________________
१७०
बृहत्कल्प-छेदसूत्रम् .१. वृ-विपर्यस्तेन ग्रहणे करणे वा चतुर्लघुकाः, उपलक्षणत्वाद् लघुमास-रात्रिन्दिवपञ्चके अपि । इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्मोत्कृष्टमेव गृह्णाति चतुर्लघु, सपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु; यदा यथाकृतं योगेकृतेऽपिनलभ्यतेतदाऽल्पपरकर्मगवेषणीयम्, तस्योत्पादनाय निर्गतः प्रथमत एवसपरिकर्म गृह्णाति चतुर्लघु, इति त्रीणि चतुर्लधुकानि; एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि; जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिन्दिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तमुक्तंतथोत्कृष्टादीनामपिपरस्परंविपर्यस्तग्रहणेप्रायश्चित्तमवसातव्यम्। तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृह्णातिमासिकम्, जघन्यं टोप्परिकादि गृह्णातिपञ्चकम् मध्यमस्य निर्गत उत्कृष्टं गृह्णाति मासिकम् । तदेवं विपर्यस्तग्रहणे प्रायश्चित्तमुक्तम्, सम्प्रति विपर्यस्तकरणेऽभिधीयते-उत्कृष्टं भङकत्वा मध्यमं करोति मासिकम्, जघन्यं करोति पञ्चकम्; मध्यमे संयोज्योत्कृष्टं भक्त्वा मध्यमं करोति मासिकम्, जघन्यं करोति पञ्चकम्: मध्यमे संयोज्योत्कृष्टं करोति चतुर्लघु, तदेव भक्त्वा जघन्यं करोति पञ्चकम्; मध्यमे संयोज्योत्कृष्टं करोति चतुर्लघु, तदेव भक्त्वा जघन्यं करोति पञ्चकम्; जघन्ये संयोज्योत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासिकम्; आज्ञादयश्च दोषाः।
विराधना च द्विविधा-संयमे आत्मनि च । तथा चाह-पात्रस्य च्छेदनं भेदनं वा कुर्वत आत्मविराधना परिताप-महादुःखादिका, संयमविराधना तुतद्गता घुणादयो विनाशमश्नुवते। ततोया 'यस्यां संयमविराधनायामात्मविराधनायांवाआरोपणाभणिता सातस्यामभिधातव्या। तत्रात्मविराधनायां सामान्यतश्चतुर्गुरु, संयमविराधनायां “छक्काय चउसु लहुगा" इत्यादिका कायनिष्पना । यतएवं ततो नविधेयं विपर्यस्तकरणम् ।।अथकतिभिः प्रतिमाभि पात्रं गवेषणीयम् ? उच्यते[भा.६५४] उद्दिसिय पेह संगय, उज्झियधम्मे चउत्थए होइ ।
सब्वे जहन्न एक्को, उस्सग्गाई जयं पुच्छे ।। वृ-उद्दिष्टपात्रं प्रेक्षापात्रंसङ्गतिकपात्रमुज्झितधर्मकंचचतुर्थम् इति चतस्र पात्रगवेषणायां प्रतिमाः । गच्छवासिनः प्रतिमाचतुष्टयेनापि पात्रं गृह्णन्ति, जिनकल्पिकानामधस्तनाभ्यां द्वाभ्यामग्रहणमुपरितनयोईयोरेकतरस्यामभिग्रहः । अथ ग्रन्थगौरवमयादतिदिशन्नाह-"सव्वे जहन्न एको"त्ति "यद यस्य नास्ति वस्त्र इत्यारभ्य सर्वेवा गीतार्था मिश्रा वा जघन्यत एको गीतार्थ" इतिपर्यन्तं यथा वस्त्रविषयेभावितंतथा पात्रेऽपिसर्वं तदवस्थमेवभावनीयम, नवरंपात्राभिलापः कर्तव्यः । “उस्सग्गाइ"तिकायोत्सर्गादिकं “आवाससोहिअखलंत समग उस्सग्ग०" इत्यादिगाथोक्तं सप्रायश्चित्तं तथैव वक्तव्यम् । “जयं पुच्छे"ति यतमानः पूर्वोक्तां यतनां कुर्वन् पृच्छेत् । किमुक्तं भवति ? श्रावकेषु नावभाषितव्यम्, किं तर्हि ? भावितकुलेषु, तत्रापि पात्रे दर्शित 'कस्येदम्? किमासीत् ? क्व चाऽऽसीत् ? किं भविष्यति?' इति पृच्छाचतुष्टयं तथैव कर्तव्यम्। किंबहुना ? य एव वस्त्रस्य विधिः
“एवं तु गविडेसुं, आयरिया दिति जस्स जं नत्थि । समभागेसु कएसुव, जहरायणिया भवे बिइओ ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org