________________
पीठिका - [भा. ५८४ ]
धूपिता अगुरुप्रभृतिभि, वासिता पटवास- कुसुमादिभि, 'उद्योतिता' अन्धकारेऽग्निकायेन 'कृतोश्योता, 'बलिकृता' यत्र संयतनिमित्तं बलिविधानं कृतम्, 'अवात्ता' नाम यत्र भूमिरुपलिप्ता, सिक्ता आवर्षणकरणतः, सम्मृष्टा सम्मार्जन्या संयतनिमित्तम् । एवमुत्तरगुणैः कृता वसतिर्विशोधिकोटिर्भवति ।। अत्रैव प्रायश्चित्तविधिमाह
[भा. ५८५] अप्फासुएण देसे, सव्वे वा दूमियादि चउलहुगा । अप्फासु धूमजोती, देसम्मि वि चउलहू होंति ।
वृ-यत्र देशतः सर्वतो वा अप्राशुकेन दूमितादि आदिशब्दात् समस्तान्यपि पदानि गृहीतानि तत्र तिष्ठतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । यत्र पुनरगुरुप्रभृतिभिर्धूपनमन्धकारेऽग्निकायेनोश्योतनं तत्र नियमादप्राशुकः- सचित्तोऽग्निकाय इति देशेऽपि चत्वारो लघुकाः किमुत सर्वतः ? [ भा. ५८६ ] सेसेसु फासुएणं, देसे लहु सव्वहिं भवे लहुगा । सम्पजण साह - कुसादि छिन्नमेत्तं तु सच्चित्तं ॥
वृ- 'शेषेषु' धूपितमुद्दयोतितं च मुक्त्वा अन्येषु दूमित-वासित-बलिकृता ऽवात्त सिक्तसम्मृष्टरूपेषु भेदेषु प्राशुकेन देशतः करणे मासलघु, सर्वतश्चत्वारो लघवः । तथा यद् मार्ज्यते तत्र सचित्तं शाखा-कुशादि च्छिन्नमात्रं तद यदि देशतः सर्वतो वा सम्मार्ज्यते तदा चतुर्लघु ॥ [भा. ५८७ ] मूलुत्तरचउभंगो, पढमे बीए य गुरुग सविसेसा । तइयम्मि होइ भयणा, अत्तट्टकडो चरम सुद्धो ॥
१४९
वृ-मूलगुणाः पृष्ठवंशादयः उत्तरगुणा वंशकादयः तेषु मूलोत्तरगुणेषु चतुर्भङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । मूलगुणा अपि पृष्ठवंशादयः संयतनिमित्तमुत्तरगुणा अप्यविशोधिकोटिगता वंशकादयः संयतनिमित्तमिति प्रथमो भङ्गः, अत्र प्रायश्चित्तं चत्वारो गुरुका, द्वाभ्यां गुरवः, तद्यथा - तपसा कालेन च । मूलगुणाः संयतार्थमुत्तरगुणा अविशोधिकोटिगताः स्वार्थमिति द्वितीयः, अत्र चत्वारो गुरुकास्तपोगुरवः काललघुकाः । “तइयम्मि होति भयण "त्ति मूलगुणाः स्वार्थमुत्तरगुणाः संयतार्थमिति तृतीयो भङ्गस्तस्मिन् भजना । सा चेयम्-येऽत्रोत्तरगुणास्ते यद्यविशोधिकोटिगतास्तदा चतुर्गुरवस्तपोलघवः कालगुरवः, अथ विशोधिकोटिगतास्ते ततोऽप्राशुकेन देशे सर्वस्मिन् वा परिकर्मणि चत्वारो लघवः, प्राशुकेन देशतो मासलघु, सर्वतश्चत्वारो लघुकाः । आत्मार्थं मूलगुणा आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थकृतश्चरमभङ्गः शुद्धः ॥ तदेवं द्विविधकरणोपघातेति द्वारं व्याख्यातम् । अधुना संसक्तद्वारमाह[भा. ५८८] पुढवि दग अगनि हरियग, तसपाण सागारियादि संसत्ता ।
वंभवय आदि दंसणविराहिगा पञ्चवाया उ ।।
वृ-पृथिव्या उदकेनाग्निना हरितकेन त्रसपाणैः 'सागारिकादिभिश्च' सागारिकः शय्यातरः आदिशब्दादन्यस्त्र-पुरुषगृहस्थैः 'संसक्ता' सम्मिश्रा । तथा प्रत्यपाययति-प्रत्यपाये पातयतीति प्रत्यपाया ब्रह्मव्रतादीनां दर्शनस्य सम्यक्त्वस्य विराधिका, यत्र ब्रह्मव्रतादीनां विराधनोपजायते सा सप्रत्यवाया शय्या इत्यर्थः । अत्रोभयत्रापि प्रायश्चित्तविधिमाह
[भा. ५८९ ] काएसु उ संसत्ते, सचित्त-मीसेसु होइ सट्ठाणं । सागारियसंसत्ते, लहुगा गुरुगा य जे जत्थ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org