________________
१५२
बृहत्कल्प-छेदसूत्रम् -१
कारिता परिकर्मणा च विप्रमुक्ता सर्वस्यापि परिकर्मणः स्वत एवाग्रेप्रवर्त्तितत्वात् सा वसतिरल्पक्रिया वेदितव्या ॥ सम्प्रति यतनां दर्शयितुकाम इदमाह
[भा. ६०० ] हिट्ठिल्ला उवरिल्लाहि बाहिया न उ लभंति पाहनं । पुव्वाणुत्राऽभिनवं च चउसु भय पच्छिमाऽभिनवा ||
वृ- अधस्तन्य उपरितनीभिर्बाध्यन्ते, बाधिताश्च सत्यः 'न तु' नैव लभन्ते प्राधान्यम् । इयमत्र भावना-नवापि वसतयः क्रमेण स्थाप्यन्ते, तत्राप्यल्पक्रिया निर्दोषेति प्रथमम् । त्यथाअल्पक्रिया कालातिक्रान्ता उपस्थाना अभिक्रान्ता अनभिक्रान्ता वर्ज्या महावर्ज्या सावद्या महासावद्या च । अत्राधस्तनी अल्पक्रिया, अयांयद्यतिरिक्तं कालं तिष्ठति ततः सा कालातिक्रानतया बाध्यते, साकालातिक्रान्ता भवतीति भावः । कालातिक्रान्तामपि यदि प्रागभिहितस्वरूपां कालमर्यादां द्विगुणां द्विगुणामपरिहृत्योपागच्छन्ति ततः सा उपस्तानया बाध्यते, उपस्थाना सा भवतीति भावः । एवं यथासम्भवमुपयुज्य वक्तव्यम् । “पुव्वाणुन्न'' त्ति आसां च नवानां शय्यानां मध्ये पूर्वस्याः पूर्वस्याः अनुज्ञा वेदितव्या । किमुक्तं भवति ? -
नवानां शय्यानां मध्ये या पूर्वा अल्पक्रिया सा तावत् प्रथममनुज्ञाता, लेशतऽपि सावद्याभावात्; तस्या अभावे शेषाणां मध्ये कालातिक्रान्ता पूर्वा सा अनुज्ञाता, अल्पक्रियाया अलाभेसा आश्रयणीया इति भावः; तस्या अप्यलाभे शेषाणां पूर्वा उपस्थाना सा अनुज्ञाता; एवं या या पूर्वा सा सा अनुज्ञाता तावद् वक्तव्या यावत् सावद्या महासावद्यायाः पूर्वा सा अनुज्ञाता । एवं पूर्वस्याः पूर्वस्था अलाभे उत्तरस्या उत्तरस्या अनुज्ञा वेदितव्या । “अभिनवं च चउसु भय "त्ति चतसृषु वसतिषु अभिनवेति दोषः सम्बध्यते अभिनवं दोषं 'भज' विकल्पय, कदाचिद् भवति कदाचिन्न भवतीति जानीहीत्यर्थः । अत्रापीयं भावना-अनभिक्रान्तायामपरिमुक्तेति कृत्वा चिरकृतायामप्यभिनवदोषो भवति, वज्यादिषु पुनर्या परिभुक्तास्तासु नाभिनवदोषः, एषा भजना । "पच्छिमाऽभिनव "त्ति पश्चिमोनाम महासावद्योपाश्रयः तस्मिन्नभिनवकृते वा चिरकृते वा परिभुक्ते या अभिनवदोषा भवन्ति, एकपक्षनिर्धारणात्। एतैर्मूलगुणादि दोषैर्य परिहर्त्तुं जानाति स ग्रहणे कल्पिकः ॥
कथं पुनर्जानाति परिहर्तुम् ? इति चेद् अत आह
[ भा. ६०१] उग्गम-उप्पायण- एसणाहि सुद्धं गवेसए वसहिं । तिविहं तीहिं विसुद्धं, परिहर नवगेण भेदेणं ॥
वृ- उद्गमेनोत्पादनया एषणया शुद्धां वसतिं गवेषयति । तत्र त्रयाणां पदानामष्टौ भङ्गाः । तेषु च उपरितनेषु सप्तसु भङ्गेष्वशुद्धां परिहर्तुं यो जानाति स ग्रहणे कल्पिकः । कथम्भूतां वसतिमुद्गमादिशुद्धां गवेषयति ? इत्यत आह- 'त्रिविधां' खातादिभेदतस्त्रीप्रकारां तथा 'त्रिभिः ' मनसा वाचा कायेन च विशुद्धां गवेषयति । तथा खातादीस्तिस्रोऽपि वसतीरुद्गमाद्यशुद्धा नवकेन भेदेन परिहरति । तद्यथा-मनसा न गृह्णाति नापि ग्राहयति नापि गृह्णन्तमनुजानीते, एवं चा कायेन च वक्तव्यमिति ॥
[भा. ६०२] पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति । आलोयणमायरिये, आयरिओ विसोहिकारो से ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org