________________
पीठिका - [भा. ६५४ ]
१७१
इति पर्यन्तः प्रायः स एव पात्रस्यापि द्रष्टवयः । यस्तु विशेषः स उपरिष्टाद् दर्शयिष्यते ॥ सम्प्रति प्रतिमाचतुष्कं विभावयिषुराह
भा. ( ६५५ ]
उद्दि तिगेगयरं, पेहा पुन दु एरिसं भणइ । दोहेयरं संग, वाहयई वारएणं तु ॥
वृ-त्रिकस्य जघन्यादित्रयस्यैकतरं यद् गुरुसमक्षं प्रतिज्ञातं तदेव याच्यमानमुद्दिष्टपात्रमिति प्रथमा । प्रेक्षापात्रं पुनः 'दृष्ट्वा' अवलोक्य यद् 'ईशं मम प्रयच्छ' इति भणति तत् प्रेक्षापूर्वकं याच्यमानत्वात् प्रेक्षापातरमिति द्वितीया । अथ तृतीया-तस्याश्च स्वरूपमाचाराङ्गे द्वितीयश्रुतस्कन्धे षष्ठाध्ययने प्रथमोद्देशके इत्थमभिहितम् अहावरा तच्चा पडिमा से भिक्खू वा भिक्खुणी वा से जं पुन पायं जाणेज्जा, तं जहा - संगइयं वा वेजयंतियं वा । अथ किमिदं सङ्गतिकम् ? किंवा वैजयन्तिकम्? इत्याह- "दोण्हेगयरमित्यादि । इह कस्यचिगारिणो द्वे पात्रे, स च तयोरेकतरं दिने दिने वारकेण वाहयति, तत्र यस्मिन् दिवसे यद् वाह्यते तत् सङ्गतिकमभिधीयते, इतरद् वैजयन्तिकम् । तयोरेकतरं यदभिग्रहविशेषेण गवेष्यते सा तृतीया प्रतिमा ||
चतुर्थी प्रतिपादयति
[भा. ६५६ ] दव्वाइ दव्व हीनाहियं तु अमुगं च मे न घेत्तव्वं । दोहि वि भावनिसिद्धं, तमुज्झिओभट्ठऽणोभङ्कं ॥
वृ- उज्झितं चतुर्धा, द्रव्य क्षेत्र -काल- भावोज्झितभेदात् । तत्र द्रव्योज्झितं यथाकेनचिदगारिणा प्रतिज्ञातम् 'इयप्रमाणाद्धीनाधिकंपात्रममुकं वा कमढक प्रतिग्रहादिकं मया न ग्रहीतव्यम्' तदेव केनचिदुपनीतम्, ततः प्रागुक्तयुक्त्या द्वाभ्यामपि भावतो निसृष्टं तद् अवभाषितमनवभाषितं वा दीयमानं द्रव्योज्झितम् | क्षेत्रोज्झितमाह
[ भा. ६५७ ] अमुइच्चगं न धारे, उवनीयं तं च केणई तस्स । जं वुझे भरहाई, सदेस बहुपायदेसे वा ॥
वृ- अमुकदेशोद्भवं पात्रं न धारयामि, तदेव च केनचिदुपनीतम्, तद् उभाभ्यामपि पूर्वोक्तहेतोः परित्यक्तं क्षेत्रोज्झितम् । यद्वा पात्रमुज्झेयुः 'भरतादयः ' भरतः नटः, आदिशब्दात् चारणादिपरिग्रहः, स्वदेशं गताः सन्तो बहुपात्रदेशे वा तदपि क्षेत्रोज्झितम् ॥ कालोज्झितमाह[ भा. ६५८ ] दगदोद्धिगाइ जं पुव्वकाल जुग्गं तदन्नहि उज्झे । होहि व एस्सकाले, अजोग्गयणणागयं उज्झे ।।
वृ-दोद्धिगं तुम्बकम्, एकस्य जलस्य यद् म्रियते तुम्बकं तद् दकतुम्बकम्, आदिशब्दात् तक्रतुम्बकादि च यत् पूर्वस्मिन् ग्रीष्मादौ काले योग्यं तद् 'अन्यस्मिन्' वर्षाकालादावुज्झेत्, भविष्यति वा एष्यति कालेऽ योग्यम् अतोऽनागतमेव यदुज्झेत्, तदेतदुभयथाऽपि कालोज्झितं ज्ञातव्यम् ॥ भावोज्झितमाह
[भा. ६५९ ]
लद्धूण अन्नपाएष पोराणे सो उ देइ अन्नस्स ।
सो वि अनिच्छइ ताई, भावुज्झिय एवमाईयं ॥
वृ- लब्ध्वा अन्यानि-अबिनवानि पात्राणि पुराणानि स गृही अन्यस्य कस्यचिद् ददाति सोऽपि च " तानि दीयमानान्यपि यदा नेच्छति तदा एवमादिकं भावोज्झितं द्रष्टव्यम् ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International