________________
१६८
बृहत्कल्प-छेदसूत्रम् -१
व्याप्रियमाणे सति ततो ग्रहणं कर्त्तव्यम् ।। एतदेव भावयति[भा.६४५] निधनियंसणियं तिय, अन्नासइ पच्छकम्म-वहणाई।
अस्थि वहंते घिप्पइ, इयरय फुस-धोय-पगयाई ॥ वृ-यदि गृहस्थो ब्रूयात्-नित्यनिवसनीयमिदमासीत्, ततो यदि तस्यापरं नित्यनिवसनीयमस्तिततः कल्पते, यतोऽन्यस्य नित्यनिवसनीयस्य असति-अभावेपश्चात्कर्म-वहनादयो दोषा भवन्ति । पश्चाद्-विवक्षितवस्त्रग्रहणानन्तरं कर्म-अभिनववस्त्रस्य कारापणं पश्चात्कर्म, वहनं नामअव्याप्रियमाणं वस्त्रं यद् वहमानकं क्रियते, आदिग्रहणात् क्रीत-कृत-प्रामित्यादयो दोषाः, अतो यद्यपरं नित्यनिवसनीयमस्ति तदपि यदि वहमानं-व्याप्रियमाणं तदा गृह्यते । कुतः ? इत्याह-'इतरस्मिन' अवहमाने स्पर्शन-धौत-प्रकृतादयो दोषाः । इयमत्र भावना-यदवहमानं तस्योपभोगार्थमप्यकायेनोत्स्पर्शनं कुर्यात्, धावनं वा विदध्यात्, तस्य परिभोगप्रारम्भमुद्दिश्य प्रकरणं वा कुर्वीत, आदिग्रहणाद् धूपन-वासनादीनि वा विदधीत । यत एवं ततोऽन्यस्मिन् वहमाने ग्रहीतव्यम् ।। अपरिभुक्तमधिकृत्य किमेत भविष्यति? इति पृष्टः सन्नेवं ब्रूयात्[भा.६४६] होहिइव नियंसणियं, अन्नासइ गहण पच्छकम्माई।
अत्थि नवे विउ गिण्हइ, तहि तुल्ल पवाहणादोसा ॥ वृ-वाशब्दः परिभुक्तादपरिभुक्तस्यपक्षान्तरद्योतकः । भविष्यति नित्यनिवसनीयमेतत्' इत्यभिहिते यद्यपरं ताशं नास्ति ततोऽन्यस्य ताद्दशस्यासति ग्रहणे त एव पश्चात्कर्मादयो दोषाः । अथास्त्यन्यत् ताशं ततः कल्पते। तच्च तद्यपि नवमवहमानकंतथापि गृह्णाति, कुतः? इत्याह-तुल्यास्तत्रप्रवाहनादोषाः । किमुक्तं भवति? -यदि साधवो गृह्णन्ति न गृह्णन्ति वातथापि स गृही तयोरपरिभुक्तवस्त्रयोरेकतरमात्मप्रयोगेणैव प्रवाहयिष्यति, ततः साधूनां गृह्णतामपि न कश्चिद् दोष इति॥ [भा.६४७] एमेव मज्जणाई, पुच्छासुद्धं तु सब्बओ पेहे ।
मणिमाई दाइंति व, असिट्टे मा सेहुवादानं ।। वृ- ‘एवमेव' यथा नित्यनिवसनीयभिहितं तथा मञ्जनिक-क्षणोत्सविक-राजद्वारिकाण्यभिधातव्यानि ।यदा पृच्छया शुद्धमिति निर्धारितंतदा 'सर्वतः समन्तात् 'प्रेक्षेत' निभालयेत। प्रेक्ष्यमाणे च यदि 'मण्यादिकं' मणि-हिरण्य-सुवर्णादिकं किञ्चिदर्थजातमुपनिबद्धमुपलभ्यते तदा भण्यन्ते गृहस्थाः, यथा-निरीक्षध्वं समन्तादपि वस्त्रमिदम्, यदि निरीक्ष्यमाणैस्तैः स्वयमेव दृष्टं तदा लष्टम्, नो चेत्ततःसाधवः “दाइंति"त्ति दर्शयन्ति-इदं यौष्माकीणं किमप्युपनिबद्धमस्ति। आह एवमभिधीयमाने कथमधिकरणदोषो न भवति ? इति उच्यते- अल्पीयानेवायं दोषः, 'अशिष्टे' अकथितेपुनः शैक्षस्यावधावितुकामस्य तद्रव्यमुपादानं भवेत्, तद्गृहीत्वोअव्रजेदित्यर्थः; अगारिणो वा महान्तमुड्डाहं कुर्यु, यथा-वस्त्रेण सार्द्ध स्तेनितमस्मद्रव्यमेभि श्रमणैः । अत एवं प्रभूततरो दोषो मा भूदिति कथ्यते ।। उपसंहरबाह[भा.६४८] एवं तुगविद्येसुं, आयरिया दिति जस्स जं नस्थि ।
समभागेसु कएसु व, जहराइणिया भवे बीओ॥ वृ-'एवम्' उक्तप्रकारेणैव वस्त्रेषुगवेषितेषु यथासम्भवं लब्देषु च गुरूणां समीपमागम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org