SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ बृहत्कल्प-छेदसूत्रम् -१वृ- 'उद्दिष्टं' गुरुसमक्ष प्रतिज्ञातं यद् जघन्य-मध्यमोत्कृष्टक्षणस्य त्रिकस्य एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियनिष्पत्रवस्त्रत्रिकस्यवाएकतरम्तदेवाष्टं सद्याच्यमानमुद्दिष्टमिति भाविता प्रथमा प्रतिमा । अथ द्वितीया भाव्यते-“पेहा पुण"त्ति प्रेक्षावस्त्रं पुनरिदम्, यथा-कोऽपि साधुः कस्याप्यगारिणः सत्कं वस्त्र दृष्ट्वा भणति-'याध्शमेतद् वस्त्र श्यते ताशमिदमेव वा मे प्रयच्छ' इति भणन्तदेव वस्त्र हस्तप्रान्तेन दर्शयति तत्प्रेक्षावस्त्रमिति द्वितीया प्रतिमा।सम्प्रति तृतीया भाव्यते-तस्याश्चान्तरीयोत्तरीयवस्त्रयुगलद्वारेण प्ररूपणा कर्तव्या। तथा च श्रीमद्आचाराङ्गे द्वितीये श्रुतस्कन्धे प्रथमेऽध्ययने प्रथमोद्देशके सूत्रमिदम् ___ अहावरा तच्चा पडिमा-से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा, तंजहाअंतरिञ्जगं वा उत्तरिज्जगं वा । अथ किमिदमन्तरीयम् ? किं वा उत्तरीयम् ? उच्यते-अन्तरीयं नाम निवसनं परिधानमित्यर्थः, उत्तरीयं नम प्रावरणं प्रच्छदपटीत्यर्थः; अथवाऽन्तरीयं यत् शय्यायामधस्तनंवस्त्रमास्तीर्यते, उत्तरीयंपुनर्यत्तदुपरिप्रस्तीर्यते । तस्मिन्नन्तरीयोत्तरीयवस्त्रयुगले 'अन्यस्मिन्' अभिनवे "नियत्य"त्तिनिवसितेपरिहिते प्रावृते वेत्यर्थः । द्वितीयव्याख्यानापेक्षया शय्याया उपरि “अत्थुरिइ"त्ति आस्तीर्णे 'इतरत्' पुराणमन्तरीयोत्तरीययुगलम् ‘अपनयन्' स्थापयितुमना इत्यत्रान्तरा यद् मार्यते तदन्तरावस्त्रमिति तृतीया प्रतिमा ।। सम्प्रति चतुर्थी व्याख्यानयति[मा.६११] दव्वाइ उज्झियं दव्वओ उ थूलं मए न घेत्तव्वं । दोहिवि भावनिसिटुं, तमुज्झिओभट्ठऽनोभट्ट ।। वृ-इहचतुर्थी प्रतिमा-उज्झितधर्मवस्त्रगवेषणीयम्, तच्च चतुर्द्धा-द्रव्योज्झितं आदिशब्दात् क्षेत्र-काल-भावोज्झितपरिग्रहः । तत्र द्रव्योज्झितं यथा-केनचिदगारिणा प्रतिज्ञातं मया स्थूलं वस्त्र न ग्रहीतव्यम्" अन्यदा तस्य तदेव केनापि वयस्यादिनोपढौकितम्, स च ब्रूते- 'पर्याप्त ममतेन, नाहं गृह्णामि' इतरोऽपि ब्रूते-'ममाप्यलमेतेन, नाहमात्मना दत्तं पुनः स्वीकरोमि' इत्येवं द्वाभ्यामपि दायक-ग्राहकाभ्यां भावतः-परमार्थतो निसृष्ट-परित्यक्तम्, अमुष्मिन् देश-काले यदि जिनकल्पिकादिसाधुरवभाषितमनवभाषितं वालभेत तद्रव्योज्झितं ज्ञातव्यम् । इह चावभाषितं याचितमनभाषितं याचां विना स्वयमेव ताभ्यां प्रदत्तम्।। अथ क्षेत्रोज्झितमाह[भा.६१२] अमुगिच्चगंन मुंजे, उवनीयं तंच केणई तस्स। जं वुझे कप्पडिया, सदेस बहुवत्थ देसे वा।। वृ-"अमुकिञ्चमं" अमुकदेशोद्भवं वस्त्रं 'नभुजे' न परिधान-प्रावरणोपभोगमानयामि, यथा- 'लाटविषयोद्भवं वस्त्रं मया न परिभोक्तव्यम्' इति केनचित् प्रतिज्ञा कृता भवेत्, अथ कदाचित् तस्य "तंच"त्ति चशब्दस्यावधारणार्थत्वात् तदेव 'उपनीतम् उपढौकितं केनचित्, ततः पूर्वोक्तनीत्या ताभ्यामुभाभ्यामपि परित्यक्तं क्षेत्रप्राधान्यविवक्षया क्षेत्रोज्झितं ज्ञातव्यम् । "जंबुझेकप्पडिय"त्तिवाशब्दः प्रकारान्तरोपदर्शने, प्रकारान्तरेण क्षेत्रोज्झितं प्ररूप्यते इत्यर्थः। यद् वस्त्रंजातम् 'उज्झेयुः परित्यजेयुः कार्पटिकाः स्वदेशं प्रति व्यावृत्याऽऽगच्छन्तः स्वदेशाद्वा देशान्तरं प्रस्थिता अपान्तराले बह्वपायामरण्यानीं मत्वा 'किं तस्कराणां हेतोर्निरर्थकं वस्त्रभारं वहामः ?' इति कृत्वा यदुन्झन्ति यद्वा 'बहुवस्त्रे' वस्त्रप्रचुरे देशेऽन्यत् सुन्दरतरं वस्त्रं लब्ध्वा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy