________________
पीठिका - [ भा. ६४१]
१६७
वृ- 'तूर्यपति' नटमहत्तरस्तस्मिन् ददति भण्यते -माते 'कुशीलवानां' नटानां सत्कं भविष्यति । 'तेषु' कुशीलवेषु ददत्सु मा युष्माकं 'तूर्यिकस्य' तूर्यपतेर्भवेत् । 'एवमेव' तूर्यपतिकुशीलवोक्तप्रकारेणैव भोगिक-सेवकयोरपि वाच्यम् । यदि सेवको ददाति तदा वक्तव्यम् मा ते भोगिकस्यस्वामिनः स्वाधीनं भवेत् । भोगिके दातरि वाच्यम्-मा युष्माकं सेवकस्य सम्बन्धि भवतु । स्तेनस्वरूपमाह - स्तेनः पुनश्चतुर्विधः 'अयं' वक्ष्यमाणलक्षणः ॥ चातुर्विध्यमेवाह
[भा. ६४२ ] सग्गाम परम्गामे, सदेस परदेसे होइ उड्डाहो । मूलं छेओ छम्मासमेव गुरुगा य चत्तारि ॥
वृ-यस्मिन्ग्रामे साधवः स्थिताः सन्ति स स्वग्रामस्तस्मिन यः स्तैन्यं करोति स स्वग्रामस्तेनः । तदपेक्षयाऽपरस्मिन् ग्रामे स्तैन्यं कुर्वन् परग्रामस्तेनः । 'स्वदेशे' विवक्षितसाधुविहारविषयभूते विषये चौर्यं कुर्वाणः स्वदेशस्तेनः । तदपेक्षयाऽपरत्र देशे चौरिकां विदधानः परदेशस्तेनः । एतेषु गृह्णताम् 'उड्डाह: ' प्रवचनलाघवं भवति अहो ! अमी लुब्धशिरोमणयः तपस्विनः, यदेवं स्तेनाह्वतानि वस्त्राणि गृह्णाना राजविरुद्धमपि नापेक्षन्त इति । तेषुप्रायश्चिततमाह “मूलमित्यादि । स्वग्रामस्तेने गृह्णतां मूलम्, परग्रामस्तेने छेदः, स्वदेशस्तेने षण्मासा गुरुकाः, परदेशस्तेने चत्वारो गुरुका:, यथाक्रमं दूर-दूरतर-दूरतमस्तैन्यदोषत्वादिति भावः । तदेवं व्याख्याता “इत्थी पुरिस" इत्यादिद्वारगाथा ! तद्याख्याने च समर्थितं 'कस्य' इति पृच्छाद्वारम् । अथ 'किमासीत् ? ' इति पृच्छाद्वारमाह
[भा. ६४३]
एवं पुच्छासुद्धे, किं आसि इं तु जं तु परिभुत्तं ।
किं होहिइ त्ति अहतं, कत्थाऽऽसि अपुच्छणे लहुगा |
वृ- 'एवम्' अमुना प्रकारेण कस्येति पृच्छया शुद्धे-निर्दोषे निर्णीते सति यत् 'परिभुक्तं' भुक्तपूर्वं तत् पृच्छयते- 'किमिदं वस्त्रमासीत् ?' युष्माकं कीद्दशमुपयोगमागतवदित्यर्थः । यत् पुनः ‘अहतम्' अपरिमुक्तं तत् पृच्छयते-किमेतद् भविष्यति ? इति । “कत्थासि "त्तिक पेडाया मञ्जूषायामपरस्मिन् वा स्थाने इदमासीत् ? । तत्र यदि पेडायां तदा किं पृथिव्यादिषु कायेषु सा पेडा प्रतिष्ठिता ? अप्रतिष्ठिता वा? इत्याद्युपयुज्य वाच्यम् । कस्येदम् ? किमासीत् ? कुत्रासीत् ? किं भविष्यति ? इति 'अप्रच्छने' चतसृणामपि पृच्छानामकरणे प्रत्येकं चत्वारो लघुकाः ॥ तत्र किमासीद् ? इति पृष्टे ते गृहस्था अभिदध्युः
[मा. ६४४] निञ्च्चनियंसण मज्जण, छणूसवे रायदारिए चेव । सुत्तत्थजाणएणं, चउपरियट्टे तओ गहणं ॥
वृ- 'नित्यनिवसनं' नित्योपभोग्यमेतदासीत् । 'मज्जनिक' नाम स्नानानन्तरं यत् परिधीयते धौतवस्त्रमित्यर्थः तदासीत् । तथा क्षणः- प्रतिनियतः कौमुदी- शक्रमहादिकः, उत्सवः पुनरनियतो नामकरण- चूडाकरण- पाणिग्रहणादिकः; अथवा यत्र पक्कान्नविशेषः क्रियते स क्षणः, यत्र तु पक्वान्नं विनाऽपरो भक्तविशेषः स उत्सवः; क्षणे उत्सवे च परिभुज्यते यत् तत् णोत्सविकं तद्वाऽऽसीत् । तथा राजा-ऽमात्य-महत्तमादिभवनेषु गच्छद्भिर्यत् परिभुज्यते तद् राजद्वारिकं तद्वाऽऽसीत् । तत्रैवमुक्ते 'सूत्रार्थज्ञायकेन' गीतार्थेन चतुर्णां नित्यनिवसनीयादीनां परिवर्त्तानां - वस्त्रयुगलानां समाहारश्चतुःपरिवर्त्तम्, तत्र यादृशं परिवर्त्तमेकतरं वा वस्त्रं ददाति तादृशेऽस्मिन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org