________________
पीठिका- [भा. ६७१]
१७५
तत्येव य जे दव्वा, कालो भावो असामित्ते ।। वृ-एकैकोऽवग्रहश्चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र प्रथमतः क्षेत्रावग्रहः प्ररूप्यते । कुतो हेतोः? इति चेद् उच्यते-'क्षेत्रंतु' क्षेत्रं पुनः तत्र' तेषु द्रव्यादिषुमध्ये प्राधान्ये वर्तते, इहावग्रहस्य प्रलप्यमाणत्वात्तस्यच तत्त्वतः शक्रादिक्षेत्ररूपतयाऽभिधीयमानत्वादिति भावः । यतश्च तत्रैवच क्षेत्रेयानि द्रव्याणि यश्चकालो भावश्च एतेषांत्रयाणामपि क्षेत्रमाधारभूतं स्वामित्वे वर्तते, क्षेत्रस्यैव सम्बन्धित्वात् तेषाम् । तस्मिंश्च प्रथमं प्ररूपिते द्रव्यादयस्तदन्तर्गताः प्ररूपिता एव भवन्तीति ॥ प्रथमतः क्षेत्रावग्रहं प्ररूपयति[भा.६७२] पुव्वावरायया खलु, सेढी लोगस्स मज्झयाम्म ।
___ जा कुणइ दुहा लोगं, दाहिण तह उत्तरद्धं च ।। वृ- इह सर्वस्यापि लोकस्य 'मध्यकारे' मध्यभागे मन्दरस्य पर्वतस्योपरि 'श्रेणि' आकाशप्रदेशपङ्किरेकप्रादेशिकी पूर्वापरयोर्दिशोरायता-प्रदीर्धासमस्ति, 'या' श्रेणिर्लोकमेकरूपमपि द्विधा करोति। तद्यथा-दक्षिणलोकार्द्धमुत्तरलोकार्द्ध च। तत्रदक्षिणलोकार्द्धस्य शक्रः प्रभुत्वनुभवति, उत्तरलोकार्द्धस्य पुनरीशानकल्पनायकः । तथा दक्षिणलोकाड़े यान्यावलिकाप्रविष्टानि पुष्पावकीर्णानि वा विमानानि तानि शक्रस्यैवाऽऽभाव्यानि, यानि पुनरुत्तरार्द्ध तानि सर्वाण्यपि द्वितीयकल्पाधिपतेः॥
अथ यानि मध्यमश्रेण्यां तानि कस्याऽऽभवन्ति? इत्याह[भा.६७३] साधारण आवलिया, मज्झम्मि अवद्धचंदकप्पाणं ।
अद्धंच परक्खित्ते, तेसिं अद्धं च सक्खित्ते । वृ- 'अपार्द्धचन्द्रकल्पयोः' अर्द्धचन्द्राकारयोः सौधर्मेशानकल्पयोः पूर्वा-ऽपरायतायां मध्यमश्रेण्यां या विमानानामावलिका सा साधारणा शक्रेशानयोः । किमुक्तं भवति ?-तस्यां मध्यमश्रेण्यांपूर्वस्यामपरस्यां च दिशित्रयोदशस्वपि प्रस्तटेषु यानि विमानानि तानि कानिचित् शक्रस्य कानिचिदीशानस्याऽऽभाव्यानि । तत्र यानि वृत्ताकाराणि तानि सर्वाण्यपि शक्रस्यैव, यानि पुनस्त्र्यस्राणि चतुरस्राणि वा तान्येकं शक्रस्यैकमीशानस्येत्येवमुभयोरपि साधारणानि । तथा चोक्तम्
जे दक्खिणेण इंदा, दाहिणओ आवली भवे तेसिं ।
जे पुन उत्तरइंदा, उत्तरओ आवली तसिं ।। पुब्वेण पच्छिमेण य, जे वट्टा ते विदाहिणल्लस्स ।
तंस चउरंसगा पुन, सामना हुँति दोण्हं पि ।। तेषां च मध्यमश्रेणिगतानां विमानानामर्द्ध 'स्वक्षेत्रे' स्वस्वकल्पसीमनि प्रतिष्ठितम्, तदपरमर्द्धं 'परक्षेत्रे' अपरकल्पसीमनीति ।। अथ शक्रमुद्दिश्य क्षेत्रावग्रहप्रमाणमाह[भा.६७४] सेढीइ दाहिणेणं, जा लोगो उड्ड मो सकविमाणा।
__ हेट्ठा वि य लोगंतो, खित्तं सोहम्परायस्स ।। वृ. 'सौधर्मराजस्य' सौधर्मकल्पाधिपतेस्तावत् क्षेत्रमाधिपत्यविषयभूतम्-तिर्यग्दिशमधिकृत्य 'श्रेण्याः'पूर्वोक्तायाः 'दक्षिणेन' दक्षिणस्यां दिशि यावद् लोकः' इति तिर्यग्लोकपर्यन्तः,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only