________________
पीठिका - [भा. ७८१]
इति । पञ्चानां वर्षाणामर्वाग्वर्त्तमानस्तु “दसाकप्पे "त्ति उपलक्षणत्वाद् दशा- कल्प-व्यवहाराणां तरुणधर्मा ज्ञातव्यः । 'यस्य वा' सूत्रकृताङ्गादेः श्रुतस्य योयावान् कालो व्यवहाराध्ययने दशमोद्देशके भणितः तस्य तावन्तं कालमसमापयन् तरुणधर्मा भवति । यथा- “कम्पइ चउवासपरियायस्स समणस्स निग्गंथस्स सूअगडं नाम अंगं उद्दिसित्तए" इत्यादि ॥
गतं तरुणधर्मद्वारम् । अथ गर्वितद्वारमाह
[भा. ७८२] पुरिसम्मि दुखिनीए, विनयविहाणं न किंचि आइक्खे। न वि दिजइ आभरणं, पलियत्तियकन्न - हत्थस्स ॥
इह यः श्रुतमधीयानः तदवलेपादेव दुर्विनीतो भवन्नुपुलभ्यते, ताशे पुरुषे 'विनयविधानं' कर्मविनयनोपायमाऽऽचारादि श्रुतजातम् 'किञ्चिदपि' स्तोकमात्रमपि 'नाऽऽचक्षीत' न प्रतिपादयेत् । यद्वा विनयः- द्वादशावर्त्तवन्दनकप्रदानादिप्रतिरूपोपचाररूपो विधीयते यस्मिन्नधीयमाने तद् 'विनयविधानम्' आचारादि श्रुतमेव तद् नाऽऽचक्षीत । कुतो हेतोः ? इति चेद् अत आह- " न वि दिजइ" इत्यादि । 'नापि ' नैव दीयते 'आभरणं' कुण्डलकङ्कणादिकं परिकर्त्तितकर्ण- हस्तस्य पुरुषस्य, आविध्यमानस्यापि तस्य तदङ्गे शोभाया अलभमानत्वात् एवं श्रुताभरणमपि विनयविकलाङ्गस्य योज्यमानं न शोभां बिभर्त्ति इति जिनवचनवेदिना तस्य तद् न दातव्यम् ।। अथाऽस्यैव सविशेषमपात्रताख्यापनार्थमाह
[भा. ७८३]
मद्दवकरणं नाणं, तेनेव उ जे मदं समुवर्हति । ऊणगभायणसरिसा, अगदो वि विसायते तेसिं ॥
वृ-मार्दवं माननिग्रहस्तत्करणं-तत्कारकं 'ज्ञानं' श्रुतरूपम्, 'तेनैव' ज्ञानेन 'ये' दुर्विदग्धाः 'मदम्' अहङ्कारं समुद्वहन्ति । कथम्भूताः ? 'ऊनकभाजनसद्दशाः' असम्पूर्णभृतघटादिभाजनतुल्याः, यथा किल तद् झलझलायते तथैतेऽपि दुरधीतविद्यालवतया निजपाण्डित्यगर्वाध्माता यदपि तदपि लपन्तस्तिष्ठन्ति । तेषाम् 'अगदोऽपि' विषापहारकमप्यौषधं 'विषायते' विषरूपतया परिणमते श्रुतरूपम् । तथा चैतदर्थसंवादकमेवेदं सूक्तम् -
ज्ञानं मद-दर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ।
अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते ? | गतं गर्वितद्वारम् । अथ प्रकीर्णकद्वारमाह
[भा. ७८४] सोउं अनभिगताणं, कहेइ अमुगं कहिज्जई इत्थं एस उपइन्नपन्नो, पइन्नविज्जो उ सव्वं पि ॥
२०९
वृ- अर्थमण्डल्यां यो राहसिकग्रन्थार्थं श्रुत्वा उत्थितः सन् 'अनभिगतानाम्' अपरिणतानां लेशोद्देशतः कथयति यथा 'अमुकं' प्रलम्बग्रहणादिकम् 'अत्र' सूत्रे कल्पनीयतया कथ्यते; एष प्रकीर्णप्रज्ञः । प्रज्ञाशब्देनेह प्रकर्षेण ज्ञायते उत्सर्गा ऽपवादतत्त्वमनयेति व्युत्पत्या छेदसूत्रान्तर्गता रहस्यवचनपद्धतिरुच्यते, सा प्रकीर्णा विक्षिप्ता येन स प्रकीर्णप्रज्ञः । “प्रकीर्णप्रश्नः " ("पइन्नपण्हो’'] इति वा पाठः, तत्र चापरिणतैः 'किमेतद् रहस्यभूतमत्राभिधीयते ? ' इत्युल्लेखेन पृच्छयत इति प्रश्नः - छेदश्रुतान्तः पाती रहस्यार्थ इत्यर्थः, स प्रकीर्णो येन स प्रकीर्णप्रश्न इति । तथा
18 14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org