SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा.७२५] १९३ तेऽप्याचार्या एवंविधा एव भविष्यन्तीत्यात्मा परित्यक्तः । तथा प्रवचनमपि तेनाऽऽचार्येण परित्यक्तम् । कथम् ? इत्याह-श्रुतस्योत्सारकल्पवशादनधीयमानस्य व्यवच्छेदः प्राप्नोति, श्रुते च व्यवच्छिद्यमाने ज्ञानाभेव च दर्शन-चारित्रयोरप्यभावात् तीर्थस्यापि व्यवच्छेदः प्राप्नोति ।। यदि नाम तीर्थं व्यवच्छिद्यते ततः को दोषः? इत्याह[भा.७२६] पवयणवोच्छेए वट्टमाणो जिनवयणबाहिरमईओ।। बंधइ कम्मरय-मलं, जर-मरणमणंतयं घोरं ॥ वृ-प्रवचन-तीर्थं तस्य व्यवच्छेदे हेतुरूपतया वर्तमानः, कथम्भूतोऽसौ ? इत्याह'जिनवचनबाह्यमतिकः' सर्वज्ञशासनबहिर्मुखशेमुषीकः, न खल्वनीशस्य प्रवचनव्यवच्छेदं कर्तुं मतिरुत्सहते, स एवम्भूतो बध्नाति 'कर्मरजो-मलं' रजःशब्देन बद्धावस्थं मलशब्देन निकाचितावस्थं कर्म परिगृह्यते, जश्च मलश्चेति रजो-मलम्, कर्मैव रजोमलं कर्मरजो-मलम्, निकाचिता-ऽनिकाचितावस्थंकर्मंयथाध्यवसायस्थानमनुबध्नातीत्यर्थः । कथम्भूतम् ? अनन्तानि जरा-मरणानि यस्मात् तद् अनन्तजरा-मरणम्, गाथायां प्राकृतत्वादनन्तशब्दस्य परनिपातः, 'घोरं रौद्रंशारीर-मानसदुःखोपनिपातनिबन्धनत्वादिति।तथा षडजीवनिकायानप्यगीतार्थतयाऽसौ विराधयतीति जीवनिकाया अपि तेनोत्सारकेण परित्यक्ता अवसातव्याः। यत एते दोषास्ततो नोत्सारणीयम् ॥ अथ क्रमेणैवाधीयमाने सूत्रे के गुणाः? उच्यते[मा.७२७] आणा विकोवणा बुग्झणा य उवओग निजरा गहणं । गुरुवास जोग सुस्सूसणा य कमसो अहिजंते॥ कृ'क्रमशः' क्रमेणाधीयमानेऽध्याप्यमाने च सूत्रे एते गुणाः। तद्यथा-आज्ञा तीर्थकृतां शिष्येणाऽऽचार्येण चाऽऽराधिता भवति । “विकोवण"त्ति योगोद्वहनविधौ गच्छसामाचार्यां च'विकोपना' व्युत्पादना शिष्यस्य कृता भवति; ततश्च स्वयंसामाचारीवैतध्यं न करोति, अपरान् कुर्वतो निवारयति। तथा गच्छमध्ये द्वितीयपौरुष्यामनुयोगः प्रवर्तते तदाकर्णनाद मन्दबुद्धेरपि 'बोधन' जीवा-ऽजीवादितत्त्वेषुप्रबुद्धता सम्पद्यते।बुध्यमानस्य च श्रुतेनिरन्तरमुपयोगो जायते। निरन्तरोपयुक्तस्य च महती निर्जरा, प्रतिसमयसङ्ख्येयभवोपात्तकर्मपरमाणुपटलापगमात् । उक्तञ्च कम्ममसंखेजभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे, सज्झायम्मी विसेसेणं ॥ नित्योपयुक्तस्य च शीघ्रं सूत्रार्थयोर्ग्रहणं भवति । तथा गुरुवासेन-गुरुकुलवासेन सार्ददं योगः-सम्बन्धो भवति, अन्यथा क्रमेण सूत्रार्थाध्ययनायोगात् । यद्वा पदद्वयमिदं पार्थक्येन व्याख्यायते-गुरूणामन्तिके वासोगुरुवासः ससेवितोभवति, योगाश्च विधिवदाराधिता भवन्ति। आचार्यादीनांशुश्रूषा विनय-वैयावृत्यादिना कृता भवति । यत एतेगुणास्ततः क्रमेणैवाध्येतव्यम्।। उपसंहरन्नाह[भा.७२८] इय दोस-गुणे नाउं, उक्कम-कमओ अहिज्जमाणाणं । उभयविसेसविहिन्नू, को चणमब्भुवेजाहि । -इतिशब्द एवमर्थे । एवमुक्रमतः क्रमतश्चाधीयानानाम् उपलक्षणत्वादध्यापयतां च | 18| 137 अनम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy