________________
१६०
उच्यते
बृहत्कल्प-छेदसूत्रम् -१
[भा. ६१६] भिक्खं चिय हिंडता, उप्पायंतऽ सइ बिइअ पढमासु । एवं पि अलब्धंते, संघाडेक्केक वावारे ॥
वृ-सूत्रपौरुषीमर्थपौरुषीं च कृत्वा भिक्षामेव हिण्डमाना वस्त्रमुत्पादयन्ति । अथ भिक्षामटन्तो न लभेरन् ततः 'असति' इत्यलाभे द्वितीयस्यां पौरुष्यामर्थग्रहणं हापयित्वा तस्यामप्यलाभे 'प्रथमायां' सूत्रपौरुष्यामुत्पादयन्ति । अधैकः सङ्घाटकः पर्यटन् न लभेत बहूनां वा साधूनामुत्पादनीयानि ततः को विधि ? इत्याह- 'एवमपि' सूत्रपौरुषीहापनेऽप्येकसङ्घाटकेनालभ्यमाने बहूनां चोत्पादयितव्ये सङ्घाटकमेकैकं व्यापारयेत्। तेऽपि तथैव याचन्ते “भिक्खं चिअ हिंडता " इत्यादि । अथ तथापि न प्राप्नुयुस्ततः “वृन्दसाध्यानि कार्याणि" इति वचनाद् वृन्देन पर्यटन्ति ॥
आह च
[भा.६१७ ] एवं पि अलब्धंते, मुत्तूण गणि तु सेसगा हिंडे । गुरुगम गुरुग ओहामऽभियोगो सेहहीला य ॥
वृ- 'एवमपि' बहुभि सङ्घाटकैरप्यलभ्यमाने 'गणिनम् ' आचार्यमेकं मुक्त्वा शेषाः सर्वेऽपि वृन्देन हिण्डन्ते । यदि गुरवः स्वयमेव पर्यटन्ति तदा तेषां गुरूणां गमने चत्वारो गुरुकाः । "ओहामि ''त्ति 'यद्यमी आचार्या अपि सन्त एवमितरभिक्षुवत् पर्यटन्ति नूनमेतेषामाचार्यत्वमपीद्दशमेव ' इति महती गुरूणामपभ्राजना भवेत् । तथा काचिदविरतिका सर्वाङ्गीणलावण्यश्रियाऽलङ्कृतमाचार्यमवलोक्य मदनपरवशा सती “अभियोग "त्ति कार्मणं कुर्यात् अन्यतीर्थिका वा आचार्याणां प्रतापमसहमाना विषप्रयोगं प्रयुञ्जीरन् । अवभाषितेषु वा वस्त्रेष्वलब्धेषु शैक्षाणामाचार्यविषया हीला स्यात्-द्दष्टा आचार्याणां लब्धि, स्वयमपि याचमानाश्चीवराण्यपि न लभन्ते । यस्मादेते दोषास्तस्मादाचार्यैर्न पर्यटनीयं शेषाः सर्वेऽपि पर्यटन्ति ||
[भा. ६१८] सव्वे वा गीयत्था, मीसा व जहन्न एक्कु गीयत्थो । इक्कस्स वि असईए, करिंति तो कप्पियं एक्कं ।।
वृ- ते च वृन्देन पर्यटन्तः सर्वेऽपि गीतार्था भवेयुः मिश्रा वा । मिश्रा नाम केचन गीतार्थाः केचनागीतार्थाः । तत्र यदि बहवो गीतार्था न प्राप्यन्ते तदा जघन्यत एको गीतार्थः सर्वेषामगीतार्थानामग्रणीभूय पर्यटति । अथ नास्त्याचार्यं मुक्त्वाऽपरः कोऽपि गीतार्थ तत एकस्यापि गीतार्थस्य 'असति' अभावेयः प्रगल्भः सलब्धिकश्च तमेकं वस्त्रैषणामुत्सर्गापवादसहितां कथयित्वा कल्पिकं कुर्वन्ति गुरव इति ॥ अथ तैः केन विधिना गन्तव्यम् ? उच्यते
[भा.६१९] आवाससोहि अखलंत समग उस्सग्ग दंडग न भूमी ! पुच्छा देवय लंभे, न किंपमाणं धुवं दाहि ।।
वृ- इह समयपरिभाषया कायिकी - संज्ञाव्युत्सर्जनमवश्यं क्रियत इति व्युत्पत्तेरावश्यकमभिधीयते, तस्य शोधि-शोधनं कार्यम्, वस्त्राणामत्पादनाय गतानां भविष्यति न वेति प्रथममेवाऽऽवश्यकं शोधनीयमित्यर्थः । " खलंत "त्ति उत्तिष्ठतां पादयोः शिरसि वा स्खलनं यथा न भवति तथोत्थातव्यम्; यद्वा गुरुवचनमस्खलद्भिः अविकुट्टयद्भिरुत्थातव्यम्। “समग' 'त्ति सर्वैरपि समकमुत्थानं कर्तव्यम्, नपुनरेके उत्थिताः प्रतीक्षन्ते अन्येऽद्याप्युपविष्टाः; अथवा समकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org