________________
१७२
बृहत्कल्प-छेदसूत्रम् -१. उक्ताश्चतस्रोऽपि प्रतिमाः । अथ पात्रस्यैव विशेषविधिं बिभणिषुराह[भा.६६०] ओभासणा य पुच्छा, दिटे रिक्के मुहे वहंते य।
संसट्टे उक्खित्ते, सुक्के अपगासे दणं ।। वृ- पात्रस्योत्पादनायामवभाषणं कर्तव्यम् । तत्र "पुच्छत्ति शिष्यः पृच्छति-किं दृष्टं पात्रं प्रशस्यम्? उताद्दष्टम् ? ; एवं रिक्तमरिक्तवाकृतमुखमकृतमुखं वा वहमानकमवहमानकं वासंसृष्टमसंसृष्टं वा उत्क्षिप्तं निक्षिप्तं वा शुष्कमाई वाप्रकाशमुखमप्रकाशमुखं वा इत्यष्टौ पृच्छाः। आसां निर्वचनं स्वयमेव सूरिरभिधास्यति । तथा “दलूणं"ति 'दृष्ट्वा चक्षुषा निरीक्ष्य पात्रं यदि निर्दोषं तदा गृह्णाति ॥
अथैनामेव गाथां विवरीषुः प्रथमद्वितीयपृच्छयोरेकगाथया परिहारमाह[भा.६६१] दिट्ठमदिढे दिटुं, खमतरमियरे न दिस्सए काया।
दहिमाईहि अरिकं, वरंतु इयरे सिया पाणा ।। वृ-दृष्टा-ऽदृष्टयोः पात्रयोर्मध्ये दृष्टं क्षमतरम्, क्षमशब्द इह युक्तार्थ, ततश्च क्षमतरम्अष्टादतिशयेन ग्रहीतुं युक्तम् । कुतः ? इत्याह-'इतरस्मिन्' अद्दष्टे “न दीसए'"त्ति प्राकृतत्वादेकवचनम् न दृश्यन्ते 'कायाः पृथिव्यादयः । तथा दध्यादिभिरिति आदिग्रहणाद् मोदकादिपरिग्रहः तैः ‘अरिक्त' पूर्णवरम्, 'इतरस्मिन्' रिक्ते 'स्यु' भवेयुः कदाचित् 'प्राणाः' कुन्थुप्रभृतयो जीवाः । यदि पुनर्न तत्र प्राणसम्भवस्तदा तदपि सम्यगुपयुज्य गृह्णतां न दोषः। अथ कृतमुखा-ऽकृतमुखयोः किं कृतमुखं ग्राह्यम् ? उताकृतमुखम् ? उच्यते[भा.६६२] अकयमुहे दुप्पस्सा, बीयाई छेयणाइ दोसा वा ।
____ कुंथूमादवहंते, फासुवहंतं अओ धन्नं ।। वृ-अकृतमुखे भाजने 'दुर्दर्शा' दुःप्रत्युपेक्षा बीजादयोजीवाः, तत्र बीजानि तदुद्भवानि, आदिशब्दात् त्रसादिपरिग्रहः, छेदन-भेदनादयो वा दोषास्तत्र भवेयुः, यत एवं ततो अकृतमुखं परिहर्त्तव्यम् । अथ वहमानका-ऽवहमानकयोः कतरत् श्रेष्ठम् ? इत्याह-कुन्थ्वादयः सत्त्वा अवहमानके प्रायः सम्भवन्ति । अथ प्राशुकेन वस्त्रादिना वहमानक-व्याप्रियमाणं यत् यत् पात्रं धनाय हितमिति ‘धन्यं संयमधनोपकारकमित्यर्थः ॥अथ संसृष्टादि पृच्छात्रयं प्रतिविधत्ते[भा.६६३] एमेव य संसहूं, फासुअ अफ्फासुएण पडिकुटुं ।
उक्खित्तं च खमतरं, जंचोल्लं फासुदव्वेणं ॥ वृ-'एवमेव' यथा वहमानकंतथा संसृष्टमपि।यत्प्राशुकेन भक्तादिनासंसृष्टं-खरण्टितं तत् प्रशस्यम्, अप्राशुकेन पुनः संसृष्टं 'प्रतिक्रुष्टं' निषिद्धम् । उत्क्षिप्त-निक्षिप्तयोर्मध्ये यद् आत्मप्रयोगेणैव गृहिणा पात्रमुक्षिप्तं तद् निक्षिप्तात् 'क्षमतरं युक्ततरम् । यच्चाई प्राशुकद्रव्येण तक्रादिना तत्पात्रं श्रेयः,अर्थादापन्नम्-अप्राशुकेणार्द्र परिहार्यम्।। अथ किं प्रकाशमुखंगृह्यताम्? अप्रकाशमुखं वा? उच्यते
[भा.६६४/१] जं होइ पगासमुहं, जोग्गयरं तंतु अप्पगासाओ।
वृ-यद्भवति प्रकाशमुखंतत्तु योग्यतरं' संयमा-ऽऽत्मविराधनाया अभावा विशेषेण योग्यम् ‘अप्रकाशाद्' अप्रकाशमुखभाजनात् । इत्थं पात्रस्य प्रशस्या-ऽप्रशस्यरूपतामुपवर्ण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org