________________
२०५
पीठिका - [भा.७६६] 'यस्य' साधोः ‘गुणोपकारि' विभूषादिगुणोपयोगि भवति स 'तेन' विवक्षितेन वस्तुना सार्द्ध तदेव वस्तु 'योजयन्' मीलयन् ‘तदभावे' विवक्षितवस्तुयोगाभावे 'तिन्तिणिको भवति' 'हा! नास्त्यमुकं वस्तु अत्र स्थण्डिलप्राये सनिवेशे' इत्यादि जल्पतीत्यर्थः॥
गतं तिन्तिणिकद्वारम् । अथ चलचित्तद्वारमतिदेशेनैवाह[भा.७६७] चलचित्तो भावचलो, उस्सग्गऽववायतो उ जो पुचि।
भणितो सो चेव इहं, गाणंगणियं अतो वोच्छं ।। वृ-चलचित्तइह भावचलः' अपरापरशास्त्रपल्लवग्राही गृह्यते। सचउत्सर्गतोऽपवादतश्च यः पूर्वमचञ्चलद्वारं भणितः स एवेहापि भणितव्यः । गाणङ्गणिकमत ऊर्ध्वं वक्ष्ये ।। तमेवाह[भा.७६८] छम्मास अपूरित्ता, गुरुगा बारससमासु चउलहुगा।
तेन परं मासलहू, गाणंगणि कारमे भइतो॥ वृ-उपसम्पन्नः साधुः कारणाभावे षण्मासान् अपूरयित्वा यथेकस्माद् गणाद् अपरं गणं सङ्क्रामति तदा तस्य चत्वारो गुरुकाः पन्नास्याः परतो यावद्द्वादशसमा-वर्षाणिताअपूरयित्वा गच्छतश्चतुर्लघुकाः । ततः परं-द्वादशभ्यो वर्षेभ्य ऊर्द्धनिष्कारणंगणाद् गणं सङ्कामतोमासलधु। “गाणंगणि"ति भावप्रधानो निर्देशः, ततो गाणङ्गणिकत्वं 'कारणे' ज्ञान-दर्शनचारित्राणामन्यतरस्मिन् पुष्टालम्बने समुत्पन्ने भाज्यं सेवनीयम्। किमुक्तं भवति?-कारणे मध्येद्वादशवर्षमन्तः षण्मासं वा गणाद् गणं सङ्क्रामन्नपि न प्रायश्चित्तभाग् भवतीति ।। गतं गाणङ्गणिकद्वारम् । सम्प्रति दुर्बलचारित्रद्वारमाह[भा.७६९] मूलगुण उत्तरगुणे, पडिसेवइ पनगमाइ जा चरिमं ।
धिइ-वीरियपरिहीणो, दुब्बलचरणो अनट्ठाए । वृ- मूलगुणोत्तरगुणविषयानपराधान् यः प्रतिसेवते । कथम् ? इत्याह-‘पञ्चकादि यावच्चरमम्' इह पञ्चकशब्देन यत्र प्रतिसेविते रात्रिन्दिवपञ्चकमापद्यतेससर्वजघन्यश्चरणापराधः परिगृह्यते, आदिशब्दादशरात्रिन्दिवादिप्रायश्चित्तस्थानानि यावत् चरमं सर्वोत्कृष्टचरणापराधलक्षणं पाराञ्चिकप्रायश्चित्तस्थानमिति । कथम्भूतः सन्प्रतिसेवते? इत्याह-'धृति-वीर्यपरिहीणः' मानसिकावष्टम्भवबलरहितः असौ, न खल्वनीशश्चरण-करणविषयभूतान्यपराधपदान्यासेवितुमुत्सहते । सोऽपि यदि पुष्टालम्बनतः प्रतिसेवते ततो न दोषभाग भवेदित्याह"अनाए"त्तिअर्थ-दर्शन-ज्ञानादिकंप्रयोजनंतदभावोऽनर्थतेन यःप्रतिसेवते स एष दुर्बलचरणः।। एवंविधस्य च्छेदश्रुतार्थदाने दोषबाहुल्यख्यापनार्थमिदमाह[भा.७७०] पंचमहव्वयभेदो, छक्कायवहो अ तेनऽणुनाओ।
सुहसील-ऽवियत्ताणं, कहेइ जो पवयणरहस्स ।। वृ-'तेन' आचार्येण पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातः, यः 'सुखशीला-ऽव्यक्तानां' सुखं-शरीरशुश्रूषादिकं शीलयन्तीति सुखशीलाः-पार्श्वस्थादयः, अव्यक्ताः श्रुतेन वयसा च, सुखशीलाचाव्यक्ताश्चेति द्वन्द्वस्तेषामिति चूर्णिकृतोऽभिप्रायः । निशीथचूर्णिक-तः पुनरयम्सुखे-शरीरसौख्ये शीलं-स्वभावो व्यक्तः-परिस्पष्टो येषां ते सुखशीलव्यक्तास्तेषाम्, यद्वा सुखंमोक्षसौख्यं तद्विषयं यत् शलं-मूलोत्तरगुणानुष्ठानं ततो विगतो यलः-उद्यम आत्मा वा येषां ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org