SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७६ बृहत्कल्प-छेदसूत्रम् -१ ऊर्ध्वदिशमाश्रित्य 'मो' पादपूरणे यावत् स्वविमानानि स्तूप-ध्वजकलितानि, अधोदिशमुद्दिश्य यावदधस्तनो लोकान्त इति ॥भावितो देवेन्द्रक्षेत्रावग्रहः । सम्प्रति चक्रिणः क्षेत्रावग्रहमाह[भा.६७५] सरगोयरो अतिरियं, बावत्तरिजोयणाई उई तु। अहलोगगाम-अधमाइ हेट्टओ चक्किणो खित्तं ॥ वृ-यावत् शरस्य-बाणस्य गोचरः-विषयस्तावत् चक्रिणस्तिर्यक् क्षेत्रम् । इदमुक्तं भवतिचक्रवर्ती दिग्विजययात्रां कुर्वन् मागधादिषु तीर्थेषु यं नामाङ्कितं बाणं निसृजतिस पूर्व-दक्षिणाऽपरसमुद्रेषु द्वादशयोजनान्तं यावद् गच्छति, एतावदन्तश्चक्रिणस्तिर्यगवग्रहः । स एव बाणः क्षुद्रहिमवत्कुमारदेवसाधनार्थं चक्रिणव निसृष्ट ऊर्ध्वं द्वासप्तातियोजनानि यावद् गच्छति तावानूर्धमवग्रहः । अधः पुनरधोलोकग्रामाः, तथा अधा-गर्ता, आदिशब्दाद्वापी-कूप-भूमिगृहादिपरिग्रहः । इयमत्र भावना-जम्बूद्वीपापारविदेहवर्त्तिनलिनावती-वप्राभिधानविजययुगलसमुद्भवा योजनसहस्रद्वेधाः समयप्रसिद्धा येऽधोलोकग्रामास्तेषु ये चक्रवर्तिनः समुत्पद्यन्ते तेषांत एवाधः क्षेत्रावग्रहः, तदपरेषांतुगत-कूप-भूमिगृहादिकमिति ।।प्ररूपितोराज्ञः क्षेत्रावग्रहः। अथ गृहपति-सागारिकयोस्तमाह[भा.६७६] गहवइणो आहारो, चउद्दिसिं सारियस्स घरवगडा । हेट्ठा अधा-ऽगडाई, उर्दु गिरि-गेहधय-रुक्खा ।। वृ-'गृहपतेः' मण्डलेश्वरस्य यावान् ‘आधारः' विषयः प्रभुत्वविषयभूतश्चतसृषु दिक्षु तावानस्योत्कृष्टस्तिर्यगवग्रहः । 'सागारिकस्य' शय्यतरस्य 'गृहवगडा' गृहवृतिपरिक्षेप उत्कृष्टस्तिर्यगवग्रहः । द्वयोरपिचाधस्ताद् ‘अधा-ऽगडादयः' अधा-गर्ता हृदोवा, अगड:-कूपः, आदिशब्दाद् वाप्यादयः; उर्ध्व 'गिरि-गेहध्वज-वृक्षाः' गिरयः-पर्वताः, गृहध्वजाः-गृहोपरि वर्त्तिन्यः पताकाः, वृक्षाः-सहकारादयः । साधर्मिकाणां तु क्षेत्रावग्रह उत्कृष्टः कुतोऽपि हेतोरत्र नोक्तः, परं बृहद्भाष्ये इत्थमभिहितः खित्तोग्गहो सकोस, जोयण साहम्मियाण बोधव्वं । छद्दिसिजा एगदिसिं, उजाणं वा मडंबाई ।। मडम्बादौ उद्यानंयावदुत्कृष्टः क्षेत्रावग्रहः । शेषसुगमम्।। अथजधन्यमभिधातुकाम आह[भा.६७७] अजहन्नमणुक्कोसो, पढमो जो आवि चक्कवट्टीणं । सेसनिव रोहगाइसु, जहन्नओ गहवईणं च ॥ वृ-'प्रथमः' दवेन्द्रावग्रह 'अजघन्योत्कृष्टः' नजघन्योन वाउत्कृष्टः किन्तूभयविवक्षारहितः, सर्वदैवैकरूपत्वात् । यश्चाप्यवग्रहः चक्रवर्तिनां सम्बन्धी सोऽप्यजघन्योत्कृष्टः, सर्वचक्रवर्तिनामाधिपत्यस्यैकरूपत्वात्। शेषनृपाणां चक्रवर्त्तिव्यतिरिक्तानांनृपतीनां गृहपतीनांचरोधकादिषु जघन्यः क्षेत्रावग्रहो द्रष्टव्यः । रोधनं रोधकः-परचक्रेण नागरादेर्वेष्टनम्, आदिशब्दादन्यस्याप्येवंविधविड्वरस्य परिग्रहः । इयमत्र भावना-कोऽपि बलवान् राजा मण्डलेश्वरो वा कस्याप्यलपबलस्य नरपतेर्गृहपतेर्वा बाह्यनीवृतमात्मात्कृत्य यदा तदीयं नगरादि निरुध्यावतिष्ठते तदा तस्य तावान् नगरादिमात्रको जघन्यः क्षेत्रावग्रहः ।। [भा.६७८] नगराइ निरुद्ध धरे, जा याऽणुन्ना उ दुचरिम जहन्नो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy