________________
१९२
वृहत्कल्प-छेदसूत्रम् -१. श्रुतम्, तद्यूयमेतस्य योगमुद्बहतेति।एते च दुरधीतविद्यत्वात्प्रायः प्रत्यन्तग्राम एवार्धं लभन्ते, यत उक्तम्
पाएण खीणदव्वा, धणियऽपरद्धाकयाराहाय।
___ पञ्चंत सेवंती, पुरिसा दुरहीयवेज्जा या ।। अतः प्रत्यन्तं गत्वा सूत्रार्थयोरुत्सारणं कुर्वन्ति, वदन्ति च-वयं सूत्रार्थयोरव्यवच्छित्तिं कुर्म इति । अन्यदा च तत्र प्रत्यन्तग्रामे गीतार्थानामागमनम् । तैरुत्सारकल्पिकानां खरण्टनम्, यथा-आः ! किमेवं सूत्रार्थयोः परिपाटिवाचनां परित्यज्य सकलश्रुतधर्मधूमकेतुकल्पमुत्सारकल्पमाचरन्तआत्मानंच परंच नाशयत इत्यादि । ततश्च गच्छानाच्छिद्य तेषामपुनःकरणेन प्रतिक्रान्तानां प्रायश्चित्तं दत्तम् । “कित्तिय'त्ति कियन्त एताशा गीतार्था भविष्यन्ति य एवं शिक्षयिष्यन्ति?।तस्मात्प्रथमत एवनोत्सारणीयम्।।भाविता सप्रपञ्चयोगविराधना। अथाऽऽत्मा परश्च परित्यक्त इति पदद्वयं भावयति[भा.७२४] अप्पत्ताण उदितेण अप्पओ इह परत्थ विय चत्तो।
सो वि अ हु तेन चत्तो, जंन पढइ तेन गव्वेणं । वृ-'अपात्राणाम्' अयोग्यानां यद्वा अप्राप्तानां' विवक्षितानुयोगभूमिमनुपागतानां श्रुतं ददता उत्सारकल्पकृता आत्मा इह परत्रापि च त्यक्तः, तत्रेह तद्वाचनादानसमुद्भूतापयशः प्रवादादिना परत्र तु बोधिदुर्लभत्वादिना । तथा सोऽपि शिष्यः ‘हु' निश्चितं 'तेन' आचार्येण परित्यक्तः, यत्तेन गणि-वाचकत्वादिगर्वेणाधिष्ठितःसन्नपठति, पठनाभावे हि कुतो यथावत् चरण-करणप्रतिपालनम्? इति भावः । प्रवचनमपि तेन परित्यक्तम्, कथम्? इति चेद् उच्यतेतस्य वाचकत्वप्रवादं श्रुत्वा केचित् सहृदया वाग्मिनो बहुविध्रन्थद्दश्वानस्तत्परीक्षां कर्तुकामा यदा कमपि सिद्धान्तारथं प्रश्नयेयुरिति तदाऽसावप्रबुद्धत्वाद् न किमपि तात्त्वि निर्वचनमभिधआथउणईशः । ततस्ते चिन्तयन्ति-अहो ! परिफल्गुप्रवचनममीषाम्, यत्रेशा अपि वाचकपदमध्यारोप्यन्ते । ततः केचिद् देशविरति केचित् सर्वविरतिं प्रतिपित्सवो यदि विपरिणमन्ते ततः प्रवचनं परित्यक्तमवसातव्यम्। किञ्च[भा.७२५] अजस्स हीलणा लज्जणा य गारविअकारणमणजे ।
आयरिए परिवाओ, वोच्छेदो सुतस्स तित्थस्स ।। -आर्य-सुजनः सुमानुषमित्येकोऽर्थः, तस्ययथावदागमार्थावबोधविकलस्यवाचकनाम्ना हीलना भवति-अहो! हीलेयं मम यदहं 'वाचक ! वाचक !'इत्यभिधीये । तथा "लज्जण"त्ति 'वाचकमिश्राः! कथयत कथमयमालापकः सिद्धान्ते विद्यते? को वाऽस्याऽऽलापकस्यार्थ?' इति केनापि पृष्टस्य व्याकरणं दातुमशक्नुवतो भृशं लज्जा भवति। ततश्चश्यामवदनः कुब्जीकृतकन्धरश्चिन्तया विमनायमानोऽवतिष्ठते । अनार्ये' अनार्यस्यपुनस्तदेव 'गौरव्यकारणं' गर्वनिबन्धनं जायते-अहो ! वयमेव निस्सीमप्रतिष्ठापात्रं जगति वर्तामह यदेवं वाचकपदवीमध्यारोहाम इति । इत्थं परः परित्यक्तो मन्तव्यः । आचार्येच परिवादो भवति, तथाहि-स बहुश्रुताचार्यपाङित्सारकल्पं कारयित्वागतः कापिनगरादौ, पृष्टश्च कैश्चिनिष्णातैः किमप्यर्थपदं यावत्र किञ्चिजानीते, ततस्ते ब्रुवते-थैरेष मूर्खमण्डलीमध्यलब्धरेख आचार्यपदभाजनमकारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org