________________
१५४
बृहत्कल्प-छेदसूत्रम् - १.
'तदर्थाय' भाववस्त्राय भवति, भाववस्त्रस्योपग्रहं करोतीत्यर्थः । ततः प्रकृतमत्र द्रव्यवस्त्रेण ॥ [भा. ६०५ ] पुनरवि दव्वे तिविहं, जहन्नगं मज्झिमं च उक्कोसं । एक्केक्कं तत्थ तिहा, अहाकड-Sप्पं-सपरिकम्मं ।।
वृ-यद् द्रव्यवस्त्रमेकेन्द्रियादिनिष्पन्नतया त्रिविधमुक्तं तत् पुनरपि प्रत्येकं त्रिधा, तद्यथाजघन्यं मध्यममुत्कृष्टं च । तत्र कार्पासिकं जघन्यं मुखपोतिकादि, मध्यमं पटलकादि, उत्कृष्टं कल्पादि । एवं शेषे अपि कौशेयकादिके यथायोगं भावनीये । एतेषामेकैकं 'त्रिधा' त्रिप्रकारम्, तद्यथा-यथाकृतमल्पपरिकर्म सपरिकर्म च । एषामुत्पादने यथोक्तविध्यकरणे प्रायश्चित्तमाह[मा. ६०६ ] चाउम्मासुक्कोसे, मासिय मज्झे य पंच य जहन्ने । वोच्चत्थगहण करणे, तत्थ वि सट्ठाणपच्छित्तं ॥
वृ- ‘उत्कृष्टे' उत्कृष्टवस्त्रविषये विपर्यस्तग्रहणे - विपर्यासेन ग्रहणे प्रायश्चित्तं चतुर्मासम्, मध्यमे मासिकम्, जघन्ये पञ्च रात्रिन्दिवानि । इयमत्र भावना - उत्कृष्टस्य यथाकृतस्य वस्त्रस्योत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यद्यल्पपरिकर्मोत्कृष्टं गृह्णाति तदा तस्य प्रायश्चित्तं चतुर्लघु, यदा किल यथाकृतं योगे कृतेऽपि न लभ्यते तदाऽल्पपरिकर्म ग्रहीतव्यम् नान्यदा, अत्र तु विपर्यय इत्युक्तरूपं प्रायश्चित्तम् । अथोत्कृष्टमेवसपरिकर्म गृह्णाति तदाऽपि चतुर्लघु । अथ यथाकृतमुत्कृष्टं वस्त्र कृतेऽपि योगे न लब्धं तत उत्कृष्टस्याल्पपरिकर्मणो मार्गणं कर्त्तव्यमेव । तत्करणाय निर्गतस्तस्य योगमकृत्वा सपरिकर्मोत्कृष्टं वस्त्रमाददानस्य चतुर्लघु । एवमुत्कृष्टविषये त्रीणि चतुर्लघुकानि । तथा मध्यमस्य यथाकृतस्य वस्त्रस्योत्पादनाय निर्गतस्य योगमकृत्वाऽल्पपरिकर्म मध्यमं गृह्णाति मासलघु । अथ सपरिकर्म मध्यमं गृह्णाति तदाऽपि मासलघु । “यदा यथाकृतं न लभ्यते तदाऽल्पपरिकर्म मध्यमं याचनीयम्” इति वचनतो यथाकृतस्य योगे कृतेऽप्यलाभेऽल्पपरिकर्मण उत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यदि सपरिकर्म मध्यमं गृह्णाति तदाऽपि मासलघु । एवं मध्यमविषये त्रीणि मासिकानि । तथा जघन्यस्य यथाकृतस्योत्पादनाय निर्गतस्य योगमकृत्वाऽल्पपरिकर्म जघन् गृह्णाति तदा रात्रिन्दिवपञ्चकम्। अथ सपरिकर्म जघन्यमाददाति तदाऽपि पञ्चकम् | यदा तु योगे कृतेऽपि यथाकृतं न लभ्यते तदाऽल्पपरिकर्ममार्गयितव्यमिति तस्योत्पादनाय निर्गतस्तद्विषये योगमकृत्वा सपरिकर्म गृह्णानस्य पञ्चकम् । एवं जघन्यविषये त्रीणि पञ्चकानि ।
एतच्च प्रायश्चित्तमधिकृतविषये योगाकरणे । योगे तु कृते लाभाभावतस्तथाग्रहणेऽपि दोषाभावः। तथाहि-यथाकृतस्य निर्गतः तच्च योगे कृतेऽपि न लब्धं ततोऽल्पपरिकर्मापि गृह्णानः शुद्धः । अल्पपरिकर्मणो वा निर्गतस्तद्योगे कृतेऽप्यलभमानः सपरिकर्म गृह्णन् शुद्धः । न केवलमेतद् विपर्यस्तग्रहणे प्रायश्चित्तं किन्तूत्कृष्टादिविपरयस्तग्रहणे स्वस्थानमपि । तद्यथा- उत्कृष्टस्योत्पादनाय निर्गतो मध्यमं गृह्णाति मासिकम्, जघन्यं गृह्णाति रात्रिन्दिवपञ्चकम् मध्यमस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, जघन्यं गृह्णाति पञ्चकम्; जघन्यस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, मध्यमं गृह्णाति मासलघुः सर्वत्र चाऽऽज्ञादयो दोषाः । तदेवं ग्रहणे प्रायश्चित्तस्वस्थानमुक्तम् । एवं 'करणेऽपि' उत्कृष्टादिकरणेऽपि स्वस्थानप्रायश्चित्तमवसातव्यम् । तद्यथा- उत्कृष्टं वस्त्रं छित्त्वा सीवित्वा च मध्यमकं करोति मासलघु, जघन्यं करोति रात्रिन्दिवपञ्चकम्; मध्यमं छित्वा सीवित्वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org