________________
१६९
पीठिका - [भा. ६४८]
यथावदालोच्य च वस्त्रणि विधिवद् दर्शयति, तत आचार्या यस्य साधोर्यद् घन्यं मध्यममुत्कृष्टं वा वस्त्र नास्ति तस्मै तद् ददतीति प्रथमः प्रकारः । पश्चार्धेन द्वितीयमाह समेषु तुल्येषु भागेषु कृतेषु, साधूनां सङ्ख्यामनुमाय समांशतया वस्त्रेषु विभक्तेष्विति भावः । वाशब्दः प्रकारान्तरद्योतने । 'यथारत्नाधिकं' यो यो रत्नाधिकस्तस्मै तस्मै प्रथमं दीयते इत्ययं भवेद् द्वितीयो दानप्रकार इति ।। उक्तो वस्त्रकल्पिकः । सम्प्रति पात्रमिति पात्रकल्पिकद्वारम्, अत्रापि[भा. ६४९] अपपत्ते अकहित्ता, अणहिगयऽ परिच्छणे य चउगुरुगा । दोहि गुरु तवगुरुगा, कालगुरू दोहि वी लहुगा ।।
वृ- इयं गाथा तथैव द्रष्टव्या । नवरमिह सूत्रमाचारान्तर्गतं पात्रैषणाध्ययनम्, तत्राप्राप्ते यदि पात्रानयनाय प्रेषयति तदा प्रायश्चित्तं चत्वारो गुरुकाः 'द्वाभ्यामपि गुरवः' तपसा कालेन च । अथ सूत्रं प्राप्तः परं नाद्यापि तस्यार्थ कथितस्तदा चत्वारो लघुकास्तपसा गुरवः । अथ कथितोऽर्थ परं नाद्यापि सम्यगधिगतः तदाऽपि चत्वारो लघुकाः कालेन गुरवः । अथाधिगतोऽर्थः श्रद्धानविषयीकृतश्च परं नाद्यापि परीक्षितः तदाऽपि चतुर्लघवः तपसा कालेन च लघुकाः । अतः सूत्रं पाठयित्वा तस्यार्थं कथयित्वा सम्यगधिगते श्रद्धिते चार्थे पात्राय परीक्ष्य प्रेषणीय इति ॥
तच्च पात्रं चतुर्विधम्, तद्यथा
[ भा. ६५० ] नाम ठवमा दविए, भावम्मि चउव्विहं भवे पायं । एसो खलु पायस्सा, निक्खेवो चउव्विहो होइ ॥
वृ- नामपात्रं स्थापनापात्रं द्रव्यपात्रं भावपात्रमिति चतुर्विधं पात्रम् । एष खलु पात्रस्य निक्षेपश्चतुर्विदो भवति ।। तत्र नाम-स्थापने सुगमत्वादनाद्दत्य द्रव्य-भावपात्रे प्रतिपादयति[भा. ६५१] दव्वे तिविहं एगिंदि-विगल-पंचिदिएहिं निफन्नं ।
भावे आया पत्तं, जो सीलंगाण आहारो ॥
वृ-द्रव्यविषयं त्रिविधं पात्रम्, तद्यथा-एकेन्द्रियनिष्पन्नं विकलेन्द्रियनिष्पन्नं पञ्चेन्द्रियनिष्पन्नं च। एकेन्द्रियनिष्पन्नमलाबुकादि, विकलेन्द्रियनिष्पन्नं शुक्ति-शङ्खादि, पञ्चेन्द्रियनिष्पन्नं कुतुपदन्त-शृङ्गपात्रादि । 'भावे' भावविषयं पात्रमात्मा । किं सर्व एव ? न इत्याह- यः पूर्वोक्तानाम् अष्टादशसहस्रसङ्ख्यानां शीलाङ्गानाम् 'आधारः' आश्यः स आत्मा साधूनां सम्बन्धी भावपात्रमुच्यते, ‘“पात्रंभाजनमाधारः” इति पर्यायवचनत्वात् । अत्र पुनर्भावपात्रोपयोगिना द्रव्यपात्रेणाधिकारः ।। तदपि त्रिविधम्
[भा. ६५२] लाउय दारुय मट्टिय, तिविहं उक्कोस मज्झिम जहन्नं । एक्क्कं पुण तिविहं, अहागडऽप्पं- सपरिकम्मं ॥
वृ- अलाबुमयं दारुमयं मृत्तिकामयम् । पुनरेकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यं च । उत्कृष्टं प्रतिग्रहः, मध्यमं मात्रकम्, जघन्यं टोप्परिकादि । एकैकं पुनस्त्रीधा-यथाकृतमल्पपरिकर्म • सपरिकर्म च ॥ अत्र वैपरीत्यकरणे प्रायश्चित्तमाह
[भा. ६५३ ] वोच्चत्थे चउलहुआ, आणाइ विराधनाय दुविहा उ । छेयण-भेयणकरगे, जा जहि आरोवणा भणिया ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org