________________
बृहत्कल्प-छेदसूत्रम् -१.
शोभनं 'मुणितं' परिज्ञातं युष्माभिर्यथाऽहं स्तेनः, को नामसाधून मुक्त्वाऽपरो ज्ञास्यति? तदह सत्यं स्तेन एव, न पुनः साधूनामर्थाय चोरयामि; अथवा किं यूयं पृच्छत ? यस्य वा तस्य वा भवतु यूयं गृहीत; यद्वा किमहं स्तेनो येन यूयं 'कस्य' इति पृच्छथ ? । अत्रापि समाधानविधान प्राग्वत् ।।अथ कस्येति पृच्छाप्रतिबद्धामेव द्वारान्तरप्रतिपादिकामिमां गाथामाह[भा.६३७] इत्थी पुरिस नपुंसग, धाई सुण्हा य होइ बोधव्वा ।
बाले अवुड्युगले, तालायर सेवए तेणे॥ वृ- स्त्री-पुरुष-नपुंसका धात्री स्नुषा च भवति बोद्धव्या, ततो बालयुगलं वृद्धयुगलं तालाभिश्चरन्तीति 'तालाचराः' नटाः, सेवकः स्तेनश्च प्रतीत इति द्वारगाथा समासार्थः॥
व्यासार्थं प्रतिद्वारं बिभणिषुराह[भा.६३८] तिविहित्थि तत्थ थेरिं, भणंति मा होञ्ज तुझ जायाणं ।
मज्झिम मा पइ-देवर, कन्नमा थेर-भाईणं ।। घृ-त्रिविधा स्त्री, तद्यथा-स्थविरामध्यमा कन्या च । तत्र स्थविरां दात्री भणन्ति-मा भूत् तव 'जाताना' पुत्राणां सत्कमिदं वस्त्रं तेन वयं कस्य इति पृच्छाम इति योजना सर्वत्र कर्तव्या। मध्यमा भण्यते-माभूत तव पति-देवरयोः सत्कम् । 'कन्यां' कुमारी भणन्ति-माभूत् तवस्थविरभ्रात्रोः सम्बन्धि । स्थविरः-पिता, भ्राता प्रतीतः ।। [भा.६३९] एमेव य पुरिसाण वि, पंडगऽपडिसेवि मानिआणं ते।
सामियकुलस्स धाई, सुण्हं जह मज्झिमा इत्थी॥ वृ-“एवमेव' यथा स्त्रीणां तथा पुरुषामपि स्थविर-मध्यम-तरुणभेदेस्त्रैविध्वं द्रष्टव्यम् । स्थविरः पुरुषो भण्यते-मा तव पुत्राणां कलत्रस्य वा सत्कं भवेत् । मध्यमोऽभिधीयते- मा भूत् तव भ्रातृणां पल्या वा सम्बन्धि । तरुण उच्यते-मा तव पितुर्मातुतॄणां वा स्वाधीनं भवेत् । 'पण्डकः' नपुंसकः “पडिसेवि"तिअकारप्रश्लेषाद् 'अप्रतिसेवी' तृतीयवेदोइयरहितोऽसङक्लिष्ट इत्यर्थः तस्य ग्रहीतुं कल्पते, स चाभिधीयते-मा ते 'निजानां सम्बन्धिनामिदं वस्त्रं भवेत् । यः पुनस्तृतीयवेदोदययुक्स्तस्यहस्ताद् गृह्णतांचत्वारोलघुकाः,आज्ञाभङ्गादयआत्म-परोभयसमुत्थाश्च दोषाः । या धात्री साऽभिधीयते-मा ते 'स्वामिकुलस्य' स्वामिनो गृहस्य सत्कं भवेत् । 'स्नुषां' वधूं भणन्ति यथा मध्यमा स्त्रीभणिता-माते पत्युर्देवरस्य वा सम्बन्धि भवेत् ।। [भा.६४०] दोण्हं पिअजुयलाणं, जहारिहं पुच्छिऊण जइ पहुणो। ..
गिण्हंति तओ तेसिं, पुच्छासुद्धे अणुन्नायं ।। वृ-इह द्वे युगले नाम बालयुगलं वृद्धयुगलं च । बालयुगलं बालो बालिका, वृद्धयुगलं वृद्धो वृद्धा च, तयोर्द्वयोरपि युगलयोः 'यथार्ह' यथायोग्यं स्वरूपं पृष्टा प्रत्ययिकपुरुषमुखेन च निश्चित्य यदि प्रभवस्ते बालादयस्ततो गृह्णन्ति तेषां हस्तात्, अथ न प्रभवस्तदा यः पितृपुत्रादि प्रभुस्तस्य वा पृच्छा-किंगृह्यतां न वा? इतितया शुद्धे-गृह्यतां निर्विकल्पमित्यनुमत्या निसन्दिग्धे कृते ग्रहणमनुज्ञातम् ।। [भा.६४१] तूरपइ दिति मा ते, कुसीलवे तेसु तूरिए मा ते।
तमेव भोगि सेवग, तेणो उ चउब्विहो इणमो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org