________________
१९४
बृहत्कल्प-छेदसूत्रम् -१. यथाक्रमं दोषान् गुणांश्च ज्ञात्वा 'उभयविशेषविधिज्ञः'क्रमा-ऽक्रमाध्ययनगुण-दोषविभागवेदी आचार्यशिष्यो वा को नामोत्सारकल्पस्य करणेन कारापणेन वा आत्मनो वञ्चनम् ‘अभ्युपेयाद् । अङ्गीकुर्यात् ? न कश्चिदित्यर्थः । यतश्चैवमतोऽनुपयोगित्वाद् नास्त्युत्सारकल्पिक इति ॥
अत्र पुनरपि परः प्राह[भा.७२९]जइ नत्थि कओ नामं, असइ हुअत्ये न होइ अभिहाणं ।
तम्हा तस्स पसिद्धी, अभिहाणपसिद्धिओ सिद्धा॥ - यदि नास्त्युत्सारकल्पिकः ततः कुतोऽस्य 'नाम' अभिधानमिदमायातम् ? (न कुतश्चिदित्यर्थः) । अनेन प्रतिज्ञार्थ सूचितः । कुतः? इत्याह- 'असति' अविद्यमाने 'अर्थे । अभिधेये हुशब्दस्य हेत्वर्थवाचकत्वाद् यस्मान भवत्यभिधानं किन्तु सत्येवेति । अनेन च हेत्वर्थ उपात्तः। यतश्चैवं तस्मात् 'तस्य' अर्थस्य प्रसिद्धिरत्राभिधानप्रसिद्धित एव 'सिद्धा' प्रतिष्ठितेति निगमनार्थ । दृष्टान्तोपनयौ स्वयमेवाभ्यूह्य वाच्यौ । अत्र प्रयोगः-अस्त्युत्सारकल्पिकः, । अभिधानवत्त्वात्, घटादिवत्, यद् यद् अभिधानवत् तत् तद् अस्ति, यथा घटपटादि, अभिधानवच्चेदम्, तस्मादस्तीति ।। इत्थं परेण स्वपक्षे समर्थिते सति प्रतिविधीयते-भो भद्र। मुग्धप्रमाणिक ! अनैकान्तिकोऽयं भवता हेतुरुपन्यस्तः । तथा चाह[भा.७३०] जइ सव्वं विय नाम, सअस्थगं होज तो भवे दोसो।
जम्हा सअत्थगत्ते, भजियं तम्हा अनेगंतो॥ वृ-यदि सर्वमपि नाम सार्थकं भवेत् ततो भवेदस्माकं 'दोषः' उत्सारकल्पिकस्यास्तित्वापत्तिलक्षणः । यस्मात् पुनः सार्थकत्वे नाम 'भक्त' विकल्पितम्, स्यात् सार्थकं स्यानिर्थकमिति भावः । तत्र सार्थकं जीवा-5जीवादिकम्, निरर्थं खरविषाणा-ऽऽकाशकुसुम-कूर्मरोमवन्ध्यापुत्रादिकम् ।यत एवं तस्मादनेकान्तोऽयम्-यदसद्भूतेऽर्थेन भवत्यभिधानम् । इदमत्र तात्पर्यम्अभिधानस्य भावा-ऽभावयोरुभयोरपि सद्भावादभिधानवत्त्वलक्षणोहेतुर्यथाउत्सारकल्पिकस्यास्तित्वं साधयति तथा नास्तित्वमपि साधयति, उभयत्रापि साधारणत्वात्। अतः साधारण-1 रूपानकान्तिकदोषदुष्टोऽयं हेतुरिति । ___इत्थं व्यभिचरितपक्षतया विलक्षीभूतः परः परित्यज्य यदृच्छाजल्पमाचार्यवचनेव | प्रमाणीकुर्वन्नित्थमाह-भगवन् ! अभ्युपगतंमयाऽनन्तरोक्तयुक्तितोऽभिधानस्य सार्थकत्वमनर्थक चेति, परमिदमुत्सारकल्पिकाभिधानं किं सार्थकम् ? आहोखिद् निरर्थकम् ? इति विवर्तते । संशयावर्तगर्तायामस्माकं चेतः, तदिदानीमुद्रियतां निजवाग्वरत्रयेति उच्यते[भा.७३१] निकारणम्मि नाम, पि निच्छिमो इच्छिमो अकजम्मि।
उस्सारकप्पियस्स उ, चोयग ! सुण कारणं तंतु॥ वृ. वत्स ! 'निष्कारणे' कारणाभावे नामापि नेच्छामो वयम् किं पुनरर्थम् ? । 'कायें । प्रयोजने तु प्राप्ते इच्छाम उत्सारकल्पिकस्य नामाप्यर्थमपि । 'तत्तु' कारणं हे नोदक ! 'शृणु। निशमय । तत्र तिष्ठतु तावत् कारणम्, कर्तुरधीनाः सर्वा अपिक्रिया इति ज्ञापनार्थं प्रथमत उत्सारकारकमाह
[भा.७३२] आयार-दिट्ठिवायत्थजाणए पुरिस-कारणविहिनू ।
Jain Education Intelaton
www.jainelibrary.org