________________
उद्देशक: ६, मूलं - २१५, [ भा. ६४१० ]
सव्वेसि पि नयाणं, बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं, जं चरण-गुणट्ठितो साहू ॥
सर्वेषामपि मूलनयानाम अपिशब्दात् तद्भेदानामपि नयानां द्रव्यास्तिकादीनाम् 'बहुविधवक्तव्यतां' ‘सामान्यमेव, विशेषा एव, उभयमेव वा परस्परनिरपेक्षम्' इत्यादिरूपाम्, अथवा 'नामादिनयानां मध्ये को नयः कं साधुमिच्छति ?' इत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसम्मतं वचनम्-यत् 'चरण-गुणस्थितः' चारित्र -ज्ञानस्थितः साधुः यस्मात् सर्वेऽपि नया भावनिक्षेपमिच्छन्तीति गतं नयद्वारम् ॥
J
नन्दीसन्दर्मभूले सुध्द्धतर महापीठिकासन्कन्धबन्धे, तुङ्गोद्देशाख्यशाखे दल-कुसुमसमैः सूत्र -निर्युक्तिवाक्यैः । सान्द्रे भाष्यार्थसार्थामृतफलकलिते कल्पकल्पद्रुमेऽस्मि नाक्रष्टुं षष्ठशाखाफलनिवहमसावङ्कुटीवाऽस्तु टीका ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत्कल्पस सूत्रस्य (भद्रबाहु स्वामि रचिता स्वोपज्ञ नियुक्ति युक्तं ) संघदासगणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता ।
३५ द्वीतीयं छेदसूत्रं बृहत्कल्पं समाप्तम्
४३१
अथ प्रशस्ति: सौवर्णा विविधार्थरत्नकलिता एते षडुद्देशकाः, श्रीकल्पेऽर्थनिधौ मताः सुकशला दौर्गत्यदुःखापहे । दृष्ट्वा चूर्णिसुबीजकाक्षरततिं कुश्याऽथ गुर्वाज्ञया, खानं खानमयी मया स्व-परयोरर्थे स्फुटार्थीकृताः ॥ श्री कल्पसूत्रममृतं विबुधोपयोग योग्यं जरा-मरणदारुणदुःखहारि । येनोद्धृतं मतिमथा मथिताच्छुताब्धेः, श्रीभद्रबाहुगुरवे प्रणतोऽस्मि तस्मै ।। येनेदं कल्पसूत्र कमलमुकुलवत् कोमलं मञ्जुलाभि गोर्भिर्दोषापहामि स्फुटविषयविभागस्य सन्दर्शिकाभिः । उत्फुल्लोद्देशपत्रं सुरसपरिमलोद्गारसारं वितेने,
तं निसम्बन्धबन्धुं नुत मुनिमधुपाः ! भास्करं भाष्यकारम् ॥ श्रीकल्पाध्ययनेऽस्मिन्नतिगम्भीरार्थभाष्यपरिकलिते । विषमपदविवरणकृते, श्रीचूर्णिकृते नमः कृतिने ॥
श्रुतदेवताप्रसादादमध्ययनं विवृण्वता कुशलम् । यदवापि मया तेन, प्राप्नुयां बोधिमहममलाम् । गम- नयगभीरनीरश्चित्रोत्सराग-ऽपवादवादोर्मि। युक्तिशतरत्नम्यो जैनागमजलनिधिर्जयति ।। श्रीजैनशासननभस्तलतिग्मरश्मि, श्रीसद्मचान्द्रकुलपद्मविकाशकारी ।
स्वज्योतिरावृतदिगम्बरडम्बरोऽभूत्, श्रीमान धनेश्वहरुगुरु प्रथितः पृथिव्याम् ॥
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org