इहलोकगवेषकं' मनोज्ञभक्त-पानाधुपभोगेन केवलस्यैवेहलोकस्य चिन्तकंपरलोकपराङ्मुखम् । एवंविधस्य च प्रवचनरहस्यप्रदाने विशेषतः पञ्चमहाव्रतभेदः षट्कायवधश्च भवतीति युक्तमुक्तं "तेनानुज्ञातः" इति ।।
गतंदुर्बलचारित्रद्वारम् । अथाऽऽचार्यपरिभाविद्वारमाह[भा.७७२] डहरो अकुलीनो त्ति य, दुम्मेहो दमग मंदबुद्धि त्ति।
अविअप्पलाभलद्धी, सीसो परिभवइ आयरियं ।। वृ-कश्चित् कुशिष्यः सूचया असूचया वा आचार्यं परिभवति । सूचा नाम स्वव्यपदेशेन परस्वरूपसूचनम्, यथा कोऽपिवयःपरिणतः साधुर्बालकमाचार्यं ब्रवीति-अद्यापि डहराः' बालका वयम्, किं नामास्माकमाचार्यपदस्य योग्यत्वम् ? इति । असूचा स्फुटमेवपरदोषोट्टनम्, यथाभो आचार्य! त्वं तावदद्यापि "डहरो" मुग्धः क्षीरकण्ठो वर्तसे, अतः कीद्दशंभवतआचार्यत्वम्? इति । योऽकुलीन आचार्यस्तमुद्दिश्य भणति-अहो ! उत्तमकुलसम्भूता अमी योग्या एवाऽऽ. चार्यपदस्य, वयंतुहीनकुलोत्पन्नाः, कुतोऽस्माकंसूरिपदयोग्यता? ।यद्वाधिक्कष्टं यदकुलीनोऽप्ययमाचार्यपदे निवेशित इति । तथा 'दुर्मेधाः' मन्दप्रज्ञः 'द्रमकः' नाम दरिद्रो भूत्वा यः प्रव्रजितः 'मन्दबुद्धि' स्वल्पमति । अपि सम्भावनायाम्, सम्भाव्यते कुतोऽपि कारणादेवंविधोऽप्याचार्य इति । अल्पा-तुच्छा वस्त्र-पात्रादिलाभे लब्धिर्यस्य सोऽल्पलाभलब्धिः । एतानप्येवमेव सूचया असूचयाच परिभवति ।। अथ शिष्यपदं व्याचष्टे[भा.७७३]सो वि य सीसो दुविहो, पव्वावियगो असिक्खओ चेव।
सो सिक्खओ अतिविहो, सुत्ते अत्थे तदुभए य॥ वृ-यः शिष्यो गुरून् परिभवति सोऽपिच द्विविधः-प्रव्राजितकश्च शिक्षकश्चैव। यस्तेनैव परिभूयमानगुरुणा दीक्षां ग्राहितः सप्रव्राजितकः ।शिक्षकस्तु गच्छान्तरादध्ययनार्थमागतः ।स च शिक्षकस्त्रिविधः-सूत्रेऽर्थे तदुभये च, सूत्रग्राहकोऽर्थग्राहकस्तदुभयग्राहकश्चेत्यर्थः ।। गतमाचार्यपरिभाविद्वारम् । सम्प्रति वामावर्त्तद्वारमाह[भा.७७४] एहि भणिओ उ बच्चइ, बच्चसु भऊणिओ दुतं समल्लियइ ।
जंजह भन्नति तं तह, अकरेंतो वामवट्टो उ॥ वृ-यः शिष्यः ‘एहि' आगच्छेति भणितः सन् व्रजति, व्रजेति भणितः सन् ‘द्रुतं' शीघ्र समालीयते । एवमन्यदपि कार्यं यद् यथा भण्यते तत् तथा अकुर्वाणो वामावर्त उच्यते ।।
अथ पिशुनद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org