________________
उद्देशकः ६, मूलं-२१५, [भा. ६४८९]
४२९ तथा मुक्ताः-परित्यक्ता योगाः-ज्ञान-दर्शन-चारित्र-तपोविषया व्यापारा येन स मुक्तयोगी । ईशेऽपात्रे न दातव्यम् । यस्तु ददाति सः षड्विधगतिगुपिले' पृथिवीकायादित्रसकायान्तषट्कायपरिभ्रमणगहने 'दीर्घ' अपारे संसारे भ्राम्यति ॥अथ कीशस्य दातव्यम् ? को वा पात्रे ददतो गुणो भवति? इति अत आह[भा.६४९०] अरहस्सधारए पारए य असढकरणे तुलासमे समिते।
कप्पानुपालना दीवणा य, आराधन छिन्नसंसारी॥ वृ-नास्त्यपरंरहस्यान्तरं यस्मात् तद्अरहस्यम्, अतीवरहस्यच्छेदशास्त्रर्थतत्त्वमित्यर्थः, तद् यो धारयति-अपात्रेभ्यो न प्रयच्छति सोऽरहस्यधारकः । 'पारगः' सर्वस्यापि प्रारब्धश्रतस्य परगामी, न पल्लवग्राही । 'अशठकरणो नाम माया-मदविप्रभुक्तो भूत्वा यथोक्तं विहितानुष्ठानं करोति । 'तुलासमोनाम यथा तुला समस्थितान मार्गतोन वापुरतोनमतिएवंयोरागद्वेषविमुक्तो माना-ऽपमान-सुख-दुःखादिषु समः स तुलासम उच्यते । समितः' पञ्चभि समितिभि समायुक्तः। एवंविधगुणोपेतस्येदमध्ययनंदातव्यम् । एवंददता कल्पस्य-भगवदुक्तस्य श्रुतदानविधेरनुपालना कृताभवति; अथवा कल्पे-कल्पाषामपि मार्गस्य प्रकाशना कृताभवति, यथाऽन्यैरपि एवंगुणवते शिष्याय श्रुतप्रदानं कर्तव्यम्; अथवा “दीवण"त्ति यो योग्यविनेयानां 'दीपनाम्' अनालस्येन व्याख्यानं करोति तस्येदं दातव्यम्; यदि वा दीपना नाम-उत्सर्गयाग्यानामुत्सर्गं दीपयति, अपवादयोग्यानामपवादंदीपयति, उभययोग्यानामुभावपि दीपयति, प्रमादिनांवादोषान्दीपयति, अप्रमादिनां गुणान् दीपयति । य एतस्यां कल्पानुपालनायां दीपनायां च वर्तते तस्य ज्ञान-दर्शनचारित्रमयीजघन्या मध्यमाउत्कृष्टा चाऽऽराधना भवति । ततश्चाराधनायाः छिन्नसंसारी' भवति संसारसन्ततेर्व्यवच्छेदं करोति । तस्यां च व्यवच्छिन्नायां यत् तद् अक्षयमव्याबाधमपुनरावृत्तिकं उपादेयस्थानं तत् प्राप्नोतीति ।।
उद्देशकः-६समाप्तः उक्तोऽनुगमः।सम्प्रति नयाः-तेच यद्यपि शतसङ्ख्यास्तथापि ज्ञाननय-क्रियानयद्वयेऽन्तर्भाव्यन्ते तत्र ज्ञाननयस्यायमभिप्रायः-ज्ञानमेवप्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणम्।तथा च तदभिप्रायसमर्थिकेयं शास्त्रन्तरोक्ता गाथा
नायम्मि गिण्डेियव्वे, अगिहियव्वम्मि चेव अत्थम्मि।
जइयव्वमेव इइ जो, उवएसो सो नओ नाम ।। अस्या व्याख्या-'ज्ञाते' सम्यक् परिच्छिन्ने ‘ग्रहीतव्ये' उपादेये 'अग्रहीतव्ये हेये चशब्दाद् उपेक्षणीये च। एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितःप्रयोगः-ज्ञातएव ग्रहीतव्येऽग्रहीतव्ये उपेक्षणीयेच, नाज्ञातेऽर्थे एहिकामुष्मिकरूपे। तत्रैहिको ग्रहीतव्यःस्त्रक्वन्दनादि, अग्रहीतव्यो विष-शस्त्र-कण्टकादि, उपेक्षणीयः तृणादि। आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिबः, ग्रहीतव्यो मिथ्यादर्शनादि, उपेक्षणीयो विवक्षयाऽभ्युदयादि । तस्मिन्नर्थे यतितव्यमेवेति ।अनुस्वारलोपाद् 'एवम्' अमुना क्रमेण ज्ञानपूर्वकमैहिका-ऽऽमुष्मिकफलप्राप्तयर्थिना सत्त्वेन ‘यतितव्यं' प्रवृत्त्यादिलक्षणः प्रयलः कार्य । इत्थं चैतदङ्गीकर्तव्यम्, सम्यग्ज्ञानमन्तरेण प्रवर्तमानस्य फलविसंवाददर्शनात् । तथा चोक्तमन्यैरपि
विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org