________________
१७४
बृहत्कल्प-छेदसूत्रम् -१श्रुतस्कन्धस्य सप्तमम् अवग्रहप्रतिमानामकमध्ययनम् । अथ कतिविधोऽयमवग्रहः ? उच्यते[भा.६६९] देविंद-राय-गहवइउग्गहो सागारिए असाहम्मी ।
पंचविहम्मि पविए, नायव्यो जो जहिं कमइ ॥ वृ- देवेन्द्रः-शक्र ईशानो वा, स यावतः क्षेत्रस्य प्रभवति तावान् देवेन्द्रावग्रहः । राजाचक्रवर्तिप्रभृतिको महर्द्धिकः पृथ्वीपति, स यावतः षट्खण्डभरतादेः क्षेत्रस्य प्रभुत्वमनुभवति तावानाजावग्रहः ।गृहपति-सामान्यमण्डलाधिपति, तस्याप्याधिपत्यविषयभूतं यद्भूमिखण्ड सगृहपत्यवग्रहःसागारिक:-शय्यातरः, तस्य सत्तायांयद् गृह-पाटकादिकं स सागारिकावग्रहः। साधर्मिकाः-समानधर्माणः साधवः, तेषां सम्बन्धि सक्रोशयोजनादिकं यद् आभाव्यं क्षेत्रं स साधर्मिकावग्रहः । एष च पञ्चविधोऽवग्रहः । एतस्मिन् पञ्चविधेऽवग्रहे वक्ष्यमाणभेदैः प्ररूपिते सति ज्ञातव्यो विधिरित्युपस्कारः। यः यत्र देवेन्द्रादौ ‘क्रमते' अवतरति सतत्रावतारणीय इति सङ्गहगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुरमीषां पञ्चानां मध्ये कः कस्माद् बलीयान् ? इति जिज्ञासायां तावदिदमाह[मा.६७०] हेडिल्ला उवरिल्लेहि बाहिया न उ लहंति पाहन्नं ।
पुव्वाणुनाऽभिनवं, च चउसु भय पच्छिमेऽमिनवा ।। वृ-'अधस्तनाः' देवेन्द्रावग्रहादयः ‘उपरितनैः' राजावग्रहादिभिर्यथाक्रमंबाधिताः, अत एव नतु' नैव लभन्ते 'प्राधान्यम्' उत्तमत्वम् । किमुक्तं भवति ?-राजावग्रहे राजैव प्रभवतिन देवेन्द्रः, ततो देवेन्द्रेणानुज्ञातेऽप्यवग्रहे यदि राजा नानुजानते तदा न कल्पते तदवग्रहे स्थातुम्; अथानुमतं गृहपतिना स्वभूमिखण्डेऽवस्थानं परं न सागारिकेण स्वावग्रहे, ततोऽपि न कल्पते वस्तुम् अथानुज्ञातः सागारिकेण स्वावग्रहः परं न साधर्मिकैः, तथापि न कल्पते इति; एवमुपरितनैरधस्तना बाध्यन्ते । तथा पूर्वामनुज्ञामभिनवां च चतुर्ववग्रहेषु 'भज' विकल्पय, केषाञ्चित् साधूनां पूर्वानुज्ञा तदपरेषामभिनवेति भजना कार्येत्यर्थः । अथ केयं पूर्वानुज्ञा? का वाऽभिनवानुज्ञा? इति, उच्यते-इह योऽवग्रहः पुरातनसाधुभिरनुज्ञापितः स यत् पाश्चात्यैरेवमेव परिभुज्यते न भूयोऽनुज्ञाप्यतेसा पूर्वानुज्ञा । यथा-चिरन्तनसाधुभिर्देवेन्द्रो यदवग्रहमनुज्ञापितः सैव पूर्वानुज्ञा साम्प्रतकालीनसाधूनामप्यनुवर्तते न पुनर्भूयोऽप्यनुज्ञाप्यते । अभिनवानुज्ञानाम यदा किलान्यो देवेन्द्रः समुत्पद्यते तदा तत्कालवर्तिभि साधुभिर्यदसावभिनवोत्पन्नतयाऽवग्रहमनुज्ञाप्यते सा तेषांसाधूनामभिनवानुज्ञा तदन्येषांतुपूर्वानुज्ञैव । राजावग्रहऽपि यो यदा चक्रवर्ती समुत्पद्यते स तत्कालवर्तिभि साधुभिर्यदनुज्ञाप्यते सा तेषामभिनवानुज्ञा, तदपरेषां पूर्वानुज्ञा । एवं शेषनृपति-गृहपतीनामपि पूर्वा-ऽभिनवानुज्ञे भावनीये । सागारिकोऽपि प्रथमत उपागतः साधुभिर्यदुपाश्रयमनुज्ञाप्यते सा तेषामभिनवानुज्ञा । तेषु साधुषु तत्र स्थितेषु यदन्ये साधवः समागत्य तदनुज्ञापितमवग्रहं परिभुञ्जते सा पूर्वानुज्ञा । तदेवं चतुर्बवग्रहेषु पूर्वा-ऽभिनवानुज्ञयोजना भाविता । तथा पश्चिमे साधर्मिकावग्रहेऽभिनवानुज्ञैव भवतिन पूर्वानुज्ञा । तथाहि-यो यदाऽवग्रहार्थं साधर्मिकमुपसम्पद्यते स सर्वोऽपि तदानीं तमनुज्ञाप्यैवावतिष्ठते नान्यथेत्यभिनवानुज्ञैवैका ।। अथामीषां पञ्चानामपि भेदानाह
[मा.६७१] दब्बाई एक्केको, चउहा कित्तं तु तत्थ पाहन्ने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org