SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -5 वृ- 'कायैः' पृथिवीकायादिभि सचित्तैर्मिश्रैश्च ससक्ते उपाश्रये तिष्ठतः प्रायश्चित्तं 'स्वस्थानं' स्वस्थाननिष्पन्नं भवति । द्यथा सचित्तैः पृथिवीकायादिभि संसक्ते चतुर्लघु, हरितैरनन्तैश्चतुर्गुरु, प्रत्येकबीजै रात्रिन्दिवपञ्चकं लघु, अननतबीजैर्गुरुकम्, मिश्रः पृथिव्यादिभिर्मासलघु, हरितैरनन्तैर्मिश्रैर्मासगुरु, बीजैः प्रत्येकैरनन्तैश्च मिश्रः सचित्तैरिव, त्रसकायैश्चत्वारो गुरुकाः । “सागारिय” इत्यादि पश्चिमार्द्धम् । निर्ग्रन्थानां पुरुषसंसक्ते उपाश्रये तिष्ठतां चत्वारो लघुकाः, स्त्रीसंसक्ते चत्वारो गुरुका- । निर्ग्रन्थीनां स्त्रीभिः संसक्ते चतुर्लघु, पुरुषसंसक्ते चतुर्गुरु । ये च यत्राऽऽज्ञाभङ्गादयो दोषास्ते च तत्र सप्रायश्चित्ता वक्तव्याः ॥ [ भा. ५९०] १५० गुरुगा बंभाचाए, आयाए चेव दंसणे लहुगा । आणादिणो विराधन, भवंति एक्केक्कगपयाओ ॥ वृ- 'ब्रह्मापाये' ब्रह्मप्रत्यवाये 'आत्मनि चैव' आत्मप्रत्यपाये 'गुरुकाः' चत्वारो गुरवः । 'दर्शने' दर्शनप्रत्यपाये चत्वारो लघवः । 'आज्ञादयश्च' आज्ञाभङ्गादयो विराधना एकैकपदाद् भवन्ति ज्ञातव्याः, द्विविधकरणोपघातादिषु सर्वेष्वपि पदेषु यथायोगमाज्ञाभङ्गादयो विराधनाः प्रायश्चित्ता योजनीया इत्यर्थः ॥ अथ के ब्रह्मप्रत्यवाया आत्मप्रत्यवाया दर्शनप्रत्यवाया वा ? तत आह [ भा. ५९१] तिरिय-मनुइत्थियातो, बंभावातो उ तिविह पडिमातो । अहिबिल-चलंतकुड्डादि एवमादी उ आयाए । वृ-यत्र तिर्यकिस्त्रयो मनुष्यस्त्रियो वा यदि वा यत्र 'त्रिविधाः प्रतिमाः ' तिर्यक्स्त्रीप्रतिमा मनुष्यस्त्रीप्रतिमा देवस्त्रीप्रतिमा वा सा 'ब्रह्मापाया' ब्रह्मप्रत्यपाया, तस्यां स्थितानां ब्रह्मव्रतविनाशसम्भवात् । यत्र पुनरहबिलानि चलन्ति चलानि कुड्यानि आदिशब्दाञ्चलवेलीधारणादिपरिग्रहः, एवमादिका 'आत्मनि' आत्मप्रत्यवाया || [भा. ५९२ ] आगाढमिच्छदिट्ठी, सव्वातिहि मरुग बहुजनट्ठाणा । पाडा य बहुविहा, एसा खलु दंसणावाया ॥ वृ तथा यत्राऽऽ गाढमिथ्याद्दष्टि, यत्र च सर्वेऽतिथयः समागच्छन्ति सङ्गमित्यर्थः, यत्र 'मरुकाः ' बटुकास्तिष्ठन्ति चट्टशाला इति भावः, यच्च बहूनामागन्तुकानां जनानां स्थानं देशिक कुटीत्यर्थः, यत्र च बहुविधाः पाषण्डाः, एषा एवंरूपा वसति खलु 'दर्शनापाया' दर्शनप्रत्यपाया || सम्प्रति शय्याविधिद्वारमाह [भा. ५९३] कालातिक्कंतोवट्ठाण अभिकंत अनभिकंता य । वज्राय महावज्जा, सावज्ज महऽ प्पकिरिया य ॥ वृ- शय्या नवप्रकारा भवन्ति, तद्यथा - कालातिक्रान्ता १ उपस्थापना २ अभिक्रान्ता ३ अनभिक्रान्ता ४ वर्ज्या ५ महावर्ज्या ६ सावद्या ७ महासावद्या ८ अल्पक्रिया ९ च ॥ तत्र कालातिक्रान्तादिषु प्रायश्चित्तविधिमाह [भा. ५९४] कालातीते लहुगो, चउरो लहुगा य चउसु ठाणेसु । गुरुगा तिसु जमलपया, अप्पकिरियाए सुद्धो उ ॥ वृ-ऋतुबद्धे काले कालातिक्रान्तं तिष्ठति मासलघु, वर्षाकाले चत्वारो लघवः । 'चतुर्षु For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy