________________
२०४
बृहत्कल्प-छेदसूत्रम् -१. भावा येन स आधद्दष्टभावः, तथा अकृतसामाचारीकः तरुणधर्मा च गर्वितः “पइन्न"त्ति प्रकीर्णप्रश्नः प्रकीर्णविद्यश्च “निण्हइ"त्ति गुरुनिह्नवी एतेषां छेदश्रुतविषयमर्थं वर्जयेत्, न दद्यादित्यर्थः इति द्वारगाथाद्वयसमासार्थः॥
व्यासार्थ प्रतिद्वारमभिधित्सुः प्रथमतस्तिन्तिणिकद्वारं व्याचष्टे[भा.७६४] डझंतं तिंबुरुदारुयं व दिवसं पि जो तिडितिडेइ ।
अह दव्यतितिणो भावओ उ आहारुवहि-सेज्जा ।। कृ'तिम्बुरुकदारुकं तिम्बुरुकवृक्षकाष्ठमग्नौप्रक्षिप्तंदह्यमानंसद्यथा त्रटाटिति कुर्वदास्ते, एवंयोगुवादिभिः खरण्टितः सम्पूर्णमपि दिवसं "तिडितिडेइ"त्तिअनुकरणशब्दत्वात् 'टाटायते' मम सम्मुखमिदमिदंच जल्पितमेभिरितिऋषन्नास्तेइति भावः । अथैष द्रव्यतिन्तिणिकः।भावतस्तु तिन्तिणिकःत्रिविधः, तद्यथा-आहारे उपधौशय्यायांचेति । पुनरेकैको द्विविधः-अन्तःसंयोजनया बहिसंयोजनया च ॥ तत्रोभयथाऽप्याहारतिन्तिणिकं तावदाह[भा.७६५] अंतो-बहिसंजोअण, आहारे बाहि खीर-दधिमाई।
___ अंतो उ होइ तिविहा, भायण हत्ये मुहे चेव ॥ वृ-आहारविषया संयोजना द्विविधा-अन्तर्बहिश्च । तत्र बहिस्तावद् भाव्यते-कश्चित् साधुर्भिक्षामटन् क्षीरं वा दधि वा लब्ध्वा रसगृभुतया कलमशालिप्रभृतिकमोदनं चिरगोचरचर्याकरणेनाप्युत्पाद्य यत् तेनैव क्षीरादिना सार्धमुपाश्रयाद् बहि संयोजयति, आदिशब्दात् परमानादिकंवा लब्ध्वा घृत-खण्डादिना बहिरेव स्थितः सन् यद्योजयति एषा बहिसंयोजना। अन्तस्तु प्रतिश्रयाभ्यन्तरे पुनः संयोजना त्रिविधा भवति, तद्यथा-भाजने हस्ते मुखे चैव । तत्र भाजनविषया यत्र भाजने कलमशाल्योदनस्तत्र दुग्ध-दध्यादि प्रक्षिपति । हस्तविषया मण्डकपूपलिकादिना गुड-शर्करादि हस्तस्थितं वेष्टयित्वा मुख प्रक्षिपति । मुखविषया पूर्वं मण्डकादि मुखेप्रक्षिप्य ततः शक्रका-खण्डादि प्रक्षिपति। एवंविधांद्विविधामप्याहारसंयोजनांलोभाभिभूततया कुर्वन्यदा यदा संयोजनीयवस्तुयोगं न लभते तदा तदा तिन्तिणिकत्वं करोतीत्याहारतिन्तिणिक उच्यते ॥गत आहारतिन्तिणिकः । साम्प्रतमुपधि-शय्यातिन्तिणिकावतिदिशति[भा.७६६] एमेव उवहि सेज्जा, गुणोवमारी उ जस्स जं होइ।
सो तेण जोययंतो, तदभावे तिंतिणो होइ॥ - एवमेवोपधि-शय्ययोरपि संयोजनाया भावना कार्या । सा चेयम्-उपधिसंयोजना द्विविधा-बहिरन्तश्च। तत्र बहिसंयोजना उत्कृष्ट कल्पं लब्ध्या चोलपट्टकमपि उत्कृष्टमुत्पादयति,
और्णिकं वा कल्पं सुन्दरं लब्ध्वा तदनुरूपमेव सौत्रिकमुत्पादयति, उत्पाय च तदुभयपरिभोगेन संयोजयति। अन्तः संयोजनापुनर्विभूषार्थं श्वेतकम्बल्यां कृष्णदवरकसीवनिकां ददाति इत्यादि। शय्या-प्रतिश्रयस्तस्य संयोजनाऽपि द्विविधा-बहिरन्तश्च । तत्र बहि-संयोजना अकपाटमुपाश्रयं लब्ध्वा कपाटाभ्यां संयोजयति । अन्तः संयोजना शोभार्थं प्रतिश्रयं गोमय-मृदादिना लिम्पति सेटिकया वाधवलयति । अथवा शय्याशब्देन संस्तारक उच्यते, ततश्च सुन्दरतरंसंस्तारकंलब्ध्वा यद् उत्तरपट्टमपि तदनुरूपमुत्पाद्य परिभुङ्क्ते सा बहिसंयोजना । यत् पुनः सुकुमारस्पर्थिं विभूषार्थं वा सुन्दरया भङ्गया संस्तारकं प्रस्तृणाति सा अन्तःसंयोजना । तदेवं यद् उपध्यादिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org