________________
पीठिका - [भा. ६०२ ]
वृ- अस्या व्याख्या प्राग्वत् उक्तः शय्याकल्पिकः । सम्प्रति वस्त्रकल्पिकमभिधित्सुराह[भा. ६०३] नामंठवणा वत्थं, दव्वे भावे य होइ नायव्वं । एसो खलु वत्थस्स उ, निक्खेवो चउव्विहो होइ ॥
वृ- वस्त्रं खलु चतुर्विधम् । तद्यथा-नामवस्त्रं स्थापनावस्त्रं द्रव्यवस्त्रं भाववस्त्र च । एष खलु वस्त्रस्य निक्षेपश्चतुर्विधो भवति ॥ तत्र नाम स्थापने प्रतीते, द्रव्यवस्त्रमाह[भा. ६०४] दव्वे तिविहं एगिंदि-विगल-पंचेंदिएहिं निप्पन्नं । सीलंगाइँ भावे, दव्वे पगयं तदट्ठाए ।
वृ- द्रव्यवस्त्रं त्रिविधम् । तद्यथा- एकेन्द्रियनिष्पन्नं विकलेन्द्रियनिष्पन्नं पञ्चेन्द्रियनिष्पन्नं च । तत्रैकेन्द्रियनिष्पन्नं कार्पासिकादि, विकलेन्द्रियनिष्पन्नं कौशेयकादि, पञ्चेन्द्रियनिष्पन्नमौर्णिकौष्ट्रिकादि । 'भावे' भाववस्त्रमष्टादश शीलाङ्गसहस्त्राणि । अथ कान्यष्टादश शीलाङ्गसहस्राणि ? इति चेद् उच्यते
करणे जोगे सण्णा, इंदिय भोमादि समणधम्मे य । सीलिंगसहस्साणं, एताउ भवे समुप्पत्ती ॥
१५३
अस्या अक्षरगमनिका - करणं त्रिविधम्, तद्यता- करणं कारापणमनुमोदनं च । त्रिविधो योगः-मनोयोगो वाग्योगः काययोगश्च संज्ञाश्चतस्रः, तद्यथा - आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा च । इन्द्रियाणि पञ्च तद्यथा श्रोत्रेन्द्रियं चक्षुरिन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं स्पर्शनेन्द्रियं च । ‘भोमादि'त्ति भौमः पृथिवीकायविषयः समारम्भः, आदिशब्दादप्कायसमारम्भस्तेजः कायसमारम्भो वायुकायसमारम्भो वनस्पतिकायसमारम्भो द्वीन्द्रियसमारम्भस्त्रीन्द्रियसमारम्भश्चतुरिन्द्रियसमारम्भः पञ्चेन्द्रियसमारम्भोऽजीवकायसमारम्भश्च । श्रमणधर्मोऽपि दशधाक्षान्तिर्मार्दवमार्जवमलोभता तपः सत्यं संयमस्त्यागोऽ किञ्चनता ब्रह्मचर्यं च । एतैः स्थानैरष्टादशानां शीलाङ्गसहस्राणामुत्पत्ति ॥ तद्यथा
न करेइ सयं साहू, मनसा आहारसन्नउवउत्तो । सोइंदियसंवरणो, पुढविजिए खंतिसंपन्नी ॥ न करेइ सयं साहू, मनसा आहारसन्नउवउत्तो । सोइंदियसंवरणो, पुढविजिए मद्दवपवन्नो ॥
एवं तावद् वक्तव्यं यावद्दशम्यां गाथायां "बंभचेरगए" इति । एते दश भङ्गाः पृथिवीकायसमारम्भपरिहारेण लब्धाः, एवमप्कायादिपरिहारेणापि प्रत्येकं दश दश लभ्यन्ते इतिसर्वसङ्कलनया जातं शतम् । एतच्च श्रोत्रेन्द्रियेण लब्धम्, एवं शेषैरपीन्द्रियैः प्रत्येकं शतं शतं लभ्यते इति जातानि पञ्च शतानि । एतानि चाहारसंज्ञोपयुक्तेन लब्धानि एवं शेषामिरपि संज्ञाभिः प्रत्येकं पञ्च शतानीति सर्वसङ्ख्यया जाते द्वे सहस्रे । एते च 'न करोति' इत्यनेन पदेन लब्धे, एवं "न कारवेइ" इत्यनेन "नो अनुमन्नइ" इत्यनेन च प्रत्येकं लभ्य (भ्ये) ते इति स्वमीलने जातानि षट् सहस्राणि । एतानि लब्धानि मनोयोगेन, एवं वाग्योगेन काययोगेनापीति सर्वसङ्ख्यया जातान्यष्टादश सहस्राणि ॥ एतैरष्टादशभिः शीलाङ्गसहस्रैर्नित्यप्रावृता साधवोऽवतिष्ठन्ते तत एतानि भाववस्त्रम् । “दव्वे पगय" मित्यादि । अत्र द्रव्यवस्त्रेणाधिकारः, यतस्तद् द्रव्यवस्त्रं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International