________________
१५९
पीठिका - [भा. ६१२] पुरातनं रिहरेयुः एतत् सर्वमपि क्षेत्रोज्झितम् ।। कालोज्झितमाह[भा.६१३] कासाइमाइ जंपुव्वकालजोग्गं तदननिहिं उज्झे ।
होहिइव तस्सकाले, अजोग्गयमणागयं उज्झे ।। • वृ-कषायेण रक्ता काषायी-गन्धकाषायिकेत्यर्थः, साहि स्वभावत एवातिशीतला ग्रीष्मर्तुभरएऽपि सकलसन्तापनिर्वापिणी शास्त्रेषु पठ्यते; यत उक्तम्
सरसो चंदनपंको, अग्घइ सरसा य गंधकासाई।
__ पाल सिरीस मल्लिय, पियाइँ काले निदाहम्भि।। वृ-आदिग्रहणेन शीतकालोचितवस्त्रपरिग्रहः । ततश्च काषाय्यादिकं यद् वस्त्र पूर्वस्मिन् ग्रीष्मादौ काले योग्यम्-उपयोगि तद् ‘अन्यस्मिन् वर्षाकालादौ ‘उज्झेत्' परित्यजेत् । इयमत्र भावना-गन्धकाषायिकादिकं शीतवीर्यवस्त्रं यत् केनापि श्रीमता ग्रीष्मे परिभुज्यते तदेव वर्षास्वनुपयोगित्वात् परिहियते, तत् तथापरिह्रियमाणं कालोज्झितम्, एवमुष्णवीर्यादिष्वपि भावना कार्या । अथ प्रकारान्तरेणैतदेवाह-“होहिइव" इत्यादि । भविष्यति वा गन्धकाषायिकादिकमेव एष्यति-आगामिनि काले-वर्षादावयोग्यमित्यभिसन्धाय 'अनागतं' वर्षाकालादर्वागेव यदुन्झेत् तदपि कालोज्झितम्॥अथ भावोज्झितमाह[भा.६१४] लखूण अन्न वत्थे, पोराणे सो उ देइ अन्नस्स ।
सो वि अनिच्छइ ताई, भावुज्झियमेवमाईयं ।। वृ-कोऽपि कस्यापि पार्वे 'लब्ध्वा' प्राप्य 'अन्यानि' अभिनवानि वस्त्राणि ततः स पुराणानि 'अन्यस्य कस्यचिद् ददाति, सोऽपिच 'तानि' दीयमानानिजीर्णानीति कृत्वा नेच्छति तदेतद् भावं-जीर्णतापर्यायमाश्रित्योज्झितं भावोज्झितमेवमादिकं ज्ञातव्यम् । तदेवं समर्थिता तुरीयाऽपि प्रतिमा ॥ “गच्छवासिनश्चतसृभि प्रतिमाभिर्वस्त्रं गवेषयन्ति" इत्युक्तम्, तत्र परः प्रश्नयति-कया सामाचार्या ते गवेषयन्ति? इत्युच्यते[भा.६१५] जंजस्स नस्थि वत्थं, सो उ निवेएइ तंपवत्तिस्स ।
सो वि गुरूणं साहइ, निवेइ वावारए वा वि।। वृ- 'यद्' वर्षाकल्पा-ऽन्तरकल्पादिकं यस्य साधोः 'नास्ति' न विद्यते वस्त्रं सः 'तद्' विवक्षितवस्त्रभावस्वरूपं निवेदयति 'प्रवर्तिनः' प्रवर्तकाभिधानस्य तृतीयपदस्थगीतार्थस्य । सहि सकलस्यापि गच्छ्य चिन्तानियुक्तः, सर्वेऽपि साधवः स्वं स्वंप्रयोजनंतस्याग्रे निवेदयन्ति। ततः सोऽपि प्रवर्तकः 'गुरूणाम्' आचार्याणां “साहइ” त्ति कथयति विज्ञपयतीत्यर्थः, यथाभट्टारकाः ! नास्त्यमुकस्य साधोरमुकं वस्त्रमिति । गच्छे चेयं सामाचारी-यदुताऽऽभिग्रहिका भवन्ति, आभिग्रहिकानाम अस्माभिः सकलस्यापिगच्छस्य वस्त्राणि वा पात्राणि वा पूरणीयानि अपरेण वा येन प्रयोजनम्' इति प्रतिपन्नाभिग्रहाः, तेषामाचार्यो निवेदयति, यथा-आर्या ! नास्त्यमुकस्यामुकं वस्त्रम् । तेऽपि अनुग्रहोऽयमस्माकम्' इत्यभिधाय स्वाभिग्रहपरिपालनाय स्वयमेवोत्पादयन्ति ।अथ नसन्त्याभिग्रहिकाः ततः सयदि वस्त्रर्थी साधुः स्वयमसमर्थ उत्पादयितुं ततोऽन्यं वस्त्रोत्पादनसमर्थंगुरवो व्यापारयेयुः, यथा-वस्त्राणि गवेषय। वाशब्दः पक्षान्तरद्योतने। 'अपि' सम्भावनायाम्।। तत्राभिग्रहिकेण व्यापारितेन वा केन विधिना वस्त्रमुत्पादयितव्यम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org