________________
बृहत्कल्प-छेदसूत्रम् - ३-६/२१५
मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनात् ॥ तथाऽऽमुष्मिकफलार्थिनाऽपि ज्ञान एव यतितव्यम्, आगमेऽपि तथाप्रतिपादनात् । उक्तं पढमं नाणं ततो दया, एवं चिट्ठइ सव्वसंजए । अनाणी किं काही ?, किं वा नाही य छेय-पावगं ? ॥ इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात् तीर्थकर - गणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा । तथा चागमः
४३०
गीयत्थो य विहारो, बीतो गीयत्थमीसतो भणितो । एत्तो तइय विहारी, नाणुनाओ जिनवरेहिं ॥
न खलु अन्धेनान्धः समाकृष्यमाणः सम्यकपन्थानं प्रतिपद्यते इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव प्रतिपत्तव्यम्, यस्मादर्हतोऽपि भवाम्भोधिटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टचरणवतोऽपि न तावद् अपवर्गप्राप्तिरुपजायते यावद् जीवा 5जीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञनं नोत्पन्नमिति। तस्माद् ज्ञानमेव प्रधानमैहिका - SS मुष्मिकफलप्राप्तिकारणमिति स्थितम् । "इति जो उवएसो सो नओ नाम" 'इति' एवम् उक्तेन प्रकारेण य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः । उक्तो ज्ञाननयः । सम्प्रति क्रियानयावसरः, तद्दर्शनंचेदम्-क्रियैव एहिका - SS मुष्मिकफलप्रातिकारमं प्रधानम्, युक्तियुक्तत्वात् । तथा चायमप्युक्तस्वरूपामेव स्वपक्षसिद्धये गाथामाह-"नायम्मि गिण्हियव्वे० " इत्यादि । अस्याः क्रियानयदर्शनानुसारेण व्याख्या ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चार्थे ऐहका - SS मुष्मिकफलप्रासयर्थिना यतितव्यमेव । यस्मात् प्रवृत्त्यादिलक्षणप्रयलव्यतिरेकेण ज्ञानवतोऽपि नाभिलषितार्थावाप्तिरुपजायते । तथा चोक्तमन्यैरपि
क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्री - भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥
आमुष्मिकफलार्थिनाऽपि क्रियैव कर्तव्या, तथा च भगवद्वचनमप्येवमेव व्यवस्थितम् । यत उक्तम्चेइय कुल गण संघे, आयरियाणं च पवयणं सुए य । सव्वेसु वि तेन कयं तव-संजममुज्जमंतेनं ॥
इतश्चैवमङ्गीकर्तव्यम्, यस्मात्तीर्थकर - गणधरैः क्रियाविकलानाज्ञानमपिविफलमेवोक्तम्। तथाचागमःसुबहु पि सुमहीयं, किं काही चरणविप्पहीनस्स ? |
अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि ॥
६शिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरत्वात् क्षायिकमङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादर्हतो भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्यवाप्ति सम्भवति यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोच्चारणकालमात्रा सर्वसंवरूपा चारित्रक्रिया नावाप्यते, ततः क्रियैव प्रधानमैहिकाSS मुष्मिकफलप्राप्तिकारणमिति । "इति जो उवदेसो सोनओ नाम" 'इति' एवम् उक्तेन प्रकारेण य उपदेशः क्रियाप्राधान्यख्यापनरपः स नयो नाम, क्रियानय इत्यर्थः । उक्तः क्रियानयः ॥ इत्थं ज्ञान-1 -क्रियानयस्वरूपं श्रुत्वा विदिततदभिप्रायो विनेयः संशयापत्रः सन् आह-किमत्र तत्त्वम् ? पक्षद्वयेऽपि युक्तिसम्भवात्। आचार्य आह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org